सामग्री पर जाएँ

चम्पूकाव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चम्पूकाव्यानि इत्यस्मात् पुनर्निर्दिष्टम्)

चम्पू ( /ˈxəmkɑːvjəm/) (हिन्दी: चम्पू काव्य, आङ्ग्ल: Champukavya) इत्ययं शब्दः स्त्रीप्रत्ययान्तः वर्तते । चुरादिगणस्य 'चपि' गत्यर्थकं धातोः 'उ' प्रत्यये सति चम्पयति चम्पतीति वा चम्पूः इत्यर्थकः चम्पू शब्दः व्युत्पनः । परन्तु तेन अर्थेन चम्पू-शब्दस्य वास्तविकः अर्थः न ज्ञायते । गत्याः गमनं, ज्ञानं, प्राप्तिः, मोक्षः इत्येते अर्थाः अपि अङ्गीक्रियन्ते । अतः अत्र मोक्षसमानम् आनन्दं दातुं समर्था श्रव्यकाव्यस्य मिश्रशैली एव चम्पूः इति गृह्यते । हरिदासभट्टाचार्यस्य मतम् अस्ति यत्, "चमत्कृत्य पुनाति सहृदयान् विस्मिताकृत्य प्रसादयति इति चम्पूः" इति । अर्थात् गद्य-पद्ययोः युक्ता काव्यस्य चम्पू इत्याख्या विशिष्टाशैली, या पाठकानां हृदये चमत्कारम् उत्पाद्य विस्मियेन सह पवित्रताम् उत्पादयति ।

द्वादशशताब्दस्य जैनमतानुयायी हेमचन्द्राचार्याख्यः काव्यविद् स्वस्य काव्यानुशासनाख्ये ग्रन्थे उदलिखत् यत्, अङ्कः तथा उच्छवासः च चम्प्वाः अभिन्नाङ्गे स्तः इति । परन्तु कतिपयेषु चम्पूकाव्येषु अङ्कोच्छवासयोः अपेक्षया विभाजकत्वेन अध्यायस्य उपयोगः प्राप्यते । अतः एतावता चम्पूकाव्यस्य कापि स्थिरपरिभाषा न प्राप्यते ।

गद्यपद्यमयं श्रव्यं, सम्बन्धं बहुवर्णितम् । सालङ्कृतैः रसैः सिक्तं चम्पूकाव्यमुदाहृतम् ।।

अर्थात् गद्यपद्यमिश्रितं, श्रव्यं, वर्णनप्रधानम्, अलङ्कारबहुलं, सरसं, प्रबन्धकाव्यम् एव चम्पूकाव्यत्वेन परिगण्यते । पञ्चतन्त्रसदृशाः रचनाः गद्यपद्यमये सत्यपि चम्पूकाव्यत्वेन न परिगण्यते । यतो हि तादृश्यः रचनाः प्रबन्धकाव्येषु न, अपि तु मुक्तकाव्येषु अन्तर्भवन्ति ।

चम्पूकाव्यस्य इतिहासः

[सम्पादयतु]

गद्यपद्यमिश्रितानां काव्यानां रचना तु वैदिककाले एव आरब्धा आसीत् । कृष्णयजुर्वेदस्य तैतरीयसंहिता, मैत्रायणीसंहिता, कठसंहिता च चम्पूशैल्याः उत्तमानि उदाहरणानि सन्ति । ऐतरेयब्राह्मणस्य त्रयस्त्रिंशत्तमे (३३) अध्याये उल्लिखितः हरिश्चन्द्रोपाख्यानः मिश्रशैल्यां रचितः अस्ति । उदा. हरिश्चन्द्रो ह वैधस, ऐक्ष्वाको राजाऽपुत्र आस । तस्य शतं जाया बभूवुः । तासु पुत्रं न लेभे । तस्य ह पर्वतनारदौ गृहम् ऊषतुः । स ह नारदं पप्रच्छ इति ।

उपनिषत्सु पश्नोपनिषद्, मुण्डकोपनिषद्, कठोपनिषद् च मिश्रशैल्या एव उपस्थापिताः सन्ति ।

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १/१/१ ॥ कठोपनिषद्

एवं वेद-ब्राह्मण-उपनिषद्-पुराणादिषु मिश्रशैली प्राप्यते ।

ईसा इत्यस्य प्रथमेऽब्दे रचितम् अवदानशतकं गद्य-पद्य-मिश्रशैल्या प्राप्यते । हरिषेणकृतः समुद्रगुप्तप्रशस्तिः इत्याख्यः ग्रन्थः लौकिकसंस्कृतसाहित्ये मिश्रशैल्याः प्रप्रथमग्रन्थत्वेन परिगण्यते । चतुर्थेऽब्दे, पञ्चमेऽब्दे च मिश्रशैल्याः काश्चन रचनाः प्राप्यन्ते । तयोः अब्दयोः शिलालेखेषु, प्रशस्तिपत्रेषु च मिश्रशैल्या लिखिताः रचनाः प्राप्यन्ते । मध्यप्रदेशराज्यस्य मन्दसोर-नगरे वत्सभट्टिकवेः (४७३ ई.) मन्दसोरप्रशस्तिनामिका रचना शिलालेखे अङ्किता अस्ति । तथैव मौखरीवंशीयस्य ईशान वर्मन् आख्यराज्ञेण आश्रितः रविशान्तिनामकः (५५५ ई.) कविः मिश्रशैल्या हरहाप्रशस्तिम् अरचयत् । सप्तमाब्दे चन्द्रगिरिकवेः मिश्रशैल्याः शिलालेखानि प्रसिद्धानि अभूवन् । दशमेऽब्दे त्रिविक्रमभट्टेन मिश्रशैल्या प्रप्रथमः महत्त्वपूर्णः चम्पूग्रन्थः रचितः । तदेव चम्पूकाव्यं नलचम्पूः इति प्रसिद्धम् । त्रिविक्रमभट्टस्य रचनायाः अनन्तरं चम्पूकाव्यस्य प्रसिद्धिः अभवत् । ततः रचितानि चम्पूकाव्यानि अद्यापि उपलभ्यन्ते । यतो हि त्रिविक्रमभट्टस्य नलचम्प्वः अनन्तरं चम्पूकाव्यरचनायां वेगः अवर्धत । अतः त्रिविक्रमभट्टादेव चम्पूकाव्यानां विधिवत् आरम्भः अभवत् इति इतिहासविदां मतम् []

चम्पूकाव्यानां कालाधारितः विभागः

[सम्पादयतु]

कालक्रमानुसारं चम्पूकाव्यानि चतुर्षु भागेषु विभज्यन्ते ।

१. दशमाब्दात् पञ्चदशमाब्दपर्यन्तम्

२. षोडशमाब्दात् सप्तदशमाब्दपर्यन्तम्

३. सप्तदशमाब्दस्य उत्तरार्धात् अष्टमाब्दपर्यन्तम्

४. एकोनविंशतितमाब्दात् वर्तमानकालपर्यन्तम्

चम्पूकाव्यस्य प्रकाराणि

[सम्पादयतु]

१. नीत्युपदेशात्मकं चम्पूकाव्यम्

२. पौराणिकं चम्पूकाव्यम्

३. दृश्यकाव्यात्मकं चम्पूकाव्यम्

चम्पूकाव्यानि

[सम्पादयतु]

चम्पूकाव्ये सामान्यकथनं तु गद्येनैव कथ्यते किन्तु विशेषकथनाय पद्यमाश्रियते । अतः गद्यपद्योभयस्वरूपं काव्यं चम्पूसज्ञकम् । काव्यप्रकारोऽयं बहुशः प्रचलितः सम्मानितश्च दश्यते विद्वत्समाजे।

व्याख्या

[सम्पादयतु]

सामान्यतस्तु गद्यकाव्येऽपि यत्र-तत्र पद्यानामपि समावेशस्तु भवत्येव । यथा वासवदत्ता-हर्षचरित-कादम्बरी-दशकुमारचरितप्रभृतिग्रन्थेषु । तथापि तेषां चम्पूकाव्ये गणना नैव कृताऽस्ति । अतः ज्ञायते यत्, गद्यपद्यमयरचना नैव चम्पूकाव्यत्वमाप्नोति किन्तु तत्र गद्यपद्यभागयोः समानभागोप्यावश्यकः इति। यत्र गद्यं पद्यञ्च यथावश्यकं समानभागव्याप्यत्वेन प्रयुक्तं तदेव काव्यम्।

इतिहासः

[सम्पादयतु]

काव्यप्रकारोऽयं कदा वा केन प्रारब्ध इति तु नैव ज्ञातमधुनाऽपि किन्त्वेतावत्तु प्रसिद्धमेव यदसौ विक्रमपूर्वकालेऽपि लब्धप्रचार आसीत् इति। प्रथमम् अस्य रूपं स्मरति आद्यकाव्यशास्त्राचार्यों भामहः । ततश्च रुद्रदाम्नो गिरिनाराभिलेखेऽनेकेषु गुप्तकालीनाभिलेखेषु चास्य स्वरूपमुच्यते । दण्डी तु - 'गद्यपद्यमयी काचिच्चम्पूरित्यभिधीयते'[] इति नामत एव स्मरति काव्यभेदमिमम् । तथापि चम्पूकाव्यस्य स्वतन्त्रग्रन्थरूपेण त्रिविक्रमभट्टस्य नलचम्पूरेव प्रथममुदेति । ततश्च सोमप्रभसूरेः यशस्तिलकचम्पूः, हरिश्चचन्द्रस्य जीवन्धरचम्पूः, भोजस्य रामायणचम्पूश्च केचन प्राचीनाश्चम्पूग्रन्थाः।

एवमेव भागवतं महाभारतञ्चाश्रित्याऽप्यनेके चम्पूग्रन्थाः प्रणीताः सन्ति। एवमेव वरदाम्बिकापरिणयचम्पूः, नीलकण्ठविजयचम्पूः, विश्वगुणादर्शचम्पूः, मुक्ताचरित्रचम्पूः, आनन्दवृन्दावनचम्पूः, गोपालचम्पू:, आनन्दकन्दचम्पूः, चितचम्पूः, अवन्तिसुन्दरीकथाचम्पूः, पारिजातहरणचम्पूः, उषापरिणयचम्पूः, गजेन्द्र चम्पूः, भरतेश्वराभ्युदयचम्पूः, पुरुदेवचम्पूः, अमोघराघवचम्पूः, यतिराजविजयचम्पूः, विरूपाक्षवसन्तोत्सवचम्पूः, रुक्मिणीपरिणयचम्पूः, आचार्यविजयचम्पूः, वेङ्कटेशचम्पूः, धर्मविजयचम्पूः, शङ्करचेतविलासचम्पूः, गङ्गावतरणचम्पूः, रामचन्द्रचम्पूः, आनन्दचम्पूः, सुदर्शनचम्पूः, सिन्देविजयविलासचम्पूः, द्रौपदीपरिणयचम्पूः, नवरत्नावली चैवमाद्याः सन्ति प्रकाशिता अप्रकाशिताश्च सार्धद्विशताधिकाश्चैम्पूग्रन्थाः ।

चम्पूकाव्यानि

[सम्पादयतु]

नलचम्पूः

[सम्पादयतु]

अद्यावधि ज्ञातेषु चम्पूकाव्येषु त्रिविक्रमभट्टस्य नलचम्पूरेव प्रथमत्वेन गृह्यते । त्रिविक्रमः शाण्डिल्यगोत्रस्य श्रीधराऽऽख्यस्य पौत्रो देवादित्यस्य पुत्रः ९७२ मितवैक्रमाब्दमभितः स्थितिमान् । सः बाणभट्टं स्मरति-

'शश्वद्बाणद्वितीयेन नर्मदाकारधारिणा।

धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ।।'[] इति ।

बाणभट्टस्य समयः श्रीहर्षसभाकवित्वेन ६५०-७१५ मितवैक्रमाब्दानभितो मतः । तेन अयमेव कालस्त्रिविक्रमस्य पूर्वसीमा स्थितिकालस्य । एवमेव विक्रमैकादशशतकोत्तरार्द्धभवो भोजो नलचम्पूं स्मरतीतीयमेव तस्य स्थितिकालस्यावरसीमा। तथैव सः राष्ट्रकूटवंशीयस्य तृतीयेन्द्रराजस्य समये आसीदिति उल्लेखः प्राप्यते -

श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनुना।

कृता शस्ता प्रशस्तेयमिन्द्रराजाङ्घ्रिसेविना ॥इति।

कथनमिदं ९७२ मितवैक्रमाब्दे समुट्टङ्किताभिलेखे विद्यते । तेन ९७२ मितवैक्रमाब्दमभितस्तस्य स्थितिकाल इति । केचित्तु -

कैलाशायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं

मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः।

मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः

श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये॥[]

एवमेव -

मदनमिति युवानं यौवराज्येऽभिषिञ्चन्

कृतकुमुदविकासो भासयन् दिङ्मुखानि ।

इमममृततरङ्गैः प्लावयञ्जीवलोकं

गगनमवजगाहे मन्दमन्दं मृगाङ्कः॥[] ]

इति कथनेन श्लेषबलात्कमपि शशाङ्कसंज्ञितं नृपं स्मरतीति तर्कयति। तदनुसारेण कवेरस्य शशाङ्कसमकालिकत्वं मन्यते । शशाङ्को वै हर्षसमकालिकस्तत्प्रतिद्वन्द्वी गौडनरेशो वैक्रमसप्तमशतकोत्तरार्द्धस्थितिमान् । किन्तु कथनमिदं न तथा युक्तियुक्तं यतस्तथा सति तस्य बाणपूर्ववर्तित्वं मन्यते यद्धि तस्यैव 'शश्वबाणद्वितीयेन नर्मदाकार धारिणा'[] इति कथनस्य विरोधः सञ्जायते । श्रीहर्षेण शशाङ्कवधानन्तरमेव बाणस्तत्सभायां प्रविष्ट आसीत् ।

नलचम्पूः दमयन्तीकथाप्युच्यते । ग्रन्थोऽयं सप्तोच्छ्वासेषु विभक्तोऽस्ति यत्र आर्यावर्तवर्णनमारभ्य नलदमयन्तीपरिणयपर्यन्ता कथा वर्णिताऽस्ति । कथ्यते एकदाऽस्य पिता कार्यवशाद्दूरदेशं गतः आसीत् । तदैव कश्चिदपरः पण्डितस्तं तत्रागत्य शास्त्रार्थाय समाहूतवान् । स तु भीतभीतः सरस्वतीमस्तौषीत् । साऽपि तत्पितृप्रत्यागमनपर्यन्तं तज्जिह्वावासं स्वीकृतवती । ततः शास्त्रार्थे तं पण्डितं पराजित्य गृहं प्रत्यागत्य ग्रन्थमिमं लिखितुमारब्धवान् । एतदन्तरे तत्पिता प्रत्यागतो गृहम् । ततो भारती तं त्यक्तवती येन ग्रन्थोऽपूर्ण एव संवृत्तः ।

ग्रन्थेऽस्मिन्नर्थालङ्कारापेक्षया शब्दालङ्कारस्यैव प्राधान्यं दृश्यते । तथाऽप्यस्य सरसा रमणीयार्था चमत्कारपूर्णा च । यथोक्तम् -

प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविलक्षणाः ।

भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ।।

वस्तुतस्तु तस्य कृतिरपि सदूषणाऽपि निर्दोषा सखराऽपि सुकोमला विद्यते रामायण कथेव। श्लेषस्य दुर्बोधत्वं स्वीकुर्वन् कविः स्वयमेव कथयति -

वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः।

नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ।।[] इति ।

अस्य यमकच्छटा निभालनीया दृश्यते यथा -

धृतकदम्बकदम्बकनिष्पतन्नवपरागपरागममन्थराः।

हृततुषारतुषारतिरागिणां प्रियतमा मरुतो मरुतो वधूः॥[] इत्यादि ।

स हि भावनिबन्धनेऽपि पटुर्दृश्यते । भर्तृहरेः -

व्यतिसजति पदार्थानन्तरः कोऽपि हेतुर्न खलु बहिरुपाधी प्रीतयः संश्रयन्ते ।

विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥

इति कथनम् -

भवति हृदयहारी क्वापि कस्यापि कश्चित् न खलु गुणविशेषः प्रेमबन्धप्रयोगे।

विसलयति वनान्ते कोकिलालापरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः।।[]

इत्यनुवदति भावतः । तस्य हि वर्णनाचातुर्यं यथा -

आवासाः कुसुमायुधस्य शवरीसङ्केतलीलागृहाः

पुष्पामोदमिलन्मधुव्रतवधूझङ्काररुद्धाध्वगाः ।

सुस्निग्धाः प्रियबान्धबा इव दृशो दूरीभवन्तश्चिरात्

कस्यैते न वहन्ति हन्त हृदयं विन्ध्याचलस्य द्रुमाः ।।

इत्थं हि तस्य काव्ये शृङ्गारस्य सुन्दरः परिपाको वर्णनस्य माधुर्यं कल्पनायाः मनोज्ञता श्लेषच्छटा च समन्विता दृश्यन्ते ।

समालोचकैस्त्रिन्क्रमस्य कतिचित् त्रुटयोऽपि इङ्गिताः सन्ति । यासु पाण्डित्यप्रदर्शनार्थं कथावस्त्वनपेक्षा, रसपरिपाकापेक्षया शाब्दक्रीडायाः प्राधान्यं, कलाप्राबल्येन भावपक्षस्योपेक्षा, कथाविकासे गतिशीलतायाः स्वाभाविकसञ्चाराभावः, श्लेषपरिसृङ्ख्यादीनां श्रमसाध्यता, कथाया अकाण्डे एव विच्छित्तिरित्यादि ।

नलचम्पूमधिकृत्य सन्ति प्रसिद्धाः अनेकाष्टीकाः यासु चण्डपालकृता विषमपदप्रकाशा गुणविनयगणिकृता वृत्तिः (१६५० वै०) दामोदरी टीका, नागदेवी, बृहट्टीका, विवृतिटीका नन्दकिशोरस्य भावबोधिनी च ज्ञाताः काश्चन प्राचीनाः शेषराजशर्मणश्चन्द्रकला च नवीनासु ज्ञाता ।

अस्यैव ग्रन्थान्तरं मदालसाचम्पूः । अयमेव कुवलयाश्वचरितसंज्ञकोऽपि । काव्यमिदं कुवलयाश्वमदालसयोः प्रेमकथावर्णनपरं नलचम्प्वपेक्षया ग्रन्थोऽयं न्यूनश्रेणीकः । तथापि काव्यस्यास्य सुन्दरता रसवत्ता च प्रशस्या विद्यते । ग्रन्थस्यास्यैका टीका लभ्यते कस्यापि । ग्रन्थोऽयं कवेः प्रथमैव कृतिर्दश्यते । कथानकञ्चास्य मार्कण्डेयपुराणाद् गृहीतं प्रतिभाति ।

जीवन्धरचम्पूः

[सम्पादयतु]

हरिचन्द्राख्यः कश्चिज्जैनजीवन्धराख्यस्य मुनेश्चरितमाश्रित्य जीवन्धरनामकचम्पूग्रन्थं प्रणीतवान् । ग्रन्थोऽयं गुणभद्रेण ९०७ मितवैक्रमाब्दमभितः सङ्कलितमुत्तरपुराणमुपजीवति । तेनास्य प्रणयनकालो वैक्रमदशमशतकोतरार्द्धमभितोऽनुमितः । एवन्तु स्पष्टमेव यदसौ भट्टारहरिचन्द्राद्, यं बाणभट्टोऽपि सादरं स्मरति, भिन्न एव किन्तु सम्प्रत्यपि नैतत्स्पष्टं यदसौ हि शर्मधर्माभ्युदयकाव्यस्य प्रणेता एव वा तद्भिन्न इति । असौ माघे बाणभट्टञ्च सुस्पष्टमेवानुकरोति भावभाषादिकमधिकृत्य ।

यशस्सिलकचम्पूः

[सम्पादयतु]

नेमिदेवस्य शिष्येण सोमदेवाख्येन विदुषा यशस्तिलकनामा चम्पूग्रन्थः प्रणीतोऽस्ति । अत्र सन्ति अष्टावुच्छवासाः । सः राष्ट्रकूटस्य राज्ञः कृष्णदेवराजापराभिधानस्य तृतीयकृष्णस्य सभामण्डित आसीत् । तेन ग्रन्थस्यास्य प्रणयकालः १०१६ मितवैक्रमाब्दमभितोऽनुमितः।

ग्रन्थेऽस्मिन् यशोधरस्य राज्ञः सुदत्तमुनेरुपदेशेन जैनमतावलम्बनवृत्तान्तो वर्णितोऽस्ति । अत्रापि कादम्बर्यामिव कथान्तरे कथा कथिताऽस्ति । अत्र भारवि-भवभूति-भर्तृहरि-मेण्ठ-गुणाढ्य-भास-कालिदास-बाण-मयूर-नारायण-माघ-राजशेखर-प्रभृतिकवयः स्तुताः सन्ति प्रारम्भिकपद्येषु । ग्रन्थोऽयं यशोधर्मराजचरितसंज्ञयाऽपि ज्ञायते । केचिदमुमेव कविं सोमप्रभरिनाम्नाऽपि गृह्णन्ति ।

चम्पूरामायणम्

[सम्पादयतु]

चम्पूरामायणं चम्पूग्रन्थेषु उत्कृष्टकाव्यं मन्यते । अस्य प्रणेता १०६२-११११ मितवैक्रमाब्दानभितः स्थितिमान् परमारवंशीयो धारानगरीश भोजः स्मृतः किन्तु ग्रन्थे न कुत्रापि प्रणेतृनाम दत्तमस्ति । तथैव प्रतिकाण्डपुष्पिकाः वाक्ये 'इति श्रीविदर्भराजविरचिते चम्पूरामायणे' इत्युल्लिखितं दृश्यते । ग्रन्थस्यास्य प्रणेता भोजाऽऽख्य इति तु 'भोजेन तेन रचितामपि पूरयिष्यन्' इति युद्धकाण्डगतलक्ष्मणभट्टपद्याज्ज्ञायते । किन्तु कोऽसौ भोजः कतमोऽयमिति तु सम्प्रत्यपि अनिर्णीतमेव, ग्रेन्थपुष्पिकावाक्यात्तु अस्य प्रणेत्ता कश्चिद् विदर्भराज दश्यते । विदर्भेषु राजानः भोजशब्देन व्यपदिश्यन्ते प्राचीनकालादेव । यथा 'भोजेन दूतो राघवे विसृष्ट' इति रघुवंशेऽपि । धारानगरीशः परमारवंशीयः सिन्धुराजपुत्रोऽपि भोजशब्देन व्यपदिश्यते । भारतीया परम्परा धारानगरीशभोजमेव ग्रन्थस्यास्य प्रणेतृत्वेन गृह्णाति । अपरञ्च, भोजप्रबन्धादावपि स एव विद्वन्मूर्धन्यत्वेन गृहीतोऽस्ति । सम्भवति कोऽपि लिपिकारः भोजं हि वैदर्भं मत्वा तथाविधं पुष्पिकावाक्यं पश्चात्संयोजितं स्यात् । ग्रन्थगौरवदृष्ट्या त्वयं ग्रन्थो धारानरेशस्यैव भवितुमर्हति । गन्थस्यास्य सद्यः पञ्च काण्डानि भोजप्रणीतानि युद्धकाण्डे तु लक्ष्मणभट्टनाम्ना विदुषा प्रणीय पूरितम् । तथैव वेङ्कटराजाख्येन कविना उत्तरकाण्डमपि विरच्य पूरितमिति कथ्यते ।

ग्रन्थेऽस्मिन् वैदर्भीरीति सर्वातिशयित्वेन विलसति । वर्णनेऽत्र प्रयुक्ता कल्पना नितान्तोच्चकोटिका । अत्र अनुप्रासयोपमायाश्च वैचित्र्यं कुमारदासं स्मारयति । अस्योत्प्रेक्षाऽपि निभालनीया। दिङ्मात्रमुदाहरणं यथा -

सीता पुरा गगनचारिभिरप्यदृष्टा मा भूदियं सकलमानवनेत्रपात्रम्।

इत्याकलय्य नियतं पिदधे विधाता बाष्पोदयेन नयनानि शरीरभाजाम्॥[१०]

इति विविधरसाभिः कौशिकव्याहुताभिः श्रुतिपथमधुराभिः पावनाभिः कथाभिः।

गलितगहनकृच्छ्र गच्छतोर्दाशरथ्योः समकुचदिव सद्यस्तादृशं मार्गदैर्व्यम् ॥[११]

'राजन्, भवतः कुमारेण विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृथो भवितुमभिलषामीति'।

भागवतचम्पूः

[सम्पादयतु]

अभिनवकालिदासाख्येन केनचित्कविना सम्भवतः ११०० वैक्रमाब्दमभितः स्थितिमता भागवतकथा षट्सु स्तबकेषु विभज्य वर्णिताऽस्ति । सन्ति बहवो हि कवयो नाम्नैतेन ख्यातास्तेन कतमोऽस्य ग्रन्थस्य प्रणेतेति नैव निश्चित सम्प्रत्यपि ।

उदयसुन्दरीकथा

[सम्पादयतु]

विक्रमानन्तरैकादशशतकोत्तरार्द्धभवस्य सोड्ढलस्य कवेः उदयसुन्दरीकथाऽपि गद्यपद्यसमप्राधान्येन चम्पूत्वं भजते । अत्र अष्टातमाः सन्ति यत्र नागराजकुमार्या उदयसुन्दर्याः प्रतिष्ठाननरेशेन मलयवाहनेन सह परिणियः वर्णितः । अत्रापि हर्षचरितमिव वाल्मीकि-व्यास-वाक्पतिराज-विशाखदेव-गुणाढ्य-भर्तृमेण्ठ-कालिदास-बाण-भवभूति-अभिनन्दन-मायावर-कुमारदास-भासप्रभृतयः कवयः चित्तराजनागार्जुन-मुम्मुनिराज-कोङ्कणनरेश-वत्सराज-प्रभृतयोऽपि स्मृतास्तथैव लाटमहीपश्चालुक्य आश्रयदातृत्वेनाल्लिखितः । यथा हि -

'वागीश्वरं हन्त भजेऽभिनन्दमर्थेश्वरं वाक्पतिराजमीडे।

रसेश्वरं स्तौमि च कालिदासं बाणं तु सर्वेश्वरमानतोऽपि।।'

'बाणस्य हर्षचरिते निशितामुदीक्ष्य।

शक्तिं न केऽत्र कवितास्वमदं त्यजन्ति।।'

सोड्ढलः पदे पदे बाणमनुसरति । तथाप्यस्य शैली मौलिकी सरसा च विद्यते । असौ क्षक्-झम्पप्रभृतिनितान्ताप्रचलितान् शब्दान् अपि प्रयुनक्ति। ग्रन्थस्य प्रथमाध्याये कवेरात्मकथा दत्तास्ति ।

कीर्तिकौमुदी

[सम्पादयतु]

१२९७ मितवैक्रमाब्दमभितः स्थितिमतः सोमेश्वरदेवस्य कीर्तिकौमुदी अपि चम्पूकाव्येष्वेका । अत्र वीरधवलस्य मन्त्रिणो वस्तुपालस्य चरितं चित्रितमस्ति।

गङ्गावंशानुकीर्तनम्

[सम्पादयतु]

कलिङ्गशासकस्य गङ्गावंशस्येतिहाससम्बद्धश्चम्पूग्रन्थोऽयं वासुदेवरथप्रणीतः । अस्य प्रणयनकालः १४७७ मितवैक्रमाब्दमभितोऽनुमितः ।

भारतचम्पूः

[सम्पादयतु]

अनन्तभट्टप्रणीतभारतचम्पूर्महाभारतमाश्रित्य प्रणीतो द्वादशस्तबकेषु विभक्तो ग्रन्थः । एवं १६६० मितवैक्रमाब्दमभितः स्थितिमान् नारायणभट्टः स्मरतीति तस्य स्थितिकालः १५५० मितवैक्रमाब्दमभितोऽनुमितः । अस्यैव भागवतचम्पूरपि श्रूयते । अस्योपरि नारायणसूरेष्टीका लभ्यते मुद्रिता । अस्य हि ग्रन्थाद्यपद्ये -

'दिगन्तरलुठत्कीर्तिरनन्तकविकुञ्जरः ।

प्राणैस्तुल्यं सरस्वत्याः प्राणैषीच्चम्पूभारतम्॥'[१२] इति लिखितमस्ति ।

वस्तुतः कवेरस्य इलेषचमत्कारो निभालनीयो दृश्यते । यथा हि -

'नवतरुणिमलक्ष्मीनन्दनीयं शरीरं कुरुवृषभसुतानां कुर्वती नेत्रपात्रम्।

मुनिततिरिति मेने मोहनाय त्रिलोक्याः स्वविशिख इव कामः सोऽपि किं पञ्चधाऽभूत्॥'[१३] इत्यादि।

रामानुजचम्पूः

[सम्पादयतु]

सरसशैल्यां प्रणीतेऽस्मिन् ग्रन्थे विशिष्टाद्वैतमतप्रवर्तकस्य रामानुजस्य जीवनचरितं वर्णितमस्ति । अस्य प्रणयनकालः १६६० मितवैक्रमाब्दमभितोऽनुमितः ।

वरदाम्बिकापरिणयचम्पूः

[सम्पादयतु]

तिरुमलाम्बायाः वरदाम्बिकापरिणयचम्पूश्चम्पूकाव्येषु भावभाषादिदृष्ट्या नृपायते । अत्र हि अच्युतरायस्य वरदाम्बिकायाश्च प्रणयपरिणयौ मनोहारिण्या शैल्या वर्णितौ स्तः।

कवीयत्र्यसौ १५८६ मितवैक्रमाब्देऽभिषिक्तस्य राज्ञोऽच्युतरायस्यैव धर्मपत्न्यासीत् । अतोऽस्याः स्थितिकालः १५१०-१५५० मितवैक्रमाब्दानभितोऽनुमितः । ग्रन्थोऽयं भङ्गश्लेषेऽसाधारणः । निभाल्यतामस्य वर्णनासौष्ठवम् -

तदनु धरणिपालो धावता चेतसाऽग्रे सरभसमिव कृष्टः सरभगौर्याः प्रविश्य।

तडित इव घनौघे तत्र तत्र स्फुरन्तीः परित इह पुरन्ध्रीः पर्यटन्तीरपश्यत्॥[१४]

एवमेव नारायणभट्टेन (१६६० वै०) द्रौपदीस्वयंवरकथामधिकृत्य पाञ्चालीस्वयंवरचम्पूः श्लेषजालमुक्ता दृश्यते । समरपुञ्जप्रणीते यात्राबन्धे नवाश्वासाः सन्ति । अत्र सर्वाण्यपि तीर्थानि वर्णितानि सन्ति मुख्यानि । ग्रन्थोऽयं १६८० मितवैक्रमाब्दमभितः प्रणीतोऽनुमीयते । १६८० मितवैक्रमाब्दमभितः स्थितिमता मित्रमिश्रेण भङ्गश्लेषमाधृत्य आनन्दकन्दचम्पूः स्वकीयैवैशिष्ट्यैः प्रसिद्धोऽस्ति । असौ कृष्णस्य बाल्यकालकथामनुजीवति ।

चिदम्बरस्य (१६७० वै०) भागवतचम्पूः, शेषकृष्णस्य (१६६० वै०) पारिजातहरणचम्पूः, नीलकण्ठस्य नीलकण्ठविजयचम्पू: (१६९७ वै०) यो हि पञ्चसु अध्यायेषु विभक्तं यत्र शिवस्य पराक्रमो वक्रोक्तिपूर्णभाषायां वर्णितः, राजचूडामणेः (१६५७ वै०) भारतचम्पूः, चक्रकवेः (१७०७ वै०) द्रौपदीपरिणयचम्पूः, वेङ्कटाध्वरिणः विश्वगुणादर्शचम्पूः, वरदाभ्युदयचम्पूः, उत्तरचम्पूः, श्रीनिवासचम्पूश्च कतिपये प्रसिद्धचम्पूग्रन्थाः ।

विश्वगुणादर्शचम्पूः

[सम्पादयतु]

चम्पूकाव्यजगति वेङ्कटाध्वरिणः स्थानमतीव महत्त्वपूर्णम् । तस्य सन्ति चत्वारश्चम्पूग्रन्थाः, येषु विश्वगुणादर्शचम्पूरादर्श ग्रन्थरूपेण गृहीतोऽस्ति । कविरसौ स्वपरिचयमित्थं प्रस्तौति -

अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैव विद्वन्मणेः।

पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो गुणैरेधते॥२॥

तत्सुतस्तर्कवेदान्ततन्त्रव्याकृतिचिन्तकः।

व्यक्तं विश्वगुणादर्शं विधत्ते वेङ्कटाध्वरी।। ३ ।।

अनेनैतत् मन्यते यदसौ अप्पयदीक्षितस्य पौत्र आसीदिति । तेनाऽस्य समयः १७०७ मितवैक्रमाब्दमभितो मतः । स कथयति -

पद्यं यद्यपि विद्यते बहुसतां हृद्यं विगद्यं न तद्

गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधास्वाद्यताम्।

आदत्ते हि तयोः प्रयोग उभयोरामोदर्भूमोदयं

सङ्गः कस्य हि न स्वदेत मनसे माध्वीकमृद्वीकयोः।।४।।

ग्रन्थस्य कथावस्तु पृष्ठभूमिश्चेत्थम् -

विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम्।

कृशानुविश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार॥ ५ ॥

तौ हि क्रमशः सूर्यलोक-भूलोके, भूलोके अयोध्या-गङ्गानदी-काशीसमुद्र-जगन्नाथक्षेत्र-गुर्जरदेश- यमुनानदी-महाराष्ट्र-आन्ध्रप्रदेश-कर्णाटकदेश-वेङ्कटगिरि-वन-घटिकाचल-दीक्षारण्य-रामानुज-चन्नपट्टण(मद्रास)-काञ्ची-श्रीमद्वेदान्तदेशिकाचार्य-कामासिकानगरवासि-नृसिंह-त्रिविक्रम-कामाक्षीदेवी-एकाम्रेश्वर-क्षीरनदी-वाहानदी-तुण्डीरमण्डल-चञ्जीपुरी-यज्ञवराह-कावेरी-रङ्गनगरी-जम्बूकेश्वर-चोलदेश-शार्गपाणि-राजगोपाल-सेतु-ताम्रपर्णी-शठकोपमुनि-वेदान्ति-ज्योतिषिक-भिषक्कवि-तार्किक-मीमांसक-वैयाकरण-वैदिक-राजसेवक-दिव्यक्षेत्र-प्रभृतीनां वर्णनं सुनिपुणं कृतमस्ति । कविवर्णनं यथा -

माघश्चौरो मयूरो मुररिपुरपरो भारविः सारविद्यः

श्रीहर्षः कालिदासः कविरथ भवभूत्याहृयो भोजराजः ।

श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाणः |

ख्याताश्चान्ये सुबंन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥'[१५] इति ।

संवादरूपेण प्रणीतोऽयं ग्रन्थो गुणदोषविवेचनपरः ।

वरदाभ्युदयेऽनेन काञ्चीस्थदेवतानां महत्त्वं वणितमस्ति । उत्तरचम्बा रामायणस्योत्तरकाण्डगता कथोपवणताऽस्ति । श्रीनिवासचम्प्वादशीध्यायाः सन्ति यत्र तिरुमलयस्थितदेवतानां वर्णनं दृश्यते । एवमेव बाणेश्वरस्य चित्तचम्पूग्रन्थे रोज्ञश्चित्रसेनस्य जीवनं चित्रितमस्ति यो हि १८०१ मितवैक्रमाब्दे मृतः। कवेरस्य समयो वैकमैकोनविंशतिशतवपूर्वार्द्धमभितः । अस्य स्थितिक सम्प्रत्यपि नैवं निर्णीतः। द्वितीयसर्कोजोतिख्यातस्य तञ्जोरनृपस्य कुमारसम्भवचम्पूः (१८७५ वै०)।

अज्ञातकर्तृका सर्वदेवविलासचम्पूर्मद्रदेशस्य तात्कालिकॉमवस्था-वर्णयति । षडाश्वासात्मकोऽयं ग्रन्थोऽपूर्ण एवं दृश्यते । वर्तमानकाले शिवप्रसादद्विवेदिनी, नवरत्नावलीयमिति: चैम्पूग्रन्थः प्रणीतोऽस्ति । अत्रं रवनत्नानि सन्ति । तुलसीदासजीवनसम्बद्धकथाऽत्रं वणता । ग्रन्थोऽयं २०४० मितवैक्रमाब्दे प्रकाशितः । इत्थं हि रामायणश्रिताः, महाभारताश्रिताः, भगवताश्रितश्चेि संम्त्यनेकै शताधिकांश्चम्पू ग्रन्थाः येषां विवरणमंत्र विस्तरंभिया नवोपस्थाप्यते । भगवती तिचम्पूषु चिदम्बरस्य, रामभद्रस्य, राजनाथस्य च भागवतचम्पूः, केशव भट्टस्य नृसिंहचम्पू:, दैवज्ञसूर्यस्यं नृसिंहचम्पूः, संङ्कर्षणस्य नृसिंहचम्पूः शेषसंस्कृतसाहित्येतिहासः कृष्णस्य पारिजीतहरणञ्च । मैहाभारताश्रितचम्पूषु अनन्तभट्टस्य भारतचम्पू: प्रसिद्धी ।। - संस्कृतजगति प्रसिद्धाश्चम्पूकारा यथा कालक्रमानुसारेण 'त्रिविक्रमश्च सोमश्च हरिचन्द्रस्तथैव च । भोजश्च सोडूढलश्चैव राज्ञी तिरुमलाह्वया ।। नारायणस्तथा चीसन वेङ्कटाध्वरिसूरयः । शेरोऽपि चे विख्याताश्चम्पूकाव्यविधायकाः ।।' इति ।

कानिचन चम्पूकाव्यानि

[सम्पादयतु]

नलचम्पूः

मदालसाचम्पूः

चम्पूरामायणम्

भारतम्

पर्वभारतचम्पूः

चम्पूभागवतम्

सन्तानगोपालप्रबन्धः

तुलाभारप्रबन्धः

अजामिलमोक्षम्

१० अम्बरीषचरितम्

११ उषापरिणयः

१२ कंसवधचम्पूः

१३ कुचेलवृत्तम्

१४ कृष्णावतारम्

१५ गजेन्द्रमोक्षम्

१६ तृणावर्तवधम्

१७ नारदमोहनम्

१८नृगमोक्षम्

१९ पूतनामोक्षम्

२० प्रह्लादचरितम्

२१ बाणयुद्धम्

२२ राजसूयम्

२३ रासक्रीडा

२४ रुक्मिणीस्वयंवरम्

२५ रुक्मिणीहरणम्

२६ वामनावतारः

२७ सुकन्याचरितसङ्ग्रहः

२८ सुदर्शनमोक्षम्

२९ स्यमन्तकम्

३० भागवतचम्पूः

३१ विधुवंशम्

सम्बद्धाः लेखाः

[सम्पादयतु]

नलचम्पूः

त्रिविक्रमः भट्टः

नलः

दमयन्ती

सन्दर्भः

[सम्पादयतु]
  1. नलचम्पूः, चौखम्बा प्रकाशन भारती
  2. १।३१
  3. १/१४
  4. ७/२८
  5. ७/२७
  6. १-१४
  7. १/१६
  8. १।४३
  9. ७/४७
  10. २/३३
  11. १।४७
  12. १२॥३३
  13. १॥६७
  14. १०२
  15. ५४९
"https://sa.wikipedia.org/w/index.php?title=चम्पूकाव्यम्&oldid=479203" इत्यस्माद् प्रतिप्राप्तम्