दीपकभाई महेता
दीपकभाई महेता | |
---|---|
कर्मयोगी शिक्षकः | |
जन्म |
३०/९/१९३६ मुम्बई-महानगरं, महाराष्ट्रम् |
मृत्युः |
२८/५/२००४ भावनगरं, गुजरातराज्यम् |
देशीयता | भारतीयः |
शिक्षणम् |
बी.ए.(आङ्ग्लसाहित्यम्), एम.ए. (आङ्ग्लसाहित्यम्), शिक्षाशास्त्री (आङ्ग्ल), शिक्षाचार्यः(आङ्ग्ल), एल. एल. बी., शिक्षाविशारदः ('मरीन सायंस') |
शिक्षणस्य स्थितिः | महाराजा कृष्णकुमार सिंहजी भावनगर विश्वविद्यालय |
वृत्तिः | शिक्षकः, लेखकः, कविः, वक्ता |
भार्या(ः) | हेमलता |
अपत्यानि | जयाबेन, कृष्णाबेन, हीनाबेन, प्रणवः |
विशेषम् | |
दीपकभाई महेता ( ( शृणु) /ˈdiːpəkəbhɑːiː məhɛtɑː/) (गुजराती: દીપકભાઈ મહેતા, हिन्दी: Deepakbhai Mehta) प्रसिद्धः शिक्षणविद्, प्रकृतिविद्, लेखकः, कविः, वक्ता चासीत् । शिक्षकत्वेन स्वस्य कार्यकालस्य बहुदीर्घकालः (१९७३-१९८९) तेन श्रीदक्षिणामूर्ति-संस्थायां यापितः । बालशिक्षणविदः गिजुभाई बधेका इत्यस्य विचारैः प्रभावितः दीपकः बाल्यशिक्षणस्य विषये गूढचिन्तनं करोति स्म । परन्तु सः केवलं गिजुभाई इत्यस्यैव अनुसरणम् अकरोत् इति दोषपूर्णमेव । कारणं गिजुभाई इत्यनेन तु बाल्यशिक्षणस्य गूढतया अध्ययनं कृतमासीत् । परन्तु दीपकेन बाल्यावस्थायाः चिन्तनेन सह कुमारावस्थायाः शिक्षणरीत्याः अपि प्रयोगात्मकम् अध्ययनं कृतम् । बाल्यशिक्षणं समाप्य यदा बालकः कुमारावस्थां प्रविशति, तदा तस्मिन् यानि परिवर्तनानि भवन्ति, तेषां परिवर्तनानाम् अनुगुणं शिक्षणस्य रीतिः अपि आवश्यकी इति विचिन्त्य तेन किशोरशिक्षणस्योपरि ध्यानं केन्द्रितम् । किशोरावस्थां प्रविश्य बालकः साक्षात् युवावस्थां प्रति धावति । तत्र शारीरिकपरिवर्तनेन सह मानसिकपरिवर्तनमपि अत्यावश्यकम् । युवा यदि आत्मनियन्त्रितः नास्ति, तर्हि तस्य शक्तेः अपव्ययः, दुरुपयोगश्च निश्चितः । अतः तस्य चिन्तनमासीत् यत्, "किशोरावस्थायामेव बालकेषु आत्मनियन्त्रणशक्तिं विकासयितुं प्रयासः करणीयः" इति । "किशोरावस्था तु बहुमुखिप्रतिभायाः विकासस्य अवसरस्य कालः" इति विचारस्यापि सः समर्थकः आसीत् । किशोरावस्थायामेव बालकः स्वस्मिन् विद्यमानप्रतिभायाः विकासार्थं प्रयासं प्रारभते चेत्, जीवनस्य बहव्यः समस्याः अपाभवन्ति इत्यपि सः मन्यते स्म ।
जन्म, परिवारश्च
[सम्पादयतु]१९३६ तमस्य वर्षस्य 'सितम्बर'-मासस्य त्रिंशत्-तमे (३०/९/१९३६) दिनाङ्के महाराष्ट्रराज्यस्य मुम्बई-महानगरे दीपकस्य जन्म अभवत् । तस्य बाल्यजीवनं गुजरातराज्यस्य तळाजा-ग्रामे व्यतीतम् । तस्य पत्न्याः नाम हेमलता आसीत् । तयोः चत्वारः शिशवः आसन् । तेषु एकः बालकः, तिस्रः बालिकाश्च । बालिकानां नाम क्रमेण जयाबेन, कृष्णाबेन, हीनाबेन च आसीत् । पुत्रस्य नाम प्रणवः आसीत् ।
शिक्षणम्
[सम्पादयतु]दीपकस्य प्राथमिकशिक्षणं गुजरातराज्यस्य भावनगरमण्डलस्य तळाजा-ग्रामे प्रारब्धम् । ततः माध्यमिकशिक्षणं प्राप्तुं सः महुवा-नगरम् अगच्छत् । तत्र 'एम.एन. हाईस्कूल' मध्ये तेन माध्यमिकशिक्षणं प्राप्तम् । ततः अग्रे अभ्यासार्थं सः भावनगरम् अगच्छत् । भावनगरस्य भावनगरविश्वविद्यालये आङ्ग्ल-साहित्यविषयं स्वीकृत्य अध्ययनं प्रारभत । पञ्चवर्षं यावत् कठोरपरिश्रमेण 'बी.ए., एम.ए.' इत्यनयोः अभ्यासं समापितवान् सः । ज्ञानपिपासुः दीपकः भावनगरविश्वविद्यालये स्थित्वैव शिक्षाशास्त्रिणः (B.Ed), शिक्षाचार्यस्य (M.Ed) च पदवीं प्राप्तत् । ततः सः 'एल.एल.बी' पदवीम् अपि प्रापत् । शिक्षणविषये स्वस्य रुचित्वात् तेन शिक्षाशास्त्रि-शिक्षाचार्यपदव्यौ प्राप्ते । परन्तु तस्य प्रकृति-विषये अपि बहुरुचिः आसीत् । अतः स्वस्य जीवनस्य उत्तरार्धे (६६ वयसि) तेन 'मरीन सायंस' इत्यस्मिन् विषये शिक्षाविशारदस्य (PhD) पदवी प्राप्ता ।
शिक्षणक्षेत्रे योगदानम्
[सम्पादयतु]दीपकेन प्राथमिकशिक्षकत्वेन स्वस्य योगदानं भावनगरस्य शिशुविहारसंस्थायै, 'घरशाळा' इत्याख्यै संस्थायै च प्रदत्तम् । ततः १९७३ तमे वर्षे दक्षिणामूर्तिसंस्थाद्वारा सञ्चालिते 'प्रि.पी.टी.सी.'-महाविद्यालये आचार्यत्वेन तस्य नियुक्तिः अभवत् । १९९६ तमे वर्षे दक्षिणामूर्तिसंस्थाद्वारा सञ्चालिते दक्षिणामूर्तिविनयमन्दिरम् इत्यस्मिन् विद्यालये आचार्यत्वेन तस्य नियुक्तिः अभवत् । १९८९ तमे वर्षे तेन आचार्यपदस्य त्यागपत्रं दत्त्वा स्वस्य जीवनस्य लक्ष्यं परिवर्तितम् । ततः सः स्वस्य प्रतिभानुसारं विभिन्नेभ्यः क्षेत्रेभ्यः स्वयोगदानम् अददत् । सः गुजरातपाठ्यपुस्तकमण्डलस्य कृते गुजराती-गणित-पर्यावरणविषयाणां पुस्तकानि अलिखत् । पीरमद्वीपस्य पर्यावरणसंरक्षणार्थं तेन दीर्घकालं यावत् कार्यं कृतम् । तेन जलसङ्ग्रहादिविषये अनेकानि शिबिराणि आयोजितानि अपि । जलचरकच्छपस्य संरक्षणार्थं तेन केन्द्राणि स्थापितानि । तस्य अविरतप्रयासेन जलचरकच्छपस्य 'ओलिव रिडली'-प्रजातेः, हरितजलचरकच्छपजातेः च संरक्षणम् अभूत् ।
लेखनकार्यम्
[सम्पादयतु]सः शिक्षकः आसीत् । परन्तु तस्य रुचिः लेखनकार्ये अपि अधिका आसीत् । अतः तेन पुस्तकानि अपि लिखितानि । यथा –
१. धरतीने छेडे दीवादाण्डी – १९७६ – जुलेस वेर्न इत्यस्य पुस्तकस्य अनुवादं कृतम् ।
२. शिक्षण – भितरनो खजानो – 'युनेस्को' इत्यस्य 'वर्ल्ड एज्युकेशन रिपोर्ट' इत्यस्य भावनगरविश्वविद्यालयाय अनुवादं कृतम् ।
३. रोज सवारे – स्वनिर्मितः काव्यसङ्ग्रहः
४. पीरम बेट एक झलक – १९९४
मृत्युः
[सम्पादयतु]भावनगरस्य 'कृष्णकुमारसिंहजी एवन्यु' इत्यस्य गीताचोक-नामके स्थाने 'अहिच्छत्र'-संस्कारकेन्द्रे सः उपस्थितः आसीत् । २००४ तमस्य वर्षस्य ‘मई’-मासस्य अष्टाविंशतितमे (२८/५/२००४) दिनाङ्के तत्र आजीविकामार्गदर्शनशिबिरस्य आयोजनम् आसीत् । तस्मिन् शिबिरे दीपकः भाषणे रतः आसीत् । भाषणे रतः सः सहसा भूमौ पतितः । ततः तं रुग्णालयं प्रति सर्वे अनयन् । परन्तु तस्य प्राणस्य रक्षणं नाभूत् । एवं हृदयाघातेन तस्य मृत्युः अभवत् । जीवनस्य अन्तिमे श्वासे अपि सः अन्यस्य मार्गदर्शनं कुर्वन् आसीत् । कर्मयोगी दीपकः सर्वदा व्यक्तित्वनिर्माणकार्ये व्यस्तः भवति स्म । तदेव तस्य सुखस्रोतः आसीत् । स्वस्य जीवनं प्रति तस्य कथनमासीत् –
"दीपकना जीवननी मेळवणी – कविता, कुदरत, केळवणी (દીપકના જીવનની મેળવણી – કવિતા, કુદરત, કેળવણી.)" ।
अस्यार्थः दीपकस्य जीवनस्य सारः – कविता, प्रकृतिः, शिक्षणम् इति ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यानुबन्धाः
[सम्पादयतु]- शिक्षकस्य श्रद्धाञ्जली Archived २०१३-०७-१८ at the Wayback Machine