सामग्री पर जाएँ

जयदेवः (गीतगोविन्दरचयिता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जयदेवः
विष्णुं पूजयन् जयदेवः
जन्मतिथिः est. 1200 क्रि पू
जन्मस्थानम् केन्दुबिल्वाख्य ग्रामे (गीतगोविन्दस्य उल्लेखानुसारे)
मृत्युस्थानम् ओडिसा, भारतम्
तत्त्वचिन्तनम् वैष्णवमतम्
साहित्यिककृतयः गीतगोविन्दम्

संस्कृत-सङ्गीतयोरुभयोरप्ययं वेत्ता । अनेन रचितं गीतगोविन्दाख्यं काव्यं लोके प्रसिद्धम्।अद्यावधि वैष्णवमन्दिरेष्वेतस्य मधुरपदानि भक्तजनैः सादरं गीयन्ते । स्वयं जयदेवेन प्रतिपदं ताल-रागयोरुल्लेखः कृतः परं स्वरलिप्यभावादधुना तेषां जयदेवाभिप्रेतं चलनं न ज्ञायते । गीतगोविन्दे राधाकृष्णयोर्लीला वर्णिता:। राधाकृष्णयोर्लीला भारतीयमनस्सु माधुर्यभावं जनयन्त्येव । तत्रापि जयदेवस्य शब्दरचनेति दुग्धशर्करायोगोऽयं संजातः ! गीतगोविन्दस्यानुवादाः प्रायः सर्वासु भारतीयभाषासु जाताः । आङ्ग्ल-लेटिन-जर्मनभाषास्वपि तस्यानुवादा अभवन् ।

जयदेवस्य जन्म १२तमे शतके केन्दुबिल्वाख्ये ग्रामेऽभवत् । दुर्दैववशाद्बाल्ये एव तस्य मातापितरौ दिवङ्गतौ । जयदेवो जगन्नाथपुरीमागत्य न्यवसत् । कतिपयदिवसानन्तरं स तीर्थयात्रायै प्रस्थितः । ततोऽनन्तरं तस्य विवाहः सम्पन्नः । पत्न्या सह भ्रमन् स गीतगोविन्दं व्यरचयत् । इतोऽपि तस्य दुर्दैवं न समाप्तम् । यौवने एव तस्य भार्या मृता । अतीव खिन्नः स यशोदानन्दनस्य शिष्यत्वमङ्गीकृतवान् । मृत्योः पूर्वं स स्वग्रामं प्राप्तः । तत्रैव कतिपयदिवसानन्तरं तस्य देहान्तोऽभवत् । अस्मिन्ग्रामे तस्य समाधिस्थानं पूज्यते । तत्र प्रतिवर्षं मकरसङक्रान्तिदिने यात्रा भवति ।

परिचयः

[सम्पादयतु]

संस्कृतसाहित्यशृङ्गारगेयकाव्यस्य रचयिता जयदेवः । नादभावयोः माधुर्यार्थं प्रसिद्धस्य जगद्विख्यातस्य गीतगोविन्दकाव्यस्य कर्ता अस्ति अयम् । अस्य माता रामादेवी, पिता च श्रीभोजदेवः । इमम् अंशं सः स्वस्य २४ तमे गीते प्रकाशयति -

श्री भोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकविंत्वमस्तु ॥

जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः पद्मावतीचरणचारणचक्रवर्ती इति वाग्देवताचरितचित्रितचित्तसद्मा इति च गीतगोविन्दे कथयामास ।

जन्मस्थानम्

[सम्पादयतु]
आडिसाराज्ये पुरीजिल्लायां प्रतापरुद्रपुराख्यग्रामस्य आखण्डलेश्वरमन्दिरे जयदेवस्य प्राचीनशिलाविग्रहः (१३श शताब्दी) । एषः विग्रहः केन्दुबिल्वस्य अनतिदूरे स्थितः ।

ओडिसाराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केन्दुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -

वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥

तस्य जन्मस्थानस्य विषये भिन्नाभिप्रायाः विद्यन्ते । केचन कथयन्ति यत् सः पश्चिमवङ्गदेशीयः इति । अयं १२ शतके लक्ष्मणसेनस्य आस्थानकविः आसीत् । गोवर्धनः, शरणः, उमापतिः, कविराजधोयी च तस्य समकालीनाः । अयम् अंशः लक्ष्मणसेनमहाराजस्य सभामन्दिरस्य द्वारशिलापटे उल्लिखितश्लोकोऽयम् अत्र प्रमाणम् । यथा -

गोवर्धनश्च शरणो जयदेव उमापतिः ।
कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥

जीवनम्

[सम्पादयतु]

बाल्यकालतः मथुरा-बृन्दावनादिषु पुण्यस्थलेषु अटतः तस्य मनसि राधामाधवयोः कथायाः महान् प्रभावः जातः । जगन्नाथपुर्यां तस्य जीवनस्य महत्त्वपूर्णप्रसङ्गः जातः । तस्मिन् स्थले स्थितस्य कस्यचित् ब्राह्मणस्य पुत्री पद्मावती जगन्नाथप्रभोः अनुग्रहात् प्राप्ता आसीत् । तस्य ब्राह्मणस्य स्वप्ने कदाचित् जगन्नाथेन सूचितं यत् पुत्री वृक्षस्य अधः सुप्तवते जयदेवाय दातव्या इति । नेच्छन् अपि सः ब्राह्मणः स्वपुत्रीं जयदेवाय अयच्छत् । गत्यन्तरेण विना जयदेवेन सा परिणीता । उभयोः गुणशीलेषु सामञ्जस्यम् आसीत् इत्यतः तयोः दाम्पत्यं सुखमयं जातम् ।

वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावती चरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेतं
एतं करोति जयदेवकविः प्रबन्धम् ॥

यत्र तेन गीतगोविन्दकाव्यं रचितं सः ग्रामः जयदेवपुरमिति ख्यातं जातम् । तेन रचितम् इदं काव्यं लोकमान्यं जातम् । बहवः तदीयशिष्याः जाताः । सः क्रि श १२०० तमे वर्षे दिवङ्गतः इति श्रूयते । पुष्यशुक्लसप्तम्याम् अद्यत्वे अपि जयदेवस्य जयन्ती आचर्यते । राजा प्रतापरुद्रदेवः देवालयेषु गीतगोविन्दं गातव्यम् इति आदिष्टवान् ।

कवित्वम्

[सम्पादयतु]

जयदेवः प्राचीनभारतीयकविषु अन्तिमः आधुनिककविषु आदिमः इति कथयितुं शक्यम् । संस्कृतकाव्यशैल्यां तेन बहवः नूतनाः आविष्काराः कृताः । भक्तिसाहित्यस्य उगमः अत्र दृश्यते । अयं कविः काव्यरचनायाः सर्वान् नियमान् न अपालयत् । अतः गीतगोविन्दकाव्यं शास्त्रीयकाव्यं न । अस्मिन् तेन नूतनशैली आधृता अस्ति या च तदीयकालानुगुणा अस्ति ।
गीतकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यात्मिकश्च । तत्स्मरणमेव शरणम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् । इदं काव्यम् आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलासः इति कथयन्ति विद्वज्जनाः । अयं चन्द्रालोकं, रतिमञ्जरीं, तत्त्वचिन्तामणिं, कारकवादञ्च ग्रन्थान् लिलेख इति केचन कथयन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]