सदस्यः:Chethana H.S./प्रयोगपृष्ठम्
अर्थसमुद्देशः
[सम्पादयतु]अर्थानुबन्धः
[सम्पादयतु]अर्थम् अनुबध्नाति इति अर्थानुबन्धः। अर्थसम्बन्धी विषयः इत्यर्थः। अर्थसम्बन्धिनः विषयाश्चत्वारः- अलब्धस्य अर्थस्य लाभः, लब्धस्य परिरक्षणम्, रक्षितस्य विवर्धनम्, वृद्धस्य तीर्थेषु पतिपादनं चेति। एतेषां चतुर्णाम् अनुक्रमः एव अर्थानुबन्धशब्देन व्यवह्रियते। यः अर्थानुबन्धेन अर्थम् अनुभवति स एव अर्थस्य भाजनं भवति। तत्र धर्मसम्बन्धिनः पुरुषाः पुरोहितादयः कर्मसम्बन्धिनश्च पुरुषाः मन्त्र्यादयः तीर्थशब्देन उच्यते। अर्थस्य तीर्थेषु विनियोगनन्तरमेव स्वप्रयोजनमिति ज्ञातव्यम्। अतिव्ययः अपात्रव्ययश्चार्थस्य सर्वथा परिहर्तव्यौ।
- अर्थम् आर्जयेत्। यस्यार्थराशिरस्ति तस्य मित्राणि धर्मः विद्या गुणाः विक्रमः बुद्धिश्च। अधनेनार्थमार्जयितुं न शक्यते, गजोऽगजेनेव। धनमूलं जगत्, सर्वाणि तत्र सन्ति। निर्धनो म्रुतः (इव)।
- - बार्हस्पत्यानि नीतिसूत्राणि
- अर्थसम्पत् प्रकृतिसम्पदं करोति। वृत्तिमूलमर्थलाभः। अर्थमूलौ धर्मकामौ। सुखस्य मूलं धर्मः। धर्मस्य मूलमर्थः। अर्थस्य मूलं राज्यम्। अर्थमूलं सर्वं कार्यं, यदल्पप्रयत्नात् कार्यसिद्धिर्भवति। अर्थेषणा न व्यसनेषु गण्यते। अर्थतोषिणं हि राजानं श्रीः परित्यजति। भाग्यवन्तम् अप्यपरीक्ष्यकारिणं श्रीः परित्यजति।
- - चाणक्य-नीतिसूत्राणि
अर्थगुणाः
[सम्पादयतु]प्राचीनाः अर्थशास्त्रकाराः अर्थगुणान् बहुधा प्रशंसन्ति ।सर्वे गुणा कञ्चनमाश्रयन्ते इति लोकोक्तिः।धनमूलं जगत्,सर्वाणि तत्र सन्ति ।धर्मकामौ चार्थम् अवलम्बेते।सुकस्य मूलं धर्मः। धर्मस्य मूलं अर्थः। अथेनैव सिध्यन्ति सर्वे कामः ।'प्राणयात्राणि लोकस्य विना हि अर्थं न सिध्यति' इति महभरतोक्तिः ।यः अर्थवान् स लोके बहुमतः ।लोके सर्वेप्रयोजनसिद्धिः अर्थदेव भवति ।यस्यार्थः तस्य मित्राणि विध्यां विक्रमः बुद्धिश्च भवन्ति ।अर्थेनैव अर्थार्जनं भवति ।गजं प्रयुज्यैव गजं वशिकुर्वन्ति ।एकमेव अर्थप्रयोगेनैव अर्थस्य आर्जनं भवति ।
- अर्थेभ्यो हि विव्रध्देभ्यः संभृतेभ्यस्ततस्ततः।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्यः इवापगाः॥ अर्थाध्दर्मश्च कामश्च स्वर्गश्चैव नराधिप । प्रणयत्राणि लोकस्य विना ह्यर्थं न सिध्यति ॥ :- महाभारत - शान्तिपर्व
- यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः ।
स वै राजन् कृशौ नाम न शरीरकृशः कृशः ॥ :- महाभारत -शान्तिपर्व
अर्थदोषाः
[सम्पादयतु]अतिव्ययः अपत्रव्ययश्च अर्थस्य दूषणम्। एतादृशेन अर्थदूषणेन कुबेरोऽपि भवति दरिद्रः। तीर्थानां अर्थेन असंभावनमपि अर्थदूषणं भवति। अनेन राजा सर्वात्मना विनश्यति। तादात्विकमूलहर कदनेषु अर्थदोषाः अनिवार्याः। यः न किमपि सञ्चिनोति परं सर्वं प्राप्तम् अपव्ययति सः तादात्विकः । पितृपैतमहम् अर्थं यः अन्यायेन भक्षयति सः मूलहरः। यः भृत्यान् आत्मानं च पीडयित्वा सञ्चिनोति सः कदर्यः।
तादात्विकः- मूलहरयोः आयत्यां नास्ति कल्याणम्। कदर्यस्यार्थसञ्चयस्तु यस्य कस्यापि निधिर्भवति। लञ्चोऽपि अर्थस्य दूषणं भवति।
लञ्चो हि सर्वपातकानाम् आगमनद्वारम्।
अन्ये पृष्ठानि
[सम्पादयतु]आधारः
[सम्पादयतु]१॰ प्राचीनवाणिज्यम् - एम्॰शिवकुमारस्वामि