सामग्री पर जाएँ

ब्राह्मीलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ब्राह्मीलिपिः(𑀩𑁆𑀭𑀸𑀳𑁆𑀫𑀻) भारतदेशस्य एका पुरातनी लिपि: अस्ति। इदं प्राचीन सरस्वतीलिपे: परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च लिपिनां माता अस्ति। सम्राट अशोक: एतत् लिपौ प्राकृतभाषाम् अलिखत्।

ब्राह्मीलिपिः
𑀩𑁆𑀭𑀸𑀳𑁆𑀫𑀻
ब्राह्मीलिप्यां शिलालेखः
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, तोचेरियन्, प्राकृतभाषा
स्थितिकालः प्रायः क्रैस्तपूर्वं ६००तः क्रैस्तवीय ५०० शतकम्
जननस्रोतः
प्रोटो-सिनेटिक् वर्णाः
  • ध्वन्यात्मकवर्णाः
    • अरमईक् लिपिः
      • ब्राह्मीलिपिः
        𑀩𑁆𑀭𑀸𑀳𑁆𑀫𑀻
जन्यलिपयः गुप्तलिपिः,पल्लवलिपिः, तथा वह्यः भारतीयलिपयः
समकालीनलिपिः खरोष्ठीलिपिः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची Unicode.org chart

प्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्दाभ्यां प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनानि शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च –

नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् ।
तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ - (नारदस्मृतिः ४-७०)

विवरणम्

[सम्पादयतु]
ब्राह्मी लिपि

उत्तरी ब्राह्मी

दक्षिणी ब्राह्मी

रेखात्मिका इयं लिपिः तदनन्तरकालीनलिपीनां उत्पादिका आसीत् । प्रायः लेखकानां, लेखनसामग्रीनां च विभिन्नतायाः हेतोः, ब्राह्मीलिपितः अनेकाः लिपयः सम्भूताः । एवं यदा विभिन्नाः लिपयः समभूवन् तदा क्रमेण ब्राह्मीलिपिः विस्मृता । क्रिस्तोः अनन्तरं चतुर्दशे शतमाने फिरोज् षा तुगलख्, विशिष्टम् अशोककालीनं शासनस्तम्भद्वयं देहलीनगरं प्रति आनयितवान् । भारतीयान् पण्डितान् अन्यांश्च विदुषः तच्छासनं पठितुमसूचयत् । किन्तु न कोऽप्यपारयत् ब्राह्मीलिप्या निबध्दं शासनं पठितुम् । तदनन्तरकाले क्रिस्तोः अनन्तरं षोडशे शतमाने तच्छासनं पाठितुम् अक्बरोऽपि प्रयत्नमकरोत् । किन्तु सोऽपि निष्फलो जातः । क्रिस्तोः अनन्तरं १७८४ तमे वर्षे सर् विलियं जोन्स् महाशयः भारतीयसंस्कृतेः अध्ययनार्थं रायल् एषियाटिक् सोसैटि इत्याखां संस्थां प्रतिष्ठाप्य संस्थाद्वारा भारतीयलिपीनां, शासनानां, नाणकानां विविधभारतीयग्रन्थानां च अध्ययने प्रावर्तत । एतत्कारणात् अनेके विद्वांसः भारतीयेतिहासाध्ययने आसक्ताः अभूवन् । जेम्स् प्रिन्सेप् इत्याख्यः प्रथमवारं क्रिस्तोः अनन्तरं १८३६ तमे वर्षे बहुशोधनं कृत्वा ब्राह्मीलिप्याः सर्वानपि वर्णान् अपठत् । तदनन्तरं भारतीयलिपिशास्त्राध्ययने बहवः विद्वांसः आसक्ताः शोधनम् आरेभिरे ।

भारतीयलिपीनां मूलस्रोतः

[सम्पादयतु]


अक्षराणां विन्यासादिकं सूक्ष्मतया अवलोक्य इदानीन्तनभारतीयलिपीनां मूलस्रोतः ब्राह्मीलिपिः एव इति विद्वांसः निश्चितवन्तः । दक्षिणभारते विद्यमानाः लिपयः कन्नड, तेलगु, नन्दिनागरी, मलयालम्, तिगळारी, ग्रन्थलिपिः सिंहली इत्याद्याः लिपयः गुप्तकालीनब्राह्मीलिप्या सम्बन्धं वहन्ति । उत्तरभारते उपलभ्यमानाः शारदा, नेवारी, भोटिलिपिः, टाकरी, मैथिली, देवनागरी इत्याद्याः अपि शुङ्गकालीनब्राह्म्या, कुशानकालीनब्राह्म्या सह सम्बन्धं वहन्ति । एतासु लिपिषु काश्चन इदानीमपि उपयुज्यन्ते, काश्चन लिपयः इदानीं नैव उपयुज्यन्ते । किन्तु एताः सर्वाः अपि पूर्वम् उपज्यन्ते स्म इति पाण्डुपत्राणां (Manuscript) अवलोकनेन ज्ञायते ।

एवं भारतस्य प्राचीनब्राह्मीलिपेः अर्वाचीनाः लिपयः उत्पन्नाः इति सुस्पष्टम् ।


व्यञ्जनवर्णाः

[सम्पादयतु]
ऐ एस् ओऐ पी एदेवनागरीबांग्लागुरुमुखीगुजरातीओडियातमिळ्तेलुगुकन्नडमलयसिंहल्तिब्बतीथाइबर्मीख्मेर्लाओ
kkက
kh 
gɡ  
ghɡʱ  
ŋ
cc
ch 
jɟ
jhɟʱ ​ඣ​  
ñɲဉ/ည
ʈ 
ṭhʈʰ  
ɖ  
ḍhɖʱ   
ɳ 
t
tht̺ʰ 
d 
dhd̺ʰ   
nn
n            
pp
ph 
bb 
bh  
mm
yj
rrর/ৰ
r         
ll
ɭ ਲ਼    
ɻ          
vʋ 
śɕਸ਼ 
ʂ  
ss 
hh

भगवानबुद्धस्य जन्मस्थाने प्राप्तः ब्राह्मी लिप्याम् अशोकशिलालेखः

स्वराः

[सम्पादयतु]
ऐ एस् ओऐ पी एदेवनागरीबांग्लागुरुमुखीगुजरातीओडियातमिळ्तेलुगुकन्नडमलयालम्सिंहलम्तीब्बतीबर्मी
aə        က
āɑːकाকাਕਾકાକାகாకాಕಾകാකා  အာကာ
æ                   කැ    
ǣ                   කෑ    
iiकिকিਕਿકિକିகிకిಕಿകിකිཨིཀིကိ
īकीকীਕੀકીକୀகீకీಕೀകീකී  ကီ
uuकुকুਕੁકુକୁகுకుಕುകുකුཨུཀུကု
ūकूকূਕੂકૂକୂகூకూಕೂകൂකූ  ကူ
eeकॆ        கெకెಕೆകെකෙ  ကေ
ēकेকেਕੇકેକେகேకేಕೇകേකේཨེཀེအေးကေး
aiaiकैকৈਕੈકૈକୈகைకైಕೈകൈකෛ    
ooकॊ        கொకొಕೊകൊකො  ကော
ōकोকোਕੋકોକୋகோకోಕೋകോකෝཨོཀོ  
auauकौকৌਕੌકૌକୌகௌకౌಕೌകൗකෞ  ကော်
कृকৃ  કૃକୃ  కృಕೃകൃකෘကၖ
r̩ːकॄকৄ  કૄ       කෲ  ကၗ
कॢকৢ       కౄ ക്ഌ(ඏ)   ကၘ
l̩ːकॣকৣ         ക്ൡ(ඐ)   ကၙ

संख्याः

[सम्पादयतु]
देवनागरी
रोमन् 0123456789
बाङ्गला
ओडिया
असमीय
गुजराती
गुरुमुखी
तीब्बतीय
ब्राह्मी
तेलुगु
कन्नड
मलयालम्
तमिळ्
बर्मी
ख्मेर्
थाई
लाओ
बाली

ब्राह्मीलिपेः यूनिकोड सङ्केतः

[सम्पादयतु]
ब्राह्मीलिपिः
Unicode.org chart (PDF)
 0123456789ABCDEF
U+1100x 𑀀 𑀁 𑀂 𑀃 𑀄 𑀅 𑀆 𑀇 𑀈 𑀉 𑀊 𑀋 𑀌 𑀍 𑀎 𑀏
U+1101x 𑀐 𑀑 𑀒 𑀓 𑀔 𑀕 𑀖 𑀗 𑀘 𑀙 𑀚 𑀛 𑀜 𑀝 𑀞 𑀟
U+1102x 𑀠 𑀡 𑀢 𑀣 𑀤 𑀥 𑀦 𑀧 𑀨 𑀩 𑀪 𑀫 𑀬 𑀭 𑀮 𑀯
U+1103x 𑀰 𑀱 𑀲 𑀳 𑀴 𑀵 𑀶 𑀷 𑀸 𑀹 𑀺 𑀻 𑀼 𑀽 𑀾 𑀿
U+1104x 𑁀 𑁁 𑁂 𑁃 𑁄 𑁅 𑁆 𑁇 𑁈 𑁉 𑁊 𑁋 𑁌 𑁍
U+1105x 𑁒 𑁓 𑁔 𑁕 𑁖 𑁗 𑁘 𑁙 𑁚 𑁛 𑁜 𑁝 𑁞 𑁟
U+1106x 𑁠 𑁡 𑁢 𑁣 𑁤 𑁥 𑁦 𑁧 𑁨 𑁩 𑁪 𑁫 𑁬 𑁭 𑁮 𑁯
U+1107x
टिप्पणी
1.^ 'यूनिकोड'संस्करण ६.१ अनुसारम्



बाह्यानुवन्धः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=ब्राह्मीलिपिः&oldid=497506" इत्यस्माद् प्रतिप्राप्तम्