लोहपिण्डप्रक्षेपणक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


लोहपिण्डप्रक्षेपणकला (Shot-put)

प्रक्षेपकस्य योग्यता तत्साधनानि च[सम्पादयतु]

श्रम-साहसाभ्यां परिनिष्ठितः प्रक्षेपण-कलानुरागी स्वीये शरीरे मार्दवं शक्तिं यान्त्रिकीं स्फरत्तां भारोद्वहनक्षमत्वं भारवद्वस्तुभ्रामणकैशलं चार्जितः प्रक्षेपण- कलायां पटुर्मन्यते । वस्तुतो दूरक्षेपणे निरन्तराभ्यास आवश्यकः । शारीरिक श्क्तीनां समुचितं प्रयोगं कुर्वणः प्रक्षेप्ता लोहपिण्ड-प्रक्षेपणे प्रावीण्याय धावन-शारीरिकव्यायाम-कन्दुकक्रीडास्वपि रुचिं गतिं च धारयेत् । भरोदवहनेन, प्रलम्बलोहश्रृङ्खलावतो गोलकस्य भ्रामणेन बालुका-मृत्तिकादि-निर्मितगोलक- प्रक्षेपणेन सैकतिलेऽथ कर्दमाकुले स्थले पदपरिवर्तनेनाभ्यासशीलोऽस्यां कलायां निपुणो भवितुमर्हति ।

लोहपिण्डप्रक्षेपणविधिः[सम्पादयतु]

यद्यपि सर्वेपि जना एवमेव विचारयन्ति यद्-"गोलकस्य प्रक्षेपणाय साधारण्येन हस्ते लोहपिण्डं तस्य शक्त्यनुसारं दूरे प्रक्षेपणं यः कोऽपि जनः स्वेच्छया कर्तुं शक्नोति तत्र नास्त्यावश्य्कता कस्यापि विधि- विशेषस्य ।" तथापि तेषामियं विचारणा नास्ति समुचिता । यतो हि किमपि कार्यं नियमविरहितं कृतं चेत् तत् सभ्यसमाजे प्रशस्यं न भवति । किञ्च समवाये प्रतिस्पर्धार्थं समागता नानादेशीयाः क्रीडका उपस्थाय यदा विधिपूर्वकं क्रीडा-कौशलं दर्शयन्ति तदा विढि-ज्ञान-रहितो जनः कथमपि प्रक्षे पणादिकलाः प्रदर्शयन्नपि प्रशंसनीयो न भवति । अज्ञानादल्पज्ञानाच्च विहितं कर्म न भवति सुखायापि । अतो विधिज्ञानमत्रावश्यकं विद्यत इति धियाऽत्र कांश्चिन्नियमान विवृणुमः । अस्य लोहपिण्डप्रक्षेपणविधेः क्रमेण- (१) "लोह-पिण्ड-ग्रहणम् (२) गोलकस्य स्कन्धभागे धारणं (३) गोलक-प्रक्षेपण्स्य प्रथमा स्थितिः, (४) आंग्लवर्णमालायाः T टी-अक्षरनिर्माणं, (५) परिधौ स्थानपरिवर्तनं (६) लोहपिण्डस्य मोचनं (७) सन्तुलनप्राप्तिस्तथा (८) सिद्धान्तज्ञानं" चेत्यष्तौ विषयाः स्मर्तव्याः सन्ति । एतेषां क्रमिकः परिचय इत्थं विद्यते -

लोहपिण्डग्रहणम्[सम्पादयतु]

दक्षिणहस्त-हस्ततलाङ्गुलीमूलैः पिण्डं गृह्यते । अनेके प्रक्षेप्तारो-येषामङ्गुल्यः शक्तिमत्यो भवन्ति ते -गोलकमङ्गुलीनामुपर्यपिधारयन्ति । अङ्गुष्ठं कनिष्ठिकां च विसृज्यान्या अङ्गुल्यस्तदगोलकस्य पृष्ठेव्याप्ता भवन्ति । कनिष्ठिकाङ्गुष्ठयोः साहाय्येन लोहपिण्डं नियन्त्र्यते । ह्स्तेऽङ्गुष्ठवर्ति भागः शक्तिशाली भवत्यतो गोलकस्य भारोऽपि तस्मिन् भाग एव विशिष्य दीयते ।

प्रविधेरनुसारं लोहपिण्डमधिकाधिमङ्गुलीनां शिखरभागेषु स्थाप्यते यतः सम्पूर्णो ह्स्तस्तत्प्रक्षेपणकाले दोलायन्त्रस्य कार्यं करोति । दोलायन्त्रं यावत् प्रलम्बं भवति ताव्देव शक्तिशालि मन्यते परमयं विधिर्हस्तस्य निर्मितौ तथा ङ्गुलीनां शक्तावाश्रितोऽस्ति । यतो हि यथायथा लोहपिण्डमङ्गुलीनामग्रभागं प्रति नीयते, धारण्शक्तिर्न्यूना जायते किञ्च तत्प्रक्षेपण्समये तदुपरि नियन्त्रणं न तिष्ठति ।

गोलकस्य स्कन्धभागो धारणम्[सम्पादयतु]

प्रक्षेप्यं लोहपिण्डं दक्षिणकर्णस्याधः कण्ठस्यास्थि तथा चिबुकं स्पृशत् स्कन्धस्य रेखातोऽग्रे गृह्यते । अङ्गुष्ठस्तथा कनिष्ठिका पुरो भागे कूर्पर्-मणिबन्धौ च सर्वथा गोलकस्याधः शरीरेण ४५ अंशस्य कोणं विदधत्यो भवन्ति । तदानीं गोलकस्य सकलो भारो हस्तस्योपरि तिष्ठति ।

गोलकप्रक्षेपणस्य प्रथमा स्थितः[सम्पादयतु]

प्रक्षेप्ता परिधौ पॄष्ठभागे सानन्दं सन्तुलितायामवस्थायां प्रक्षेपणदिशि पृष्ठभागं विधाय तिष्ठति । तदा शरीरस्य पूर्णो भारः सव्यपादे भवति यो हि प्रक्षेपणदिशातः पूर्णतया १८० अंशस्य कोणं निर्माति । वामः पादस्तलेन भुवं स्पृशति तथा परिधेर्मध्यरेखातः ३०-४० अंशयोः कोणं विदधाति किञ्च स दक्षिणपादात् किञ्चित् पृष्ठे भवति । वामो हस्तः कूर्परत ऊर्ध्वं भागं प्रत्युत्तिष्ठति स्कन्धौ भूमेः समानान्तरं तथा ग्रीवायाः स्थितिः सामान्या भवति । दृष्टिः प्रायः ५-६ मीटरमितेऽग्रभागे दीयते । एतादृश्यां स्थितो गोलकप्रक्षेप्ता प्रशान्तभावेन गोलकप्रक्षेपणाय सज्जो भवति ।

आङ्ग्लवर्णमालायाः T टी-अक्षरनिर्माणम्[सम्पादयतु]

सामान्यस्थितावागमनात् परं प्रक्षेप्ता स्वशरीरं टी वर्णाकृतिकं विदधाति येन तस्य वामपादो निर्वलितस्तथा तत्तलस्य भाग आकाशं प्रति तिष्ठति । कबन्धादुत्तरो भागोग्रेऽवनतस्तथा सव्येतरो हस्तः पूर्णरुपेणाग्रे भवति । शरीरं भूमेः समानान्तरं कृत्वा गोलकस्य हस्तस्य च स्थितिः पूर्ववदेवारक्ष्यते । टी वर्णाकृति-स्थित्यनन्तरं वामपदो जानुतो वलितुं प्रवर्तते तथैव दक्षिणपादोऽपि वलति । दक्षिणे पादतले भाराधिक्यं शरीरं चाधिकाधिकमधोऽवनतं वक्षो दक्षजङ्घां जानु च स्पृशति । दक्षिणहस्तस्य च स्थितिः पूर्ववदेव भवति ।

परिधौ स्थान परिवर्तनम्[सम्पादयतु]

गोलकप्रक्षेप्ता साम्प्रतं प्रक्षेपणस्यान्तिमायां स्थितौ वर्तमानः स्वं शरीरं सर्वथा सङ्कुचति परिधेः पृष्ठभागे पूर्णशक्त्या गत्या च व्रजति । अस्यामवस्थायां (क) कबन्धतः शरीरस्थ भारस्य पृष्ठे नयनमसन्तुलनावस्थायाश्च निर्माणं ,(ख) वामपादस्य पृष्टभागं प्रति निम्नं तथा तीव्रमुच्छलनं (ग) दक्षपादस्य शक्तिमत्कर्षणं तथा पादतलस्य पार्ष्णि प्रति गच्छतः शरीरभारस्य पृष्ठे क्षेपणमिति त्रीणि कार्याणि युगपद भवन्ति । तदानीं शरीरस्य विभिन्नाङ्गनां स्थितयोऽपि ययायथं व्यवस्थाप्या भवन्ति ।

लोहपिण्डस्य मोचनम्[सम्पादयतु]

पृथिव्यां वामपादस्पर्शसमकालमेव गोलकमोचनकार्यं प्रारभते । सर्वप्रथमं दक्षपादस्तले भ्रामयित्वा सरलीक्रियते कबन्ध ऊर्ध्वमुत्यातुं प्रवर्तते कटिश्च् वामे वलितुं चेष्टते । दक्षो ह्स्तो लोहपिण्डं प्रक्षेप्तुमारभते । एतस्मिन् समये कूर्परो गोलकस्य पृष्ठे, शरीरभारो वामपादे च समागच्छतः । दक्षपादस्य जानु परलं, दक्षह्स्तः सरलो भवति मणिबन्धश्च पूर्णतयाऽग्रे वर्धमानो दृश्यते प्रान्ते लोहपिण्ङ्गुलिका हस्तसाह्ये न गोलकं मुञ्चन्ति ।

सन्तुलनप्राप्तिः[सम्पादयतु]

लोहपिण्डमुक्त्या शरीरमसन्तुलितं भवति परिधेर्बहिः प्रक्षेपको न पतेदेतदर्थं स दक्षपादमग्रे नयति वामं पादं च पृष्ठे करोति ।

सिद्धान्तज्ञानम्[सम्पादयतु]

गोलकप्रक्षेपणे मुख्यत्वेन द्वौ सिद्धान्तौ ज्ञातव्यौ स्तः । १ गोलकमोचनकालिकी गतिः २ समस्तानां कार्यशीलानां मांसपेशीनां शक्तेः समूहिकं तथा समुचितायां दिशि कार्यम् । अत्र प्रथमे सिद्धान्ते शरीरिकशक्तेस्तीव्रताऽधिकाधिकं दूरतायै समयाय च विद्यते । द्वितीये च शक्तीनामुचितदिशि गोलक प्रक्षेपणे सामूहिकः क्रमबद्धश्च योग आवश्यकः । प्रक्षेपकाले प्रारम्भिकी गतिशक्तिः समतलीया तथा मोचनवेलायां लम्बवदुच्छलनमधिकं भवतः । अनयोर्योगेन मुक्तं लोहपिण्डं समुचिते कोणे गच्छति विशिष्य दूरत्वं च वणुते । शारीरिकशक्तीनामुचितेन कमेण प्रभावशालिनि समये प्रयोगः, प्रक्षेप्तुर्गोलकक्षेपणं यावत् पॄथ्व्या सम्बन्धः प्रारम्भादन्तं यावत् सर्वथा सतर्कतादयो गुणा अस्मिन् प्रक्षेपणविधौ सहयोगिनो भवन्ति साफल्यं च वितरन्ति ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

सम्बद्धाः लेखाः[सम्पादयतु]