कोडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान्
दिखावट
केरळव्यासः कॊडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान् | |
---|---|
जन्म |
१८६४ सप्तम्बर् ०९ कॊडुङ्ङल्लूर्, श्रीशिवपुरम्, केरलम् |
मृत्युः |
१९१३ जनुवरी २२ श्रीशिवपुरम् |
देशीयता | भारतीयः |
वृत्तिः | संस्कृत, मलयाळकविः |
भार्या(ः) |
कॊडुङ्ङल्लूर् कोयिप्पळ्ळि पाप्पियम्बा कुट्टिप्पाऱुवम्बा श्रीदेवित्तम्पुराट्टी |
क्रिस्त्वब्दे १८६५ तमे वर्षे कोडुङ्ङल्लूर् कोविलके (कोटिलिंगपुर राजप्रासादे) कविश्रेष्ठस्य रामवर्मणः जनिम् अलभत । तस्य पिता वेण्मणि अच्छन् नम्पूतिरिप्पाड् आसीत् । माता कुञ्ञिप्पिळ्ळ तम्पुराट्टी (राज्ञी) च । पितरौ तं वात्सल्येन 'कुञ्ञिक्कुट्टन्' इति आह्वयताम् । बाल्ये एव सः कवितारचनायां समर्थः आसीत् । तेन लेखाः अपि पद्यैः लिखिताः आसन् । सः गैर्वाण्यां कैरळ्यां च अनेकान् ग्रन्थान् व्यरचयत् । तेषां संख्या पञ्चशदधिका भवति । महाभारतं लक्षाधिकैः श्लोकैः वेदव्यासेन रचितं भवति । एतस्य समग्रं वृत्तानुवृत्तं विवर्तनं कैरळ्यां सार्धसंवत्सरद्वयेन कुञ्ञिक्कुट्टन् तम्पुरान् महाशयेन कृतम् । अनेन विवर्तनेन महानुभावोऽयं केरळव्यासः इति बिरुदं शाश्वतम् यशः च अलभत् । तस्य प्रतिभायत्नः सर्वेषाम् आदरणीयः अनुकरणीयश्च भवति ।