असक्तबुद्धिः सर्वत्र...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
- नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवचत्वारिंशत्तमः(४९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेन अधिगच्छति ॥
अन्वयः
[सम्पादयतु]सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः सन्न्यासेन परमां नैष्कर्म्यसिद्धिम् अधिगच्छति ।
शब्दार्थः
[सम्पादयतु]- असक्तबुद्धिः = असमतिः
- जितात्मा = विहितमनस्कः
- विगतस्पृहः = अपगताशः
- सन्न्यासेन = सम्यक् दर्शनेन
- नैष्कर्म्यसिद्धिम् = परमात्मज्ञानयोग्यताम्
- अधिगच्छति = प्राप्नोति ।
अर्थः
[सम्पादयतु]यः पुरुषः सर्वेषु अपि विषयेषु अनास्थः, जितमनस्कः, आशाविहीनः च वर्तते सः ज्ञानयोगेन सर्वकर्मनिवृत्तिरूपां सिद्धिं प्राप्नोति ।