मुदेनूरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुदेनूरु
—  ग्रामः  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् कर्नाटकराज्यम्
मण्डलम् बेल्गाम् मण्डलम्
समयवलयः IST (UTC+05:30)

मुदेनूरु (Mudenur) कर्णाटकस्य गुल्बर्गामण्डलस्य सुरपुरोपमण्डले विद्यमानः शिवशरणक्षेत्रम् । शरणस्य दासिमय्यस्य क्षेत्रमेतत् । कन्नडसाहित्ये वचनप्रकारस्य विशिष्टं स्थानमस्ति । संस्कृतभूयिष्ठं चम्पूकाव्यं कन्नडे प्रकाशमानमस्त्येव । तस्य पुरतः जनानां व्यावहारिकवचनैः प्रतिगृहं प्रतिजनं वचनसाहित्यं प्रविष्टंम् । एतदेकं कन्नडसाहित्ये नूतनप्रकारकम् । नूतनदिशि उदितः प्रकाशः एतत् वचनसाहित्यम् । आद्यवचनकारः इति प्रसिद्धस्य जेडरदासिमय्यस्य कर्मभूमिः एषः मुदेनूरुग्रामः ।

उल्लेखः[सम्पादयतु]

शरणानां वचनैः, बसवपुराणेन, हरिहररगळेद्वारा, चन्नबसवपुराणद्वारा च जेडरदासिमय्यस्य विषयः ज्ञायते । तथैव विविधसाहित्यकृतिषु, पुराणकृतिषु अपि दासिमय्यस्य विषयः लभ्यते । वचनसाहित्ये जेडरदासिमय्यस्य स्थानं महत्त्वपूर्णम् अस्ति । बसवण्णस्य वचनेषु दासिमः, दासय्यः, दासिमय्यः, दासिदेवः इत्यादीनि जेडरदासिमय्यस्य नामानि उपलभ्यन्ते । एतस्य तन्तुवायवृत्तिः । शासनेषु अपि दासिमय्यस्य उल्लेखः अस्ति । एषः इतिहासप्रसिद्धः पुरुषः ।

आद्यवचनकारः इति विख्यातः एषः गुल्बर्गामण्डलस्य सुरपुरोपमण्डलस्य मुदेनूरुग्रामस्थः । कर्णाटके वीरशैवधर्मस्य प्रसारम् अनेके जनाः कृतवन्तः । जेडरदासिमय्यः श्रीशैले वीरशैवदीक्षां प्राप्तवान् । अनन्तरम् एषः मुदेनूरुग्रामे धर्मप्रसारम् आरब्धवान् । अतः वीरशैवधर्मप्रसारकार्ये मुदेनूरुग्रामः प्रमुखं केन्द्रं जातम् ।

इतिहासः[सम्पादयतु]

मुदेनूरुग्रामे चालुक्यराजस्य विक्रमदित्यस्य पञ्च शासनानि लब्धानि । एतैः शासनैः मुदेनूरुः कल्याणचालुक्यानां, कळचुरिराजानां, यादववंशानां शासनेन पालितः आसीत् इति ज्ञायते । मुदेनूरुग्रामे रामनाथस्य, लक्ष्मणस्य, गोपालकृष्णस्य च देवालयाः सन्ति । ग्रामे दासिमय्यस्य शिलामूर्तिः अपि अस्ति । इदानीन्तनः मुदेनूरुग्रामः पूर्वं मुहपुरपट्टणम् आसीत् इति संशोधनेन ज्ञायते । देवनूरुग्रामस्य रामनाथदेवालयः लक्ष्मणदेवालयश्र्च कल्याणचालुक्यकालतः अपि प्रसिद्धौ । जेडरदासिमय्यस्य आराध्यदेवः रामनाथः एव ।

अत्रत्येषु देवालयेषु विद्याप्रसारकार्यं प्रचलति स्म । एतेन सामाजिकक्षेत्रे धार्मिकक्षेत्रे आर्थिकक्षेत्रे च परिवर्तनं जातम् । शासनानामाधारेण रामनाथदेवालयः लक्ष्मणदेवालयश्र्च प्रसिद्धौ इति ज्ञायते ।

अलौकिकघटनाः[सम्पादयतु]

जेडरदासिमय्यस्य सम्बद्धानि अनेकानि अलौकिककार्याणि श्रूयन्ते । जेडरदासिमय्यः रामनाथस्य भक्तः । एकदा एषः देवालयम् आगतवान् । तदा विप्राः द्वारं कीलितवन्तः आसन् । एतस्य देवदर्शनं नैव स्यात् इति तेषां दुष्टेच्छा आसीत् । परन्तु यदा जेडरदासिमय्यः देवस्थानस्य द्वारस्य समीपे आगतवान् तदा तालः अधः पतितः । कीलकम् उद्घाटितम् । यः द्वारं कीलितवान् तस्य विप्रस्य लज्जा जाता । दासिमय्यस्य देवदर्शनस्य एतं प्रसङ्गम् अम्बिगरचौडय्यः उल्लिखितवान्।

जेडरदासिमय्यः द्वादशवर्षाणि तपः कृत्वा अमूल्यमेकं वस्त्रं निर्मितवान् । यदा तत् वस्त्रं विपणिं नीतवान् कोपि न क्रीतवान् । शिवः जङ्गमरूपेण आगत्य दानरूपेण तद्वस्त्रं प्राप्य तस्य पुरतः एव छिन्नं करोति । एतेनापि दासिमय्यः कुपितः न भवति । स्थितप्रज्ञः तिष्ठति । एतदवलोक्य शिवः निजरूपं प्रदर्श्य जेडरदासिमय्यम् अनुगृह्णाति । तस्मै "नवनिधिं" ददाति । शिवेन दत्तं ’नवनिधिम्’ उपयुज्य दासिमय्यः नित्यदासोहम् आचरति । एतत् बसवण्णः स्वकीये वचने उल्लिखितवान् । मुदेनूरु दक्षिणकाशीति उच्यते । कास्मिंश्चित् काले भव्यया परम्परया विराजमानः आसीत् । अद्य शिथिलावस्थायाम् अस्ति एषः ग्रामः।

सप्ततीर्थानि[सम्पादयतु]

राज्ञां काले मुदेनूरुग्रामः प्रसिद्धं वाणिज्यकेन्द्रमिति ज्ञायते । मुदेनूरुग्रामे सप्ततीर्थानि सन्ति । हालुतीर्थम्, सक्करेतीर्थम्, पाण्डवतीर्थम्, मरुळुतीर्थम्, लक्ष्मणतीर्थम्, सङ्गमतीर्थम् इत्येवं सप्ततीर्थानि । एतैः तीर्थैः ग्रामस्य कृषिकार्यं प्रचलति । एतस्य ग्रामस्य सर्वेषां जनानां जेडरदासिमय्ये विशेषे भक्तिः प्रीतिश्र्च । पार्श्र्वग्रामेषु अपि जेडरदासिमय्यस्य जयन्त्युत्सवम् आचरन्ति ।

लक्ष्मणतीर्थे जेडरदासिमय्यस्य मूर्तिः इति कथ्यमानः एकः विग्रहः अस्ति । तस्य उपवीतम् अपि अस्ति । अत्र दासिमय्यस्य ’गर्भगुडि’ अपि अस्ति । पुरतः रामलिङ्गेश्र्वरदेवालयः अस्ति । द्वयोः मध्ये नन्दिबसवण्णः अस्ति । एतैः सर्वैः समावेष्टितः विशालः देवालयः शोभते । देवालयस्य पार्श्र्वयोः पार्वतीपरमेश्र्वरयोः देवालयः मल्लिकार्जुनदेवालयश्र्च स्तः, लिङ्गानि अपि सन्ति । पुण्यक्षेत्रे मुदेनूरौ सप्ततीर्थानि सन्ति । रामतीर्थे रामायणसम्बद्धानि, भारतसम्बद्धानि प्राचीनशिल्पानि सन्ति । भीकरक्षामेऽपि एतत् तीर्थं शुष्कं न भवति । एतदत्रत्यं वैशिष्ट्यम् । एतस्य तीर्थस्य जलं बहुरुचिकरम् अस्ति । पानसमये नारिकेलजलस्य अनुभूतिः भवति ।

रथोत्सवः[सम्पादयतु]

मुदेनूरौ जेडरदासिमय्यस्य अनुभवमण्डपः अस्ति । प्रतिवर्षम् अत्र युगादि-अमावास्यातः एकादशदिनानि यावत् पुराणप्रवचनानि प्रचलन्ति । अन्तिमदिने दासिमय्यस्य रथोत्सवः भक्तिभावैः वैभवोपेतरीत्या च प्रचलति । जेडरदासिमय्यः बहूनि अलौकिककार्याणि कृतवान् । एषः शिवशरणेषु अग्रमान्यः अस्ति । एतस्य वचनेषु भक्तिभावः अस्ति । समाजस्य विडम्बना अस्ति । ’कायक’(कार्यम्) इत्यादयः विषयाः एतस्य वचनेषु सन्ति ।

कपटभक्तान् निन्दति एषः । शिवशरणो भूत्वा कर्मणा जीवनं यापितवान् । एतस्य ग्रामः शिवशरणक्षेत्रेषु अत्यन्तं पवित्रम् अस्ति । एतादृशक्षेत्राणां दर्शनेन एकैकस्यापि जीवनं पवित्रं भवति ।

"https://sa.wikipedia.org/w/index.php?title=मुदेनूरु&oldid=376794" इत्यस्माद् प्रतिप्राप्तम्