विशोका वा ज्योतिष्मती (योगसूत्रम्)
दिखावट
सूत्रसारः
[सम्पादयतु]व्यासभाष्यम्
[सम्पादयतु]प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुद्धिसंवित्बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथाऽस्थितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तं — तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्सम्प्रजानीते इति । एषा द्वयी विशोका, विषयवती अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यन्ते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥३६॥
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि विशोका वा ज्योतिष्मती (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine