मत्स्यसाम्राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्

मत्स्यदेशः उत्तरभागे कुरुदेशपर्यन्तं पृसृतः आसीत् । पश्चिमदिशि यमुनानदीपर्यन्तं पृसृतः आसीत् । पाञ्चालदेशात् पृथक् च आसीत् । अयं मत्स्यदेशः इदानीन्तनराजस्थानराज्यस्य जैपुरसम्बद्धः आसीत् । इदानीन्तन-अलवारप्रान्तस्य तथा भरतपुरस्य च कश्चनभागः मत्स्यदेशान्तर्गतः आसीत् । विराटनगरं तेषां राजधानी आसीत् । एतत् राज्यं विराटनामकेन महाराजेन संस्थापितम् इत्यस्मात् तत् नगरं विराटनगरम् इति नाम प्राप्नोत् । पालिसाहित्ये मत्स्यदेशे शूरसेनः शासनं करोति स्म इति वदति । पश्चिममत्स्यदेशः चम्बल्खातप्रदेशे पर्वतप्रदेशे च व्याप्तः आसीत् । कालान्तरे मत्स्यदेशस्य एका शाखा विजगपथप्रान्ते अपि पृसृता अभवत् । बुद्धस्य काले म्त्स्यानां राजकीयप्राबल्यं नासीत् । मत्स्यदेशं चेदीदेशं च सुजातानामकः राजा अपि शासितवान् आसीत् इति तस्मात् मत्स्यदेशः चेदिदेशस्य कश्चन भागः आसीत् इत्यपि वदन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मत्स्यसाम्राज्यम्&oldid=366138" इत्यस्माद् प्रतिप्राप्तम्