औपश्लेषिकसप्तमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



एकदेशव्याप्तिरुपः आधारः औपश्लेषिकः । सः च संयोगमूलकः समवायमूलको वा भवति । अयम् आधारः स्वस्य एकदेशव्याप्तिरुपो भवति, न तु सकलावयवव्याप्तिरुपः । यथा –कटे उपविशति । अत्र कटः उपवेशनक्रियायाः आधारः । किन्तु उपवेशनक्रिया कटस्य एकदेशे भवति, न तु कृत्स्ने कटे । अत्र सम्बन्धः संयोगः । अतः अयम् औपश्लेषिकः आधारः । ‘पाचकः स्थाल्याम् ओदनं पचति’ इत्यत्र तु ओदनं कर्म । तन्कर्मनिष्ठक्रियायाः आधारः स्थाली । एषोऽपि औपश्लेषिकः एव ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=औपश्लेषिकसप्तमी&oldid=419093" इत्यस्माद् प्रतिप्राप्तम्