जयदेवः (गीतगोविन्दरचयिता)
जयदेवः | |
---|---|
विष्णुं पूजयन् जयदेवः | |
जन्मतिथिः | est. 1200 क्रि पू |
जन्मस्थानम् | केन्दुबिल्वाख्य ग्रामे (गीतगोविन्दस्य उल्लेखानुसारे) |
मृत्युस्थानम् | ओडिसा, भारतम् |
तत्त्वचिन्तनम् | वैष्णवमतम् |
साहित्यिककृतयः | गीतगोविन्दम् |
संस्कृत-सङ्गीतयोरुभयोरप्ययं वेत्ता । अनेन रचितं गीतगोविन्दाख्यं काव्यं लोके प्रसिद्धम्।अद्यावधि वैष्णवमन्दिरेष्वेतस्य मधुरपदानि भक्तजनैः सादरं गीयन्ते । स्वयं जयदेवेन प्रतिपदं ताल-रागयोरुल्लेखः कृतः परं स्वरलिप्यभावादधुना तेषां जयदेवाभिप्रेतं चलनं न ज्ञायते । गीतगोविन्दे राधाकृष्णयोर्लीला वर्णिता:। राधाकृष्णयोर्लीला भारतीयमनस्सु माधुर्यभावं जनयन्त्येव । तत्रापि जयदेवस्य शब्दरचनेति दुग्धशर्करायोगोऽयं संजातः ! गीतगोविन्दस्यानुवादाः प्रायः सर्वासु भारतीयभाषासु जाताः । आङ्ग्ल-लेटिन-जर्मनभाषास्वपि तस्यानुवादा अभवन् ।
जयदेवस्य जन्म १२तमे शतके केन्दुबिल्वाख्ये ग्रामेऽभवत् । दुर्दैववशाद्बाल्ये एव तस्य मातापितरौ दिवङ्गतौ । जयदेवो जगन्नाथपुरीमागत्य न्यवसत् । कतिपयदिवसानन्तरं स तीर्थयात्रायै प्रस्थितः । ततोऽनन्तरं तस्य विवाहः सम्पन्नः । पत्न्या सह भ्रमन् स गीतगोविन्दं व्यरचयत् । इतोऽपि तस्य दुर्दैवं न समाप्तम् । यौवने एव तस्य भार्या मृता । अतीव खिन्नः स यशोदानन्दनस्य शिष्यत्वमङ्गीकृतवान् । मृत्योः पूर्वं स स्वग्रामं प्राप्तः । तत्रैव कतिपयदिवसानन्तरं तस्य देहान्तोऽभवत् । अस्मिन्ग्रामे तस्य समाधिस्थानं पूज्यते । तत्र प्रतिवर्षं मकरसङक्रान्तिदिने यात्रा भवति ।
परिचयः
[सम्पादयतु]संस्कृतसाहित्यशृङ्गारगेयकाव्यस्य रचयिता जयदेवः । नादभावयोः माधुर्यार्थं प्रसिद्धस्य जगद्विख्यातस्य गीतगोविन्दकाव्यस्य कर्ता अस्ति अयम् । अस्य माता रामादेवी, पिता च श्रीभोजदेवः । इमम् अंशं सः स्वस्य २४ तमे गीते प्रकाशयति -
- श्री भोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
- पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकविंत्वमस्तु ॥
जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः पद्मावतीचरणचारणचक्रवर्ती इति वाग्देवताचरितचित्रितचित्तसद्मा इति च गीतगोविन्दे कथयामास ।
जन्मस्थानम्
[सम्पादयतु]ओडिसाराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केन्दुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -
- वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
- किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥
तस्य जन्मस्थानस्य विषये भिन्नाभिप्रायाः विद्यन्ते । केचन कथयन्ति यत् सः पश्चिमवङ्गदेशीयः इति । अयं १२ शतके लक्ष्मणसेनस्य आस्थानकविः आसीत् । गोवर्धनः, शरणः, उमापतिः, कविराजधोयी च तस्य समकालीनाः । अयम् अंशः लक्ष्मणसेनमहाराजस्य सभामन्दिरस्य द्वारशिलापटे उल्लिखितश्लोकोऽयम् अत्र प्रमाणम् । यथा -
- गोवर्धनश्च शरणो जयदेव उमापतिः ।
- कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥
जीवनम्
[सम्पादयतु]बाल्यकालतः मथुरा-बृन्दावनादिषु पुण्यस्थलेषु अटतः तस्य मनसि राधामाधवयोः कथायाः महान् प्रभावः जातः । जगन्नाथपुर्यां तस्य जीवनस्य महत्त्वपूर्णप्रसङ्गः जातः । तस्मिन् स्थले स्थितस्य कस्यचित् ब्राह्मणस्य पुत्री पद्मावती जगन्नाथप्रभोः अनुग्रहात् प्राप्ता आसीत् । तस्य ब्राह्मणस्य स्वप्ने कदाचित् जगन्नाथेन सूचितं यत् पुत्री वृक्षस्य अधः सुप्तवते जयदेवाय दातव्या इति । नेच्छन् अपि सः ब्राह्मणः स्वपुत्रीं जयदेवाय अयच्छत् । गत्यन्तरेण विना जयदेवेन सा परिणीता । उभयोः गुणशीलेषु सामञ्जस्यम् आसीत् इत्यतः तयोः दाम्पत्यं सुखमयं जातम् ।
- वाग्देवताचरितचित्रितचित्तसद्मा
- पद्मावती चरणचारणचक्रवर्ती ।
- श्रीवासुदेवरतिकेलिकथासमेतं
- एतं करोति जयदेवकविः प्रबन्धम् ॥
यत्र तेन गीतगोविन्दकाव्यं रचितं सः ग्रामः जयदेवपुरमिति ख्यातं जातम् । तेन रचितम् इदं काव्यं लोकमान्यं जातम् । बहवः तदीयशिष्याः जाताः । सः क्रि श १२०० तमे वर्षे दिवङ्गतः इति श्रूयते । पुष्यशुक्लसप्तम्याम् अद्यत्वे अपि जयदेवस्य जयन्ती आचर्यते । राजा प्रतापरुद्रदेवः देवालयेषु गीतगोविन्दं गातव्यम् इति आदिष्टवान् ।
कवित्वम्
[सम्पादयतु]जयदेवः प्राचीनभारतीयकविषु अन्तिमः आधुनिककविषु आदिमः इति कथयितुं शक्यम् । संस्कृतकाव्यशैल्यां तेन बहवः नूतनाः आविष्काराः कृताः । भक्तिसाहित्यस्य उगमः अत्र दृश्यते । अयं कविः काव्यरचनायाः सर्वान् नियमान् न अपालयत् । अतः गीतगोविन्दकाव्यं शास्त्रीयकाव्यं न । अस्मिन् तेन नूतनशैली आधृता अस्ति या च तदीयकालानुगुणा अस्ति ।
गीतकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यात्मिकश्च । तत्स्मरणमेव शरणम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् । इदं काव्यम् आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलासः इति कथयन्ति विद्वज्जनाः । अयं चन्द्रालोकं, रतिमञ्जरीं, तत्त्वचिन्तामणिं, कारकवादञ्च ग्रन्थान् लिलेख इति केचन कथयन्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Sanskrit Scholars of Odisha (pdf)