4.10 तासामनादित्वं चाशिषो नित्यत्वात्
सूत्रसारः
[सम्पादयतु]व्यासभाष्यम्
[सम्पादयतु]तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते, सा न स्वाभाविकी । कस्मात्? जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषो दुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्? न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्कश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपवर्तत इति । घटप्रासादप्रदीपकल्पं सङ्कोचविकाशि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त इति । वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकाशिनीत्याचार्यः । तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधं—बाह्यमाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि । चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्तं—ये चेइते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मः प्रकृष्टं धर्ममभिनिवर्तयन्ति । तयोर्मानसं बलीयः । कथं ? ज्ञानवैराग्ये केनातिशय्येते ? दण्डकारण्यं च चित्तबलव्यतिरेकेण कः शरीरेण कर्मणा शून्यं कर्तुमुत्सहेत, समुद्रमगस्त्यवद्वा पिबेत॥१०॥
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि 4.10 तासामनादित्वं चाशिषो नित्यत्वात्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine
- Yoga system of Patañjali (including commentaries Yoga-bhāshya by Vyasa and, Tattva-vāicāradī by Vāchaspati-Miçra), translated by James Haughton Woods, at books.google.com
- The Yoga Aphorisms of Patañjali (including commentary by Bhoja Raja), translated by Rajendralala Mitra, at books.google.com
- Patañjali - Yoga-Sutra: A word by word translation with gramma and comment Archived २०१२-०२-०२ at the Wayback Machine
- The Yoga Sutras of Patañjali, translation by BonGiovanni, at sacred-texts.com
- The Yoga Sutras of Patañjali: the Book of the Spiritual Man by Patañjali, an interpretation by Charles Johnston, at Project Gutenberg
- Yoga sutra and related yoga texts, at sanskritdocuments.org
- Audio lectures on Yoga Sutras, by Swami Harshananda, at archive.org
- Yoga Sutras Online Program by A. G. Mohan