स्वामी हीरादासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कविपरिचयः[सम्पादयतु]

स्वामी हीरादासो (Swami Haridas) हरियाणाप्रान्तस्य भिवानीनगरे दादूसम्प्रदायावलम्बिनः । श्रीरामरत्नदासस्य शिष्य आसीत् । अयं १९४६ तमे विक्रमसंवत्सरे श्रीदादूरायमहाकाव्यं प्रणीतवान् । अयं १९६० तमे वैक्रमेऽब्दे दिवङ्तः ।

श्रीदादूरामोदयम्[सम्पादयतु]

२४ विश्रामेषु (सर्गेषु) रचितं श्रीदादूरमोदयं चरितप्रधनं पौराणिकं महाकाव्यमस्ति । श्रीदादूरमोऽत्र च्रितनायकः । विष्णुना शप्तः सनत्कुमार एव भुविदादूरामरूपे अवतरितः । तस्य विविधलीला उपदेशाश्चात्र वर्णिताः । प्रायेणात्र अनुष्टुप्छन्दस एव प्रयोगः कृतः ।

काव्यकला[सम्पादयतु]

स्वामी हीरादासो कविः । अस्य भाषाशैली सरला प्राञ्जला च । पात्राणां चित्रेण कविः सर्वथा सफलतां प्राप्तवान् । श्रीदादूरमो धीरप्रशान्तनायकः । तस्य चारित्रिकविशेषतानां चित्रणं कृतम् । अस्य महाकाव्याङ्गीरसः शान्तः । अन्ये सर्वे अङ्गत्वेन समाविष्टाः । उपदेशमयीनां सूक्तीनां स्थानेस्थाने प्रयोगः कृतः । सूक्तयः प्रायेण व्यवहारोपयोगिन्यः । यथा -

शीलं प्रधाने न कुलं प्रधानं
कुलेन किं शीलविवर्जितेन ।
बहवो नरा नीचकुलेषु जाताः
मोक्षं गताः शीलमुपास्य धीराः ॥ (५/५८)

"https://sa.wikipedia.org/w/index.php?title=स्वामी_हीरादासः&oldid=372023" इत्यस्माद् प्रतिप्राप्तम्