असक्तबुद्धिः सर्वत्र...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवचत्वारिंशत्तमः(४९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेन अधिगच्छति ॥

अन्वयः[सम्पादयतु]

सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः सन्न्यासेन परमां नैष्कर्म्यसिद्धिम् अधिगच्छति ।

शब्दार्थः[सम्पादयतु]

असक्तबुद्धिः = असमतिः
जितात्मा = विहितमनस्कः
विगतस्पृहः = अपगताशः
सन्न्यासेन = सम्यक् दर्शनेन
नैष्कर्म्यसिद्धिम् = परमात्मज्ञानयोग्यताम्
अधिगच्छति = प्राप्नोति ।

अर्थः[सम्पादयतु]

यः पुरुषः सर्वेषु अपि विषयेषु अनास्थः, जितमनस्कः, आशाविहीनः च वर्तते सः ज्ञानयोगेन सर्वकर्मनिवृत्तिरूपां सिद्धिं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]