अर्थशास्त्रम् (ग्रन्थः)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

अर्थशास्त्रम् (Arthashastra) इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।

कौटल्यस्य परिचयः[सम्पादयतु]

अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः । केचन अस्य नाम "कौटिल्य" इति वदन्ति । तन्न साधु । यतः अस्य नाम कुटिलार्थकं न भवितुमर्हति । कामन्दकनीतिसारस्य "जयमङ्गलायां व्याख्यायाम् उक्तम् यत् -कौटल्य इति गोत्रनिबन्धना विष्णुगुप्तस्य संज्ञा इति । एतेन कुटलगोत्रापत्यं पुमान् "कौटल्यः" इति निरुच्यते । तथा च केशवस्वामिनः नानार्थार्णवसंक्षेपग्रन्थे "अथ स्यात् कुटलो गोत्रकृत्त्रषौ पुंसि नप् पुनः । विद्यादाभरणेऽथत्रिः कुटिलं कुञ्चिते भवेत् ॥" इत्युक्तम् । तस्मात् कौटल्यः इत्ये समीचीनम् नाम । अयं मगधेषु जातः । क्रिस्तात् पूर्वं द्वितीये तृतीये वा शतमाने कौटल्यः अर्थशास्त्रं चकारेति चरित्रकाराः वदन्ति। चणकनाम्नः ब्राह्मणस्य पुत्रः तस्मात् चाणक्यः इति अस्य नामान्तरम् । चाणक्यस्य प्रथमं नाम विष्णुगुप्त आसीदिति इतिहासात् ज्ञायते । यो हि पुरा मगधेषु नन्दान् निर्मूल्य चन्द्रगुप्तमौर्यं राजानं चकारेति श्रूयते । आचार्यविष्णुगुप्तस्य चरित्रम् विष्णुपुराणेऽपि लभ्यते । विशाखदत्तस्य मुद्राराक्षसनाटकेऽपि विशदतया वर्णितम् । क्षेमेन्द्रः ’बृहत्कथामञ्जर्यां’ सोमदेवः ’कथासरित्सागर’ विष्णुशर्मा ’पञ्चतन्त्रे’ दण्डी ’दशकुमारचरित” च कौटल्यस्य इतिवृत्तं प्रस्तुवन्ति । अपि च ग्रीक देशस्य सम्राजः ’सेल्यूकस्’ नाम्नः रायभारी "मेगास्तनीसः" लिखितरूपेण कौटल्यम् विवृणोति । एतान् सर्वानुल्लेखान् अवलोक्य सिद्ध्यति यत् -" महाचतुरः, धीमान्, मौर्यसाम्राज्यस्थापनाचार्यः , कौटल्यः स्वयमेव ग्रन्थमेनम् अलिखदित्येतस्य महत्ता स्फुटा भवति

ग्रन्थपरिचयः[सम्पादयतु]

एष स्वग्रन्थारम्भे पूर्वाचार्यप्रणीतान् सर्वान् ग्रन्थानवेक्ष्य तेषामभिप्रायान् एकत्र सङ्गृह्य एतच्छास्त्रं कृतमिति प्रतिजानीते । ॐ नमः शुक्रबृहस्पतिभ्याम् इति अर्थशास्त्रस्य मूलपुरुषौ शुक्राचार्यं बृहस्पत्याचार्यं च ग्रन्थारम्भे स्मरति । एतस्मिन् अर्थशास्त्रे अशीत्युत्तरशतं (१८०) प्रकरणानि, पञ्चदश (१५) अधिकरणानि च वर्तन्ते । एतानि तन्त्रम्, आवापः, शेष इति त्रिषु भागेषु विभक्तानि । आदौ पञ्चाधिकरणेषु स्वदेशहितचिन्तनं प्रतिपाद्यते ।

कौटल्यः अस्मिन् ग्रन्थे ’आन्वीक्षिकी=तर्कशास्त्रम्, त्रयी, वार्ता, दण्डनीतिरिति चतस्रः विद्याः इति प्रत्यपादयत् । राज्ञः इन्द्रियजय एव प्रधानः जयः, इति अभिधाय कामक्रोधाद्यरिषड्वर्गवशान् पूर्वभूपान् विनष्टान् उदाहृत्य जितेन्द्रियान् यशस्विनः राज्ञः प्राशंसत् ।

अत्र द्वितीयाधिकरणे अध्यक्षचर्या निरूपितास्ति । एतदधिकरणम् अस्य ग्रन्थस्य सारसङ्ग्रह इवास्तीति विद्वांसः अभिप्रयन्ति ।

अस्मिन् ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः निर्मान्ति स्म, अपि च अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति । शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्रप्रयोगाः वर्णिताः सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च एवम् ब्रवीति । यथा-

द्ष्ट्वा विप्रतिपत्तिं बहुधा ग्रन्थेषु सूत्रकाराणाम् ।
स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥ इति ।

अस्य ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति-

येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदंकृतम् ॥ इति ।

ग्रन्थकर्तृप्रशस्तिः[सम्पादयतु]

महाकविः भासः स्वस्य नाटकेषु, तथा कालिदासः माघः भारविः च स्वेषां काव्येषु अर्थशास्त्रस्य तत्वानि, चाणक्यः यथा आचचक्षे, तैरेव शब्दैः छन्दोबन्धैः प्रत्यपादयन् । अपि च एतेषां काव्यानां व्याख्यानकर्ता मल्लिनाथः ’सञ्जीविनी’ ’घण्टापथ” इत्याख्यव्याख्यासु च मध्ये मध्ये "यदाह् कौटल्यः" इत्युक्त्वा अर्थशास्त्रस्य कानिचन वाक्यानि उदाहरति । आचार्यविष्णुगुप्तस्य शिष्यः कामन्दकः ’कामन्दकनीतिसाराख्ये’ स्वग्रन्थे कौटल्यं प्राशंसत् यथा-

वंशे विशालवंश्यानाम् ऋषीणामिव भूयसाम् ।
अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥
जातवेदा इवार्चिष्मान् वेदान् वेदविदांवरः ।
योधीतवान् सुचतुरः चतुरोऽप्येकवेदवत् ।।
यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपात मूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥
एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः ।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ।।
नीतिशास्त्रामृतं धीमान् अर्थशास्त्रमहोदधेः ।
समुद्दद्ध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ इति ॥

अर्थशास्त्रस्य सार्वकालिकता[सम्पादयतु]

यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्यशास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्षदेवता इति प्रशंसापात्रं भवति ।

चाणक्यनीतिसूत्राणाम् उदाहरणानि[सम्पादयतु]

बहूनि प्रसिद्धानि प्रचलितानि च नीतिसूत्राणि अत्र ग्रन्थे सन्ति । तेषु दिङ्मात्रं कानिचित् अत्र उदाह्रियन्ते ।

  1. सुखस्य मूलं धर्मः ।
  2. धर्मस्य मूलमर्थः ।
  3. अर्थस्य मूलं राज्यम् ।
  4. राज्यस्य मूलमिन्द्रियजयः ।
  5. इन्द्रियजयस्य म्ऊलंविनयः ।
  6. विनयस्य मूलं वृद्धोपसेवा ।
  7. प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ।
  8. अविनीतस्वामिभावादस्वामित्वं श्रेयः ।
  9. मन्त्रकाले न मत्सरः कर्तव्यः ।
  10. षट्कर्णात् भिद्यते मन्त्रः ।
  11. नातप्तलोहो लोहेन सन्धीयते ।
  12. राज्ञः प्रतिकूलं नाचरेत् ।
  13. नदेवचरितं चरेत् ।
  14. पुरुषकार्यमनुवर्तते दैवम् । .....

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Commons logo
वीकिमीडियाकोषे अनेन सम्बद्धमाध्यमाः सन्ति ।