डा मनमोहन अत्तावर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


(कालः - १९३२ तः)

अयं मनमोहन अत्तावरः (Dr. Manamohan Attavara) कश्चन विशिष्टः विज्ञानी । अयं कृषिम् अपि उद्यमत्वेन पर्यवर्तयत् । एषः १९३२ तमे वर्षे भारतदेशस्य कर्णाटकराज्यस्य उडुपिमण्डलस्य कार्कळ इति प्रदेशे जन्म प्राप्नोत् । १९५९ तमे वर्षे धारवाडस्य कृषिविश्वविद्यालयतः कृषिपदवीं, १९६१ तमे वर्षे स्नातकोत्तरपदवीं च प्राप्नोत् । तदनन्तरम् अमेरिकादेशं गत्वा सस्यानां वंशशास्त्रे नैपुण्यं प्राप्य १९६५ तमे वर्षे भारतं प्रतिनिवृत्तः । आधुनिकानां तन्त्रज्ञानानाम् आधारेण वैज्ञानिकरीत्या फल पुष्पाणां बीजानां तथा सस्यानाम् उत्पादनार्थं बेङ्गळूरुनगरे "इण्डो अमेरिकन् हैब्रिड् सीड्स्” नामिकायाः संस्थायाः आरम्भम् अकरोत् अपि ।


अनेन मनमोहन अत्तावरेण उत्पादितस्य वार्तक्याः वंशस्य "कर्णाटकम्” इति, महामरीचिकायाः वंशस्य च "क्याप्सिकं भारतम्” इति च तदानीन्तना भारतस्य प्रधानमन्त्रिणी श्रीमती इन्दिरा गान्धिः नामकरणम् अकरोत् । १९६६ तमे वर्षे सस्योत्पादनाय एव अत्याधुनिक–आनुकूल्यसहितं वायुनियन्त्रितं "हरितगृहम्” अपि निरमापयत् । १९८८ तमॆ वर्षे समग्रे एष्याखण्डे एव महतः "जैविकतन्त्रज्ञान”स्य विभागम् आरब्धवान् । तस्य विभागस्य द्वारा एव अद्यापि अत्यधिकस्य फलोदयस्य शाकानां, फलानं, पुष्पाणां च निर्यातः प्रचलति ।

""

"https://sa.wikipedia.org/w/index.php?title=डा_मनमोहन_अत्तावर&oldid=368407" इत्यस्माद् प्रतिप्राप्तम्