3.15 क्रमान्यत्वं परिणामान्यत्वे हेतुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पतञ्जलिः

सूत्रसारः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावक्रमः । नातीतस्यास्ति क्रमः । कस्मात्? पूर्वपरतायां सत्यां समनतरत्वम् । सा तु नास्त्यतीतस्य । तस्माद्द्वयोरेव लक्षणयोः क्रमः । तथावस्थापरिणामक्रमोऽपि । घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदायमेकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः । वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवत्यनुमानेन प्रापितवस्तुमात्रसद्भावाः ।

निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् ।
चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥१५॥

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine