चक्रासन्दक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चक्रासन्दक्रीडा(Wheelchair racing) विकलाङ्गक्रीडासु अन्यतमा । एषा क्रीडा विकलाङ्गानां सन्नद्धशरीरक्रीडासु अन्तर्भवति ।

एतादृशाः क्रीडाः विकलाङ्गजनान् प्रोत्साहयति । १९६० तमे वर्षे ग्रीष्मविकलाङ्ग ओलम्पिक्-क्रीडोत्सवे(Summer Paralympics) एषा क्रीडा मुख्यस्थानं प्राप्तम् ।

इतिहासः[सम्पादयतु]

विकलाङ्गानां प्रामुख्यता प्रायः जागतिकयुद्धानन्तरं जनैः अनुभूता । ततः पूर्ववर्ती काले विकलाङ्गाः समाजे भाराः इति गणना आसीत् । जागतिकयुद्धात् प्रत्यागताः विकलाङ्गानाम् अनन्तरवर्ती काले समाजे जीवितुं, उत्साहवर्धयितुं च नूतनकार्यक्रमानाम् आयोजनं कृतम् । १९४४ तमे वर्षे प्रथमवारं ब्रिटिश्-सर्वकारेण इङ्ग्लेण्डदेशे एल्स्बरी(Aylesbury) प्रदेशे स्टोक्-माण्डिवो चिकित्सालये(Stoke Mandeville) कशेरुकक्षतिः केन्द्रं(Spinal Injuries Centre) स्थापितम् । कशेरुकक्षतिः केन्द्रस्य सञ्चालकः सर्-लुड्विग्-गुथिमन् विकलाङ्गजनानां मानसिकस्थितिं दृढीकर्तुं चक्रासन्दक्रीडाम् आरब्धवान् । १९४८ तमे वर्षे प्रथमवारं सर्-लुड्विग्-गुथिमन्वर्यस्य मार्गनिर्देशने विकलाङ्गानां प्रथम-स्टोक्-माण्डिवो क्रीडा आरब्धा। एषाक्रीडा १९४० तमस्य वर्षस्य अन्तिमदिनेषु सम्पूर्ण युरोपखण्डे, अमेरिकासंयुक्तराज्ये च विस्तृता । १९५२ तमे वर्षे प्रथम अन्ताराष्ट्रिय क्रीडा सन्नद्धशरीरक्रीडार्थम् आरब्धा । एषा क्रीडा इङ्ग्लेण्डदेशे, नेदरलैंड्स्-देशे च अभवत् । अस्यां क्रीडायां १३० कशेरुकक्षतिः क्रीडालवः ६ क्रीडाविभागेषु भागगृहीतवन्तः । १९५६ तमे वर्षे सर्-लुड्विग्-गुथिमन्वर्यः विकलाङ्गजनानां प्रति कार्यक्रमः, स्टोक्-माण्डिवो क्रीडा च आयोजितवान् । अन्ताराष्ट्रिय-ओलम्पिक्-समितिना सर्-लुड्विग्-गुथिमन्-वर्येण विकलाङ्गजनानां प्रति कृतं परिश्रमम् अवलोकितम् । ओलम्पिक्-क्रीडार्थम् अत्युत्तमसेवां कृतवान् इति धिया सर्-थामस्-फर्न्-ली फलकद्वारा पुरस्कृतः । स्टोक्-माण्डिवो क्रीडायाम् प्रारम्भकाले केवलं चक्रासन्दक्रीडा आसीत् । गच्छताकाले टेबल्-टेनिस्-क्रीडा, लक्ष्यसाधनक्रीडा, लोहपिण्डप्रक्षेपणक्रीडा, भल्लप्रक्षेपणक्रीडा इत्याद्याः क्रीडाः योजिताः । १९६० तमे वर्षे चक्रासन्दबास्केट्-बाल्,फेन्सिङ्ग्, स्नूकर्, भारोत्तोलनम् इत्याद्याः क्रीडाः योजिताः । १९६० तमे वर्षे कशेरुकक्षतिः जनानां वैय्यक्तिकक्रीडार्थम् अन्ताराष्ट्रिय-स्टोक्-माण्डिवो चक्रासन्दक्रीडा संस्था प्रारब्धा । १९७६ तमे वर्षे ओलिम्पियाड्-क्रीडायां विकलाङ्गक्रीडालवानां प्रति अवकाशः दत्तः । टोराण्टो,केनडा प्रदेशे च अन्धानां, बधिरानां तथा अन्य विकलाङ्गक्रीडालवानां प्रति क्रीडायाः आयोजना कृता । १९६४ तमे वर्षे विकलाङ्गानां प्रोत्साहनार्थं पारिस् नगरे आधिकारिकतया अन्ताराष्ट्रिय-विकलाङ्ग-क्रीडा संस्था आरब्धा ।

स्पर्धाः[सम्पादयतु]

लघुधावनम् मध्यमधावनम् प्रलम्बधावनम् परम्परितधावनम्
१०० मी ८०० मी ५,००० मी ४*१०० मी
२०० मी १५०० मी १०,००० मी ४*४०० मी
४०० मी - - -

क्रीडालवानां वर्गीकरणम्[सम्पादयतु]

विकलाङ्गक्रीडायां वर्गीकरणं मुख्यतया त्रिधा कृता । १ कशेरुकक्षतिः क्रीडालवः २ जन्मजातदेहाङ्गस्य ऊनत्वक्रीडालवः अथवा कश्चनघटनानतरजात ऊनत्वक्रीडालवः ३ मस्तिष्कस्य ऊनत्वक्रीडालवः
एतेषां क्रीडालवानां वर्गीकरणम् इतोपि वर्तते ।

  • T५१-T५८ तथा च T३२-T३८ पर्यन्तं क्रीडालवानां विकलाङ्गत्वस्य परिमाणस्य आधारेण तेषां काचित् संख्या विभागः कृतः वर्तते । सः विभागः,
T५१/T५२ T५३ T५४ T५५-T५८
क्रीडालुः कटस्य उपरितनभागस्य चालनं निषिद्धम् क्रीडालुः कटकण्ठायोर्मध्यभागस्य चालनं निषिद्धम् क्रीडालुः कटेः उपरितनभागस्य चालने सक्षमः वर्तते क्रीडालुः पथक्रीडायां वर्तते
T३२-T३४ T३५-T३८
जन्मजातदेहाङ्गस्य ऊनत्वक्रीडालु अथवा कश्चनघटनानन्तरजात ऊनत्व क्रीडालवः पद्भ्यां स्थातुं योग्याः

नियमाः[सम्पादयतु]

  • पथक्रीडायां चक्रासन्दक्रीडार्थं खण्डशः निर्मिताः चक्रासन्दाः एव उपयोक्तव्याः ।
  • चक्रासन्दः भाररहितः स्यात् । वायुयुक्तचक्रस्य उपयोगः करणीयः । चक्रासन्दस्य गात्रं ऐ पि सी नियमानुसारं भवेत् ।

अन्ये नियमाः एवं वर्तन्ते,

नियमसंख्या नियमः
नियमसंख्या १५९ परिच्छेदः १ चक्रासन्दे बृहच्चक्रद्वयं, लघुचक्रम् एकं च भवेत्
नियमसंख्या १५९ परिच्छेदः २ लघुचक्रस्य पुरतः कोपि भागः भवेत्, बृहत्-चक्रयोः पार्श्वे न कोपि भागः भवेत् । चक्रासन्दस्य औनत्यं भूभागात् ५० से मी परिमितम् उन्नतं स्यात् ।
नियमसंख्या १५९ परिच्छेदः ३ पृष्ठे विद्यमानस्य वायुयुक्तचक्रयोः वर्तुलत्वं ७० से मी परिमितात् अधिकं न स्तः, पुरतः विद्यमानस्य वायुयुक्तचक्रस्य वर्तुलत्वं ५० से मी परिमितात् अधिकं न भवेत् ।
नियमसंख्या १५९ परिच्छेदः ४ पृष्ठे विद्यमानस्य एकैकस्य वायुयुक्तचक्रस्य हस्तः एकः, वर्तुलः, हस्तग्रहणिका सहितः स्यात् । एषः नियमः विकलाङ्गानां विकलाङ्गत्वं अनुसृत्य भवति ।
नियमसंख्या १५९ परिच्छेदः ५ यान्त्रिक-गेर्-भागस्य उपयोगः निशिद्धः ।
नियमसंख्या १५९ परिच्छेदः ६ हस्तसाहाय्येन एव चालनीयम्, यान्त्रिक-स्टेरिङ्ग्-भागस्य उपयोगः कर्तुं शक्यते ।
नियमसंख्या १५९ परिच्छेदः ७ ८०० मी अथवा अधिकासु क्रीडासु सन्नद्धक्रीडालुः पुरतः विद्यमानं चक्रं मनुष्यप्रयत्नेन वामतः, दक्षिणतः वा चालयितुं शक्यते ।
नियमसंख्या १५९ परिच्छेदः ८ चक्रासन्दक्रीडायां दर्पणस्य उपयोगः निषिद्धः ।
नियमसंख्या १५९ परिच्छेदः ९ पृष्ठभागस्य चक्रे नियमानुल्लङ्घ्य अन्यत् किमपि न भवेत् ।
नियमसंख्या १५९ परिच्छेदः १० उपर्युक्तानां नियमानां पालनस्य दायित्वं क्रीडालवानां भवति । तान् विहाय अन्यत् किमपि नूतनतया चक्रासन्दे समायोजनं न करणीयम् ।
नियमसंख्या १५९ परिच्छेदः ११ चक्रासन्दस्य मान्यता परीक्षणं मार्शल्लिङ्ग्-एरिया इति स्पर्धायाः स्थले क्रीयते । अस्मिन् स्थले परीक्षणपर्यन्तं भवितव्यम् ।
नियमसंख्या १५९ परिच्छेदः १२ हानिः विना क्षेमेण क्रीडायाः परिसमाप्तिः मुख्यः उद्देशः भवति ।
नियमसंख्या १५९ परिच्छेदः १३ क्रीडारम्भात् प्राक् क्रीडालोः कटेः अधो भागः क्रीडा समये कथञ्चित् वा यथा न पतेत् तथा अवलोकनीयम् ।

आधाराः[सम्पादयतु]

"Wheelchair Racing". Paralympics. Archived from the original on 2008-04-11. Retrieved 13 March 2008. Jump up to: a b Gavron, Susan J (2008-03-14). Disability Sport. Second Edition. Human Kinetics. pp. 38–41. ISBN 0-7360-4638-0. |accessdate= requires |url= (help) Jump up ^ "Classifications". Paralympics. Retrieved 13 March 2008. Jump up ^ "IPC Athletics Classification Handbook". Paralympics. Retrieved 13 March 2008. Jump up ^ Allen St. John (16 April 2010). "The Fastest Man at the Boston Marathon". Popular Mechanics. Retrieved 16 June 2010. Jump up ^ Jones, Jeffery A (2008-03-14). Disability Sport and Recreation Resources. Cooper Publishing. pp. 229–244. ISBN 1-884125-75-1. |accessdate= requires |url= (help) Jump up ^ "IPC Athletics Official Rules for Athletics 2006". Paralympics. Retrieved 13 March 2008.

1. Classification. http://www.paralympic.org/release/Summer_Sports/Athletics/About_the_sport/Classification/ Retrieved on 13 March 2008, 2008. Retrieved on 13 March 2008.

2. DePauw. K, & Gavron. S,. (2005). Disability Sport. pg 38-43, 135-141. 2nd Ed. Human Kinetics. ISBN 0-7360-4638-0

3. IPC Athletics Classification Handbook. http://ipc-athletics.paralympic.org/export/sites/ipc_sports_athletics/Classification/2010_07_16_IPC_Athletics_Classification_Handbook_2006.pdf Archived २०११-०१-२४ at the Wayback Machine Retrieved on 13 March 2008, 2008. Retrieved on 13 March 2008.

4. IPC Athletics Official Rules for Athletics 2006. http://www.paralympic.org/release/Summer_Sports/Athletics/About_the_sport/Rules/RULES_2006.pdf Retrieved on 14 March 2008, 2008. Retrieved on 14 March 2008.

5. Paciorek. M, & Jones. J,. (2001). Disability Sport and Recreation Resources. 3rd Ed. Cooper Publishing Group, LLC.

6. Wheelchair Racing. http://www.paralympicsontario.ca/Wheelchair%20Racing.pdf Archived २००८-०४-११ at the Wayback Machine Retrieved on 13 March 2008, 2008. Retrieved on 13 March 2008.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Beijing 2008 Paralympic Athletic Information with an Australian slant from accessibility.com.au - includes selection criteria for the 2008 Australian Paralympic athletics squad.

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चक्रासन्दक्रीडा&oldid=480281" इत्यस्माद् प्रतिप्राप्तम्