सदस्यः:Chethana H.S./प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अर्थसमुद्देशः[सम्पादयतु]

अर्थानुबन्धः[सम्पादयतु]

अर्थम् अनुबध्नाति इति अर्थानुबन्धः। अर्थसम्बन्धी विषयः इत्यर्थः। अर्थसम्बन्धिनः विषयाश्चत्वारः- अलब्धस्य अर्थस्य लाभः, लब्धस्य परिरक्षणम्, रक्षितस्य विवर्धनम्, वृद्धस्य तीर्थेषु पतिपादनं चेति। एतेषां चतुर्णाम् अनुक्रमः एव अर्थानुबन्धशब्देन व्यवह्रियते। यः अर्थानुबन्धेन अर्थम् अनुभवति स एव अर्थस्य भाजनं भवति। तत्र धर्मसम्बन्धिनः पुरुषाः पुरोहितादयः कर्मसम्बन्धिनश्च पुरुषाः मन्त्र्यादयः तीर्थशब्देन उच्यते। अर्थस्य तीर्थेषु विनियोगनन्तरमेव स्वप्रयोजनमिति ज्ञातव्यम्। अतिव्ययः अपात्रव्ययश्चार्थस्य सर्वथा परिहर्तव्यौ।

अर्थम् आर्जयेत्। यस्यार्थराशिरस्ति तस्य मित्राणि धर्मः विद्या गुणाः विक्रमः बुद्धिश्च। अधनेनार्थमार्जयितुं न शक्यते, गजोऽगजेनेव। धनमूलं जगत्, सर्वाणि तत्र सन्ति। निर्धनो म्रुतः (इव)।
- बार्हस्पत्यानि नीतिसूत्राणि
अर्थसम्पत् प्रकृतिसम्पदं करोति। वृत्तिमूलमर्थलाभः। अर्थमूलौ धर्मकामौ। सुखस्य मूलं धर्मः। धर्मस्य मूलमर्थः। अर्थस्य मूलं राज्यम्। अर्थमूलं सर्वं कार्यं, यदल्पप्रयत्नात् कार्यसिद्धिर्भवति। अर्थेषणा न व्यसनेषु गण्यते। अर्थतोषिणं हि राजानं श्रीः परित्यजति। भाग्यवन्तम् अप्यपरीक्ष्यकारिणं श्रीः परित्यजति।
- चाणक्य-नीतिसूत्राणि
चाणक्यः

अर्थगुणाः[सम्पादयतु]

प्राचीनाः अर्थशास्त्रकाराः अर्थगुणान् बहुधा प्रशंसन्ति ।सर्वे गुणा कञ्चनमाश्रयन्ते इति लोकोक्तिः।धनमूलं जगत्,सर्वाणि तत्र सन्ति ।धर्मकामौ चार्थम् अवलम्बेते।सुकस्य मूलं धर्मः। धर्मस्य मूलं अर्थः। अथेनैव सिध्यन्ति सर्वे कामः ।'प्राणयात्राणि लोकस्य विना हि अर्थं न सिध्यति' इति महभरतोक्तिः ।यः अर्थवान् स लोके बहुमतः ।लोके सर्वेप्रयोजनसिद्धिः अर्थदेव भवति ।यस्यार्थः तस्य मित्राणि विध्यां विक्रमः बुद्धिश्च भवन्ति ।अर्थेनैव अर्थार्जनं भवति ।गजं प्रयुज्यैव गजं वशिकुर्वन्ति ।एकमेव अर्थप्रयोगेनैव अर्थस्य आर्जनं भवति ।

अर्थेभ्यो हि विव्रध्देभ्यः संभृतेभ्यस्ततस्ततः।
 क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्यः इवापगाः॥
 अर्थाध्दर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
 प्रणयत्राणि लोकस्य विना ह्यर्थं न सिध्यति ॥ 
:- महाभारत - शान्तिपर्व
यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः ।
 स वै राजन् कृशौ नाम न शरीरकृशः कृशः ॥
:- महाभारत -शान्तिपर्व 

अर्थदोषाः[सम्पादयतु]

अतिव्ययः अपत्रव्ययश्च अर्थस्य दूषणम्। एतादृशेन अर्थदूषणेन कुबेरोऽपि भवति दरिद्रः। तीर्थानां अर्थेन असंभावनमपि अर्थदूषणं भवति। अनेन राजा सर्वात्मना विनश्यति। तादात्विकमूलहर कदनेषु अर्थदोषाः अनिवार्याः। यः न किमपि सञ्चिनोति परं सर्वं प्राप्तम् अपव्ययति सः तादात्विकः । पितृपैतमहम् अर्थं यः अन्यायेन भक्षयति सः मूलहरः। यः भृत्यान् आत्मानं च पीडयित्वा सञ्चिनोति सः कदर्यः।

    तादात्विकः- मूलहरयोः आयत्यां नास्ति कल्याणम्। कदर्यस्यार्थसञ्चयस्तु यस्य कस्यापि निधिर्भवति। लञ्चोऽपि अर्थस्य दूषणं भवति। 

लञ्चो हि सर्वपातकानाम् आगमनद्वारम्।

अर्थः

अन्ये पृष्ठानि[सम्पादयतु]

आधारः[सम्पादयतु]

१॰ प्राचीनवाणिज्यम् - एम्॰शिवकुमारस्वामि