सामग्री पर जाएँ

भारतीयलिपयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारतीय लिपयः
भगवानबुद्धस्य जन्मस्थाने प्राप्तः ब्राह्मी लिप्याम् अशोकशिलालेखः
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) शकः, संस्कृतम्, मध्य-भारतीय-आर्यभाषा, प्राकृतभाषा इत्याद्याः
स्थितिकालः प्रायः क्रैस्तपूर्वः ५००
जननस्रोतः
जन्यलिपयः ब्राह्मीलिपिः,खरोष्ठीलिपिः,गुप्तलिपिः एवं वह्व्य लिपियः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची U+11000–U+1107F

भारतीयलिपयः (Indic scripts) ध्वन्यात्मक(Abugida)लेखनपद्धतेः प्रकारभेदाः । वस्तुतः लिपेः उपोयोगः समग्रदक्षिण-एशियायाम् आसीत् । एताः प्राचीनभारतीयलिपयः बहुभाषावर्गैः व्यवहृताः आसन् । एताः लिपयः 'भारतीय-यूरोपीयभाषा', 'द्राविडभाषा', 'तिब्बतीय-बर्मीभाषा', 'मोङ्गोलीयभाषा', 'अस्ट्रेशियाभाषा', 'थाईभाषा' इत्येतेषु वर्गेषु प्रयुज्यमानाः आसन् ।

मुख्यप्रभेदाः

[सम्पादयतु]

वर्तमानकाले विद्यमानानां भारतीयलिपीनां मूलस्रोतांसि मुख्यतः त्रीणि भवन्ति । यथा-

सिन्धुलिपिः
सिन्धुलिपिः

सिन्धुसभ्यतायाः कालः मिश्रदेशस्य प्राचीनसभ्यतावत् अनिश्चितः अस्ति । मिश्रदेशस्य सुमेरप्रदेशस्य वा सभ्यतायाः कालनिर्णये तत्र प्राप्ताः लेखनसामग्र्याद्याः बहुसहायकाः अभवन् । इदनीमवधिः सिन्धुलिपेः आविष्कारः न अभूत् । प्रसिद्धायाः 'मेसोपटेमिया'सभ्यतायाः खननसमये तत्र सिन्धुप्रदेशस्य मुद्राः अलभन्त । अर्थ्यात् सिन्धुजनानां वाणिज्यं क्रैस्तपूर्वं २६००-२००० शताब्द्यां मेसोपटेमियापर्यन्तं विस्तृतमासीत् । तस्मात् बुधैः अनुमीयते यत् सिन्धुलिपेः कालः ३५००-३००० क्रैस्तपूर्वमस्ति ।

वैशिष्ट्यम्

[सम्पादयतु]

सिन्धुप्रदेशतः प्राप्तानां सङ्केतानां समूहं सिन्धुलिपिः इत्युच्यते । एषा लिपिः विविध नाम्ना अपि श्रुयते यथा- सरस्वतीलिपिः, हड़प्पालिपिः इत्यादि । सिन्धुप्रदेशतः प्राप्तवस्तुषु एकत्र २६ अधिकसांकेतिकाक्षराणि न लब्धानि । अस्याः लिपेः आविष्कारनिमित्तं बहुशोधकार्याणि अभवन् । परन्तु विद्वत्सु लिपेः आविष्करणविषये मतैक्यताऽभावः एव दृश्यते । १८७३ तमे वर्षे अलेक्जन्डर कानिंहाम् प्रथमवारं सिन्धुलिप्याम् उत्कलितमुद्रां प्रकाशितवान् । तदनन्तरं प्रायः ४००० सांकेतिकचिह्नसमन्वितानि वस्तूनि शोधखननात् प्राप्तानि । सिन्धुलिपेः लेखनगतिः वामतः, दक्षिणतः तथा उभयतः (boustrophedonic style) आसीत् । सिन्धुलिपेः प्रायः ४००-६०० मौलिकसाङ्केतिकचिह्नानि सन्ति (Wells 1999)। अनेके लिपिविशेषज्ञाः मन्यन्ते यत्- लिपेः स्वरूपम् संश्लेषात्मकभाषां सूचयति इति ।

लिपिप्रसङ्गः

[सम्पादयतु]

सिन्धुसभ्यतायाः उद्घाटनं क्रैस्तवीय १९२० अनन्तरवर्तीकाले अभूत् । परन्तु अस्या सभ्यतायाः रहस्यभेदनं पूर्वमपि(उनविंशशताब्द्याम्) सम्भवपरम् आसीत् । १८२० तमे संवत्सरे 'मेसो' महोदयः प्रथमवारं हड़प्पाप्रदेशस्थितानां स्तुपानां विषये उल्लिखितवान् ।


तारिम द्रोणी इत्यस्मिन् स्थाने प्राप्ता खरोष्ठीलिप्या लिखितमातृका (क्रैस्तवीय द्वितीयशतकम्)

खरोष्ठीलिपिः(Kharoshthi) भारतीयप्राचीनलिपिषु अन्यतमा । 'शाहबाजगढ़ी'प्रदेशे तथा 'मनसेहरा'प्रदेशे च प्राप्तेषु अशोकशिलालेखेषु खरोष्ठीलिपिना उत्कीर्णाः नीतयः सन्ति । अस्याः लिपेः प्रभावः उत्तरपश्चिमभारते सीमाबद्धः आसीत् । वस्तुतः ब्राह्मीलिपिरपेक्षया सङ्कुचितरूपत्वात् खरोष्ठीलिपितः प्रतिनिधिलिपेः उत्पत्तिः न जातः।

नामेतिहासः

[सम्पादयतु]

आविष्कारात् पूर्वं पाश्चात्यपण्डिताः(यूरोपीयाः) खरोष्ठीलिपेः 'बैक्ट्रियन्', 'इंडो-बैक्ट्रो-पालि', 'एरियनो-पालि' इत्यादीनि नामानि दत्तवन्तः । ललितविस्तारः इति लिपिविषयकमातृकायां(Manuscript) ६४ उल्लिखितासु लिपिषु खरोष्ठी लिपेः नाम अस्ति । अस्य खरोष्ठीपदस्य व्युत्पत्तिविषये मतान्तराणि सन्ति । तेषु मतेषु 'प्रजलुत्स्की' महोदयस्य मतमेव सर्वाधिकमान्यम् । तस्य मतानुसारं 'खरपोस्त'(ऊखरपोस्त ऊखरोष्ठ) इति शब्दात् खरोष्ठीपदमागतम् । 'पोस्त' ईरान्-देशीयपदं यस्यार्थः 'चर्म' । भारतस्य उत्तरपश्चिमदिशि एकनगरदेवतायाः नामोऽपि 'खरपोस्त' इति अस्ति । चीनः-देशीयपरम्परानुसारम् ऋषिः 'खरोष्ठः' अस्याः लिपेः आविष्कारं कृतवान् । ततः लिपेः 'खरोष्ठी' इति नामप्राप्तिः ।

उत्तरपूर्वप्रदेशतः प्राप्तनिदर्शनेभ्य बुधैः अनुमीयते यत् खरोष्ठीलिपेः कालः प्रायः क्रैस्तपूर्वं चतुर्थशतकमासीत् । क्रैस्तपूर्वं तृतीयशतकतः क्रैस्तवीय तृतीयशतकपर्यन्तम् अस्याः लिपेः प्रभावः उत्तरपश्चिमभारते अधिकः आसीत् । परन्तु 'कुषाण'शासनकालानन्तरम् एषा लिपिः भारतखण्डतः बहिः चीनः-तुर्किस्तानं प्रति स्थानान्तरिता आसीत् । तत्र एकशतकपर्यन्तं खरोष्ठीलिपिः जीवितासीत् । क्रैस्तवीय पञ्चमशतकपर्यन्तम् एषा लिपिः लुप्तासीत् ।

खरोष्ठीलिपेः निदर्शनानि

[सम्पादयतु]

खरोष्ठीलिपेः निदर्शनानि प्रस्तरशिल्पेषु, धातुनिर्मितभाण्ड-मूर्ति-पात्रेषु भूर्जपत्रादिषु उपलब्धानि । खरोष्ठीलिपेः प्राचीनतमलेखः तक्षशिलातः प्राप्तः । तथा प्राय समकालिकचत्वारः लेखाः पुष्कलावत्यामपि लब्धाः । परन्तु अस्याः लिपेः मुख्यक्षेत्रम् उत्तरपश्चिमभारतं तथा पूर्व-अफगानिस्थानमासीत् । मथुरातः अपि खरोष्ठीलिप्या उत्कीर्णः अभिलेखः प्राप्तः । दक्षिणभारतप्रदेशेष्वपि अस्याः लिपेः प्रभावः असीत् । मैसूरमण्डले स्थितात् सिद्दापुरतः प्राप्ताभिलेखः तदेव अनुमोदयति ।

खरोष्ठीलिपेः वैशिष्ट्यम्

[सम्पादयतु]

खरोष्ठीलिपेः मुख्यवैशिष्ट्यम् अत्र अक्षराणां दक्षिणतः गतिः । इतरवैशिष्ट्यानि यथाक्रमम्-

  • प्रत्येकव्यञ्जनेषु 'अ' कारस्य विद्यमानता ।
  • दीर्घस्वरस्य एवं स्वरमात्रायाः अभावः ।
  • अन्य स्वरमात्राणाम् ऋजुदण्डेन विभागीकरणम् ।
  • व्यञ्जनपूर्वपञ्चमवर्णानां सर्वत्र अनुस्वाररूपप्राप्तिः ।
  • संयुक्ताक्षराणां स्वल्पता इत्यादीनि खरोष्ठीलिपेः प्रमुखवैशिष्ट्यानि ।
खरोष्ठी संख्याः
۱۲۳ ۱ㄨ۲ㄨ۳ㄨ ㄨㄨ۱ㄨㄨ
 
Ȝ ੭ȜȜȜ ੭ȜȜȜȜȜ ੭ȜȜȜ 
१०२० ३०४० ५०६० ७० 
 
ʎ۱ʎ۲ 
१००२०० 

खरोष्ठीवर्णमाला

[सम्पादयतु]
ṭ́h

खरोष्ठीलिपेः यूनिकोड संकेतपुटम्

[सम्पादयतु]
खरोष्ठीलिपिः
Unicode.org chart (PDF)
 0123456789ABCDEF
U+10A0x 𐨀  𐨁  𐨂 𐨃  𐨅  𐨆  𐨌  𐨍  𐨎  𐨏
U+10A1x 𐨐 𐨑 𐨒 𐨓 𐨕 𐨖 𐨗 𐨙 𐨚 𐨛 𐨜 𐨝 𐨞 𐨟
U+10A2x 𐨠 𐨡 𐨢 𐨣 𐨤 𐨥 𐨦 𐨧 𐨨 𐨩 𐨪 𐨫 𐨬 𐨭 𐨮 𐨯
U+10A3x 𐨰 𐨱 𐨲 𐨳  𐨸  𐨹  𐨺 𐨿
U+10A4x 𐩀 𐩁 𐩂 𐩃 𐩄 𐩅 𐩆 𐩇
U+10A5x 𐩐 𐩑 𐩒 𐩓 𐩔 𐩕 𐩖 𐩗 𐩘
Notes
1.^ खरोष्ठीलिपेः यूनिकोड संस्करणम् ६.१
ब्राह्मीलिप्यां शिलालेखः
ब्राह्मीलिप्यां शिलालेखः

प्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्द्योः प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनाः शिलाभिलेखाः प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रद्धा । उक्तञ्च –

   नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् ।
   तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ - (नारदस्मृतिः ४-७०)

विवरणम्

[सम्पादयतु]

रेखात्मिका इयं लिपिः तदनन्तरकालीनलिपीनाम् उत्पादिका आसीत् । प्रायः लेखकानां, लेखनसामग्रीणां च विभिन्नतायाः हेतोः, ब्राह्मीलिपितः अनेकाः लिपयः सम्भूताः । एवं यदा विभिन्नाः लिपयः समभूवन् तदा क्रमेण ब्राह्मीलिपिः विस्मृता । क्रिस्तोः अनन्तरं चतुर्दशे शतके फिरोज् शाह् तुगलख्, विशिष्टम् अशोककालीनं शासनस्तम्भद्वयं देहलीनगरं प्रति आनायितवान् । भारतीयान् पण्डितान् अन्यांश्च विदुषः तम् शिलाभिलेखं पठितुमसूचयत् । किन्तु न कोऽप्यपारयत् ब्राह्मीलिप्या निबद्धं शासनं पठितुम् । तदनन्तरकाले क्रिस्तोः अनन्तरं षोडशे शतके तच्छासनं पाठितुम् अक्बरोऽपि प्रयत्नमकरोत् । किन्तु सोऽपि निष्फलो जातः ।

ब्राह्मी लिपि

उत्तरी ब्राह्मी

दक्षिणी ब्राह्मी

क्रिस्तोः अनन्तरं १७८४ तमे वर्षे सर् विलियं जोन्स् महाशयः भारतीयसंस्कृतेः अध्ययनार्थं रायल् एषियाटिक् सोसैटि इत्याखां संस्थां प्रतिष्ठाप्य संस्थाद्वारा भारतीयलिपीनां, शासनानां, नाणकानां विविधभारतीयग्रन्थानां च अध्ययने प्रावर्तत । एतत्कारणात् अनेके विद्वांसः भारतीयेतिहासाध्ययने आसक्ताः अभूवन् । जेम्स् प्रिन्सेप् इत्याख्या प्रथमवारं क्रिस्तोः अनन्तरं १८३६ तमे वर्षे बहुशोधनं कृत्वा ब्राह्मीलिप्याः सर्वानपि वर्णान् अपठत् । तदनन्तरं भारतीयलिपिशास्त्राध्ययने बहवः विद्वांसः आसक्ताः शोधनम् आरेभिरे ।

भारतीयलिपीनां मूलस्रोतः

[सम्पादयतु]

अक्षराणां विन्यासादिकं सूक्ष्मतया अवलोक्य इदानीन्तनभारतीयलिपीनां मूलस्रोतः ब्राह्मीलिपिः एव इति विद्वांसः निश्चितवन्तः । दक्षिणभारते विद्यमानाः लिपयः कन्नड, तेलगु, नन्दिनागरी, मलयालम्, तिगळारी, ग्रन्थलिपिः सिंहली इत्याद्याः लिपयः गुप्तकालीनब्राह्मीलिप्या सम्बन्धं वहन्ति । उत्तरभारते उपलभ्यमानाः शारदा, नेवारी, भोटिलिपिः, टाकरी, मैथिली, देवनागरी इत्याद्याः अपि शुङ्गकालीनब्राह्म्या, कुशानकालीनब्राह्म्या सह सम्बन्धं वहन्ति । एतासु लिपिषु काश्चन इदानीमपि उपयुज्यन्ते, काश्चन लिपयः इदानीं नैव उपयुज्यन्ते । किन्तु एताः सर्वाः अपि पूर्वम् उपज्यन्ते स्म इति पाण्डुपत्राणां (Manuscript) अवलोकनेन ज्ञायते ।

एवं भारतस्य प्राचीनब्राह्मीलिपेः अर्वाचीनाः लिपयः उत्पन्नाः इति सुस्पष्टम् ।


व्यञ्जनवर्णाः

[सम्पादयतु]
ऐ एस् ओऐ पी एदेवनागरीबांग्लागुरुमुखीगुजरातीओडियातमिळ्तेलुगुकन्नडमलयसिंहल्तिब्बतीथाइबर्मीख्मेर्लाओ
kkက
kh 
gɡ  
ghɡʱ  
ŋ
cc
ch 
jɟ
jhɟʱ ​ඣ​  
ñɲဉ/ည
ʈ 
ṭhʈʰ  
ɖ  
ḍhɖʱ   
ɳ 
t
tht̺ʰ 
d 
dhd̺ʰ   
nn
n            
pp
ph 
bb 
bh  
mm
yj
rrর/ৰ
r         
ll
ɭ ਲ਼    
ɻ          
vʋ 
śɕਸ਼ 
ʂ  
ss 
hh

सारनाथस्थितः अशोकशिलालेखः

स्वराः

[सम्पादयतु]
ऐ एस् ओऐ पी एदेवनागरीबांग्लागुरुमुखीगुजरातीओडियातमिळ्तेलुगुकन्नडमलयालम्सिंहलम्तीब्बतीबर्मी
aə        က
āɑːकाকাਕਾકાକାகாకాಕಾകാකා  အာကာ
æ                   කැ    
ǣ                   කෑ    
iiकिকিਕਿકિକିகிకిಕಿകിකිཨིཀིကိ
īकीকীਕੀકીକୀகீకీಕೀകീකී  ကီ
uuकुকুਕੁકુକୁகுకుಕುകുකුཨུཀུကု
ūकूকূਕੂકૂକୂகூకూಕೂകൂකූ  ကူ
ee        கெకెಕೆകെකෙ  ကေ
ēकेকেਕੇકેକେகேకేಕೇകേකේཨེཀེအေးကေး
aiaiकैকৈਕੈકૈକୈகைకైಕೈകൈකෛ    
oo        கொకొಕೊകൊකො  ကော
ōकोকোਕੋકોକୋகோకోಕೋകോකෝཨོཀོ  
auauकौকৌਕੌકૌକୌகௌకౌಕೌകൗකෞ  ကော်
कृকৃ  કૃକୃ  కృಕೃകൃකෘကၖ
r̩ːकॄকৄ  કૄ       කෲ  ကၗ
कॢকৢ       కౄ ക്ഌ(ඏ)   ကၘ
l̩ːकॣকৣ         ക്ൡ(ඐ)   ကၙ

संख्याः

[सम्पादयतु]
देवनागरी
रोमन् 0123456789
बाङ्गला
ओडिया
असमीय
गुजराती
गुरुमुखी
तीब्बतीय
ब्राह्मी
तेलुगु
कन्नड
मलयालम्
तमिळ्
बर्मी
ख्मेर्
थाई
लाओ
बाली

ब्राह्मीलिपेः यूनिकोड सङ्केतः

[सम्पादयतु]
ब्राह्मीलिपिः
Unicode.org chart (PDF)
 0123456789ABCDEF
U+1100x 𑀀 𑀁 𑀂 𑀃 𑀄 𑀅 𑀆 𑀇 𑀈 𑀉 𑀊 𑀋 𑀌 𑀍 𑀎 𑀏
U+1101x 𑀐 𑀑 𑀒 𑀓 𑀔 𑀕 𑀖 𑀗 𑀘 𑀙 𑀚 𑀛 𑀜 𑀝 𑀞 𑀟
U+1102x 𑀠 𑀡 𑀢 𑀣 𑀤 𑀥 𑀦 𑀧 𑀨 𑀩 𑀪 𑀫 𑀬 𑀭 𑀮 𑀯
U+1103x 𑀰 𑀱 𑀲 𑀳 𑀴 𑀵 𑀶 𑀷 𑀸 𑀹 𑀺 𑀻 𑀼 𑀽 𑀾 𑀿
U+1104x 𑁀 𑁁 𑁂 𑁃 𑁄 𑁅 𑁆 𑁇 𑁈 𑁉 𑁊 𑁋 𑁌 𑁍
U+1105x 𑁒 𑁓 𑁔 𑁕 𑁖 𑁗 𑁘 𑁙 𑁚 𑁛 𑁜 𑁝 𑁞 𑁟
U+1106x 𑁠 𑁡 𑁢 𑁣 𑁤 𑁥 𑁦 𑁧 𑁨 𑁩 𑁪 𑁫 𑁬 𑁭 𑁮 𑁯
U+1107x
टिप्पणी
1.^ 'यूनिकोड'संस्करण ६.१ अनुसारम्
"https://sa.wikipedia.org/w/index.php?title=भारतीयलिपयः&oldid=435488" इत्यस्माद् प्रतिप्राप्तम्