विकिपीडिया:स्वशिक्षा/विन्यासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

विकिपीडियायां लेखविन्यासस्य तन्त्रांशाः शब्दप्रसारकसाधनात् (Word processor) भिन्नाः भवन्ति । अत्र 'विज़ीविग्' (WYSIWYG – what you see is what you get) - क्रमस्य उपयोगः न भवति । विकिपीडियापृष्ठेषु अक्षराणां स्थूलत्वतिर्यक्त्वसम्पादनार्थं तथैव शीर्षकोपस्थापनार्थं च चिह्नानां वर्णानां वा उपयोगः क्रियते । एतादृशानां चिह्नानां भाषा "विकि मार्कप्" "विकीटेक्स्ट्" इति वा कथ्यते । सम्पादने सौकर्याय कल्पिता इयं ‘विकि-मार्कप्’ रीतिः ।

स्थूलं तिर्यक् च लेखनम्[सम्पादयतु]

लेखेषु अधिकाधिकोपयोगः स्थूलाक्षरस्य (bold) तथा तिर्यगक्षरस्य (italics) चिह्नस्य भवति । शब्दं वाक्यांशं वा स्थूल- तिर्यग्रूपं प्रापयितुं तस्य आदौ अन्ते च apostrophe- चिह्नस्य (‘) बहुवारम् उपयोगः क्रियते यथा -

यदि भवान् एवं लिखति तर्हि फलमिदं प्राप्नोति
''तिर्यक्'' तिर्यक्

'''स्थूलम्'''

स्थूलम्

'''''स्थूलं-तिर्यक्च'''''

स्थूलं-तिर्यक्च

विकिपीडियायाः इयं रीतिः अस्ति यत् लेखस्य प्रारम्भः पृष्ठस्य नाम्ना तथास्थूलाक्षरेण क्रियते । उदाहरणार्थं 'ब्राह्मीलिपिः' इति लेखस्य प्रारम्भः एवं भवति -

ब्राह्मीलिपिः(Brāhmī Script) भारतदेशस्य एका पुरातनी लिपि: अस्ति ...

तिर्यगक्षराणाम् उपयोगः प्रायः पुस्तक-चलच्चित्र-संङ्गणक-क्रीडादिविषयाणां शीर्षकेषु भवति । इदम्प्रथमतया उच्यमानः लेखस्य विषयः पुस्तक-चलच्चित्रशीर्षकं वा यदि भवति तदा स्थूल-तिर्यगक्षराणाम् उपयोगः । कारणं विना अक्षराणां स्थूलत्वं वा तिर्यक्त्वं वा न करणीयम् । यतो हि तत् वाचकानां लेखपठने क्लेशं जनयेत् ।

शीर्षकम् उपशीर्षकञ्च[सम्पादयतु]

यस्य कस्यापि लेखस्य संविधानं सुन्दरं तदा भवति यदा तस्मिन् शीर्षकोपशीर्षकाणि स्पष्टं लिखितानि स्युः । यत्र लेखे विषयस्य बहवः विभिन्नाः अंशाः उक्ताः भवन्ति तत्र विषये भिद्यमाने उपशीर्षकाणि अवश्यं दातव्यानि । तेन पठितॄणां रुचिः लेखस्य गुणवत्ता च वर्धेयाताम् ।

यदि भवान् एवं लिखति तर्हि फलमिदं प्राप्नोति

==शीर्षकम्==

शीर्षकम्[सम्पादयतु]

===प्रथम उपशीर्षकम्===

प्रथम उपशीर्षकम्[सम्पादयतु]

====महोपशीर्षकम्====


महोपशीर्षकम्
[सम्पादयतु]

शीर्षकोपशीर्षकाणाम् उपयोगे औचित्यं स्यात् । अनुचितानि शीर्षकाणि लेखस्य पठने क्लेशं जनयेयुः । यस्मिँल्लेखे न्यूनातिन्यूनं चत्वारि शीर्षकाणि सन्ति तस्मिन् स्वयमेव काचिद् अनुक्रमणिका सृज्यते । अस्य अभ्यासं प्रयोगपृष्ठे क्रियताम् ।

एच्.टि.एम्.एल्.[सम्पादयतु]

विकिपीडियायाः लेखस्य विन्यासनिर्धारणार्थं एच् टी एम् एल् ज्ञानस्य अपेक्षा नास्ति । 'विकि मार्कप्' इति तन्त्रांशस्य प्रयोगः एव अलं भवति । तथापि क्वचित् पृष्ठस्य विशेषविन्यासाय – उक्तविषयस्य परिच्छेदस्य च विन्यासे, पृष्ठस्य उद्दिष्टाकृतिसम्पादने, अक्षराणां वर्णसंयोजने च एच्.टि.एम्.एल् तन्त्रज्ञानं सहायकं भवति ।


शिक्षितं प्रयोगपृष्ठे प्रयुञ्जताम्
श्रुयताम्