पाञ्चालीरीतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



पाञ्चालरीतिः वैदर्भीगौडीरीत्युभयात्मिका इति कथनात् मृदुपरुषा मध्यमसमासा च भवति पाञ्चालीरीतिः । यथा –

जेतुः काकतिविररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षेणीरेणुभरे नभस्यपि भृशं भूविभ्रमं बिभ्रति ।
जाताऽमर्त्यनदी विशङ्कटतटी दीर्घावियददीर्घिका
गाढं गूढ्तमा च गौतमनदी पातालगङ्गायते ॥

अत्र बन्धस्य नातिमृदुलत्वात् नातिपरुषत्वात् मध्यमसमासप्रायत्वाच्च, इयं पाञ्चालीरीतिर्भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पाञ्चालीरीतिः&oldid=419248" इत्यस्माद् प्रतिप्राप्तम्