सत्कारमानपूजार्थं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तंराजसं चलमध्रुवम् ॥ १८ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सत्कारमानपूजार्थं तपः दम्भेन च एव यत् क्रियते तत् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥

अन्वयः[सम्पादयतु]

सत्कारमानपूजार्थं दम्भेन च एव यत् तपः क्रियते तत् इह राजसं चलम् अध्रुवं प्रोक्तम् ।

शब्दार्थः[सम्पादयतु]

सत्कारमानपूजार्थम् = स्तुतिबहुमानार्चनार्थम्
दम्भेन = धार्मिकत्वेन आत्मनः ख्यापनार्थं च
चलम् = चञ्चलम्
अध्रुवम् = अस्थिरम्
प्रोक्तम् = कथितम् ।

अर्थः[सम्पादयतु]

स्तुतिं बहुमानम् अर्चनं च प्राप्तुं धार्मिकतया आत्मानं ख्यापयितुं च यत् तपः क्रियते तत् राजसम् उदाहृतम् । तच्च तपः अत्रैव लोके फलदायकं न परलोके इति चलम्, फलं नियमेन न जनयति इति अध्रुवं च ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सत्कारमानपूजार्थं...&oldid=418845" इत्यस्माद् प्रतिप्राप्तम्