शं.बा.जोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



शं.बा. जोशि (S B Joshi) १८९६ तमे वर्षे जनवरिमासस्य चतुर्थदिनाङ्के बेळगावीमण्डलस्य गुर्लहोसुरु ग्रामे जन्म प्राप्तवान् । तस्य पूर्णं नाम "शङ्कर बालदीक्षित जोशि”। बाल्ये एव तस्य मातापित्रोः वियोगः जातः । कन्नडसाहित्यलोके सः शम्बा इत्येव प्रसिद्धः अस्ति ।

व्यक्तित्वम्[सम्पादयतु]

आरम्भे शम्बाशिक्षकवृत्तिम् अवलम्ब्य जीवति स्म ।अनन्तरं शिक्षकवृत्तिं परित्यज्य वार्ताहरः जातः । कर्मवीर- जयकर्णाटकपत्रिकयोः सेवां कृत्वा अनुभवं प्राप्तवान् । शम्बा धारवाडनगरस्य साधनकेर्यां स्थिररूपेण वासं करोति स्म । तत्र तस्य साहित्याभिरुचिमतां मित्राणां सहवासः अभवत् । प्रारम्भे मराठी तथा कन्नडं केवलं पठितवान् आसीत् । अनन्तरं स्वपरिश्रमेण आङ्लं पठितवान् । फ्राय्ड् अपि च यूङ्गर इति मनोविज्ञानस्य विषये प्रश्नकरणस्य सामार्थ्यं प्राप्तवान् । एषः वैचारिकः बुद्धिजीवी च । भावनाशीलः शम्बा कार्यक्षेत्ररूपेण संशोधनक्षेत्रं चितवान् । शम्बाजोशेः मातृभाषा मराठी । अतः पुणेनगरस्य 'वसन्तव्याख्यानमालायां, लोकमान्यबालगङ्गधरतिलकस्य 'केसरि’पत्रिकायां च बहु प्रभवावितः जातः । शम्बा अद्वितीयभाषाशास्त्रज्ञः,दर्शनशास्त्रज्ञः,तत्त्वशास्त्रज्ञः विचारवादी च आसीत् । आरम्भे शम्बा भाषाशास्त्रं पठित्वा पाण्डित्यं सम्पादितवान् । कर्णाटकस्य तथा महाराष्ट्रस्य प्रदेशानां स्थलनाम्नः पृष्ठतः कन्नडमराठीभाषयोः अन्वयः यथा भवेत् तथा इतिहासं शोधितवान् । एवं शम्बामहोदयेन मराठीभाषया लिखित्वा कन्नडेन भाषान्तरिता "मराठि संस्कृतिः” नामिका क्रितिः अत्युत्कृष्टा इति प्रसिद्धा अभवत् । अस्माकं पौराणिक प्रतिमाभ्यः अद्यतनसामाजिकजीवनस्य सम्बन्धस्य विषये जोशीवर्येण कृतम् अध्ययनं बहु महत्वयुतं संस्कृतिककार्यम् इति वक्तुं शक्यते ।एतस्य संशोधनमार्गः अद्यतन- अध्ययनशीलयुवजनेभ्यः मर्गदर्शकः भवति । शम्बाजोशेः प्रथमा कृतिः 'अरविन्द चरिते’ (अरविन्दस्य चरितम् ) १९२० तमे वर्षे प्रकटितम् अभवत् ।

कृतयः[सम्पादयतु]

  • कंनुडिय जीवाल(१९४४)
  • कन्नड ओडपुगलु(१९५०)
  • पालु मत दर्शन(१९६०)
  • कर्णाटकसंस्कृतिय पूर्वपीठिके (१९७०)
  • ऋग्वेदसार
  • नागप्रतिमासार
  • वैवस्वतमनुप्रणीतमानवधर्मद आकृति
  • बुद्धन जातक(बुद्धस्य जातकम्)
  • मानव धर्मद आकिति (मानवधर्मस्य आकृतिः)(१९७९)
  • कण्मरेयाद कन्नड
  • हिन्दूधर्म
  • महाराष्ट्राचा मूल(महराष्ट्रस्य मूलम्)

एताः शम्बाजोशेः प्रमुखकृतयः। एतस्य कृतयः विचारसाहित्यस्य अनर्घ्य रत्नानि सन्ति। वैचारिकक्रान्तेः काहलं वादितवान् शम्बा जोशी ।

प्रशस्तयः[सम्पादयतु]

शम्बावर्यस्य 'कर्णाटकसंस्कृतिय पूर्वपीठिके’ नामकस्य ग्रन्थस्य कृते १९७१ तमवर्षस्य केन्द्रसाहित्य-अकाडेमीतः प्रशस्तिः प्राप्ता । १९७३ तमे वर्षे मैसूरुविश्वविद्यालयतः गौरवडाक्टरेट् प्रशस्तिं दत्त्वा सम्मनितवन्तः । कन्नडविचारसाहित्यं प्रसिद्धं कृतवते डाक्टर् शम्बाजोशिमहोदयस्य कृते राज्यसाहित्य-अकाडेमी प्रशस्तिः अपि प्रदत्ता अस्ति । कन्नडराज्योत्सवप्रशस्तिः एतस्य गौरवस्य सङ्केतः अस्ति । १९८१ तमे वर्षे नवेम्बर् मासे कोडगुमण्डलस्य मडिकेरी-उपमण्डले प्रचलितस्य ५४ तमस्य अखिलभारतकन्नडसाहित्यसम्मेलनस्य अध्यक्षपदवीम् अलङ्कृतवान् आसीत् । धारवाडनगरस्य साधनकेर्यां स्वगृहं निर्माय नवपञ्चाशत्वर्षीणि यावत् तस्मिन्नेव गृहे जीवनं यापयित्वा दिवङ्गतः । धीमान् पुरुषः शम्बा कन्नड जनानां कृते ध्रुवनक्षत्रम् इव अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=शं.बा.जोशी&oldid=406518" इत्यस्माद् प्रतिप्राप्तम्