कुडुबिजनाङ्गः
कुडुबिजनाङ्गः | |
---|---|
गोवाप्रदेशः |
कुडुबिजनाङ्गस्य स्थाननिर्देशः
[सम्पादयतु]गोवाप्रदेशे पोर्चुगीसानां शासनसमये ततः अनेके आदिवासिजनाङ्गाः आगत्य समीपस्थेषु उत्तरकन्नडमण्डलस्य अरण्यप्रदेशेषु वासम् आरब्धवन्तः । एवमेव दक्षिणकन्नडमण्डले उडुपीमण्डलस्य, कुन्दापुरप्रदेशेषु अपि वासम् आरब्धवन्तः। एतेषु गोवाकुडुबि, कोडियालकुडुबि, अरेकुडुबि, जोगिकुडुबि, नाडकुडुबि, काडकुडुबि, कुम्रिकुडुबि इत्यादि अन्तर्गणाः सन्ति । एतद् परिशीलयामः चेत् कञ्चित् अन्तर्गणं भिन्नभिन्नस्थानेषु, सन्दर्भेषु भिन्नाः इव अभिज्ञातं स्यात् इति भासते । वस्तुतः एतेषु अन्तर्गणाः न सन्ति । उत्तरकन्नडमण्डलस्य यल्लापुर, कारवार, अङ्कोल इत्येतेषाम् उपमण्डलानां सीमाप्रदेशस्य अळ्ळेमने, नीरक्लु, तिमानि, हरूरु, कळमेमने, बङ्कोळ्ळि, तारेमने, हेग्गारमने, नेक्केमने, मरळ्ळि इत्यादिस्थानेषु ‘अट्टेकुडुबि’ जनाः निवसन्ति । ‘अट्टे’ इत्युक्ते पलाय्य आगतवन्तः इत्यर्थः ।
वैशिष्ट्यानि
[सम्पादयतु]इण्डो-आर्यन् भाषावर्गस्य कोङ्कणिभाषा एतेषां मातृभाषा । मृगयया, आहारसङ्ग्रहणस्य आदिवासिजनाङ्गेषु कुडुबिजनाङ्गः अन्यतमः एषः इति मानवशास्त्रज्ञाः अभिज्ञातवन्तः सन्ति । गोवाकुडुबिजनानां विशेषः इत्युक्ते एते पालितपशोः मांसं न खादन्ति । एतेषु ३६बळि(वंशमूलानि) सन्ति । पितृप्रधानकुटुम्बव्यवस्था अस्ति । कस्यचित् कुटुम्बस्य रक्षणदायित्वं गोयेदैव, गडिदैव, पितृ-आत्मा इत्येताः तिस्रः शक्तयः निर्वहन्ति ।