पानीयकषायम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतत् कषायं भारते अपि पीयमानं किञ्चित् पेयम् अस्ति । एतत् कषायम् अपि सस्यजन्यः आहारपदार्थः । एतत् कषायं कषायचूर्णेन निर्मीयते । तत् पेयं सर्वदा उष्णम् एव पीयते । कषायचूर्णस्य निर्माणावसरे तत्र कुस्तुम्बरी, जीरिका, मरीचं, खसतिलः एला इत्यादिकं योजितं भवति । ततः कषायपेयस्य निर्माणावसरे जलं, दुग्धं च योज्यते । कुत्रचित् कषाये शर्करा योज्यते, कुत्रचित् च गुडः । एतत् कषायं दक्षिणभारते अधिकतया पीयते । यत्र शैत्यम् अधिकं तत्र सर्वत्र कषायम् अधिकतया पिबन्ति । काफीपेयस्य, चायस्य च स्थाने अपि कषायं पिबन्ति । काफीपेयस्य चायस्य वा अपेक्षया आरोग्यार्थम् अपि कषायम् उत्तमम् ।

कषायस्य निर्माणम् अपि अतीव सुलभम् । कषायचूर्णं, जलं, दुग्धं, गुडं च योजयित्वा क्वथनीयम् । सम्यक् क्वथनानन्तरं शोधयित्वा पातव्यम् । दुग्धजलयोः प्रमाणं विभिन्नेषु प्रदेशेषु भिन्नं भवति । माधुर्यस्य अपेक्षानुसारं गुडः शर्करा वा योज्यते । कषायचूर्णं चषकपरिमितस्य कषायस्य निर्माणार्थं चमसपरिमितं योज्यते । तस्यापि चूर्णस्य प्रमाणे भेदः भवितुम् अर्हति ।

"https://sa.wikipedia.org/w/index.php?title=पानीयकषायम्&oldid=369850" इत्यस्माद् प्रतिप्राप्तम्