नीरज चोपडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नीरज चोपडा
व्यक्तिगतविवरणम्
राष्ट्रियता भारतीयः
जन्म (१९९७-२-२) २४ १९९७ (आयुः २६)[१]
खान्द्रा, पानीपतमण्डलम्, हरियाणाराज्यं, भारतम्
क्रीडा
देशः भारतम्
क्रीडा शल्यक्षेपणम्
प्रशिक्षकः गेरी कल्वर्ट् (Garry Calvert)
उपलब्धयः शीर्षिकाः च
वैयक्तिकोत्तमम् JWR, NR - 86.48 (Bydgoszcz २०१६)
Updated on २४/०७/२०१६.

नीरज चोपडा ( /ˈnrəjə xpədɑː/) (आङ्ग्ल: Neeraj Chopra, हिन्दी: नीरज चोपडा) इत्येषः अंजू बॉबी जॉर्ज इत्यस्माद् अनन्तरं विश्व-चैम्पियनशिप-स्तरे द्वितीयः भारतीयव्यायामिकोऽस्ति (athletics), येन वैश्विकस्पर्धायां सुवर्णपदकं प्राप्तम्। पोलैण्ड-देशस्य बाईगॉश-महानगरे (Bydgoszcz) जायमानायां विंशत्यून-वैश्विकस्पर्धायाम् (Under 20) एकोनविंशवर्षीयः कनिष्ठव्यायामिकः सः ज्येष्ठानाम् अपि अभिलेखम् (record) अत्यक्राम्यत्। एवं सः लेटवीएन् जिगीसमंड्स् (ज्येष्ठः शल्यक्षेपकक्रीडालुः) इत्यनेन २०११ तमे वर्षे रचितं ८४.६९ मीटर-यावत् पूर्वविश्वाभिलेखम् अतिक्रान्तवान्। नीरजः तस्यां वैश्विकस्पर्धायां ८६.४८ [२] मीटरपरिमिते दूरे शल्यं प्रक्षिप्य नवीनम् अभिलेखम् अरचयत्। चिरस्मरणीयक्षेपणेषु नीरजस्य तस्य क्षेपणस्य गणना भवति।

जन्म, परिवारश्च[सम्पादयतु]

नीरजः भारतस्य उत्तरदिग्भागे स्थितस्य हरियाणा-राज्यस्य पानीपत-मण्डलस्य खान्द्रा-ग्रामस्य निवासी अस्ति। सः टोकियो ओलम्पिक्स् क्रीडायां स्वर्णपदकं प्राप्तवान् । तस्य जन्म १९९७ तमस्य वर्षस्य दिसम्बर-मासस्य चतुर्विंशतितमे (२४/१२/१९९७) दिनाङ्के अभवत्। नीरजस्य पिता कृषकः, माता च गृहिणी स्तः। नीरजस्य द्वे अनुजे स्तः। कस्मिंश्चित् साक्षात्कारे सः अवदद् यद्, मम भगिन्योः क्रीडाक्षेत्रे ईषदपि रुचिः नास्ति इति। यद्यपि नीरजस्य ग्रामस्थानां मित्राणां रुचिः करकन्दुकक्रीडायाम् (volleyball) आसीत्, तस्यापि तस्यां क्रीडायामेव रुचिः आसीत्। परन्तु ततः सः शल्यक्षेपणक्रीडायां प्रवृत्तः। सः जालन्धर-महानगरस्थे दयानन्द-एङ्ग्लो-वैदिक-महाविद्यालये (Dayanand Anglo Vedic College Jalandhar -DAV) पठन् आसीत्। परन्तु शल्यक्षेपणक्रीडायाः अभ्यासाय तेन बहुवारं स्वस्य विद्यालयीयम् अभ्यासं त्यक्त्वा गन्तव्यं भवति स्म। तस्य कथनम् आसीत् यद्, मम महाविद्यालयस्य अभ्यासकाले अवाञ्छितावकाशस्य कारणं मम पटियाला-महानगरे स्थितस्य प्रशिक्षणकेन्द्रस्य कृते यात्रावधिः आसीत् [३]। यतो हि मम महाविद्याप्रशिक्षणकेन्द्रयोः मध्ये यात्रायै द्वित्राः घण्टाः भवन्ति स्म।

शल्यक्षेपणक्षेत्रे योगदानम्[सम्पादयतु]

नीरजस्य प्रप्रथमः स्मरणीयः विजयः २०१२ तमे वर्षे अभवत्। तस्मिन् वर्षे राष्ट्रियकनिष्ठस्पर्धायां सः अष्टादशोनदले ६८.४८ मीटरदूरे शल्यम् अक्षिपत्। २०१२ तमस्य वर्षस्य तस्य उत्कृष्टप्रदर्शनस्य बलादेव सः २०१३ तमे वर्षे आयोजितायां राष्ट्रिययुवस्पर्धायां भागम् अवहत्। ततः सः IAAF-वैश्विकयुवस्पर्धायां भागं वोढुम् अर्हतां प्राप्तवान् [४]। ततः अष्टादशवर्षीयः नीरजः JSW-दलेन (Sports Excellence Program) सह सँल्लग्नः। तेन दलेन सह युक्तः सः ओस्ट्रेलिया-देशीयात् प्रशिक्षकाद् मार्गदर्शनम् अलभत। तस्य प्रशिक्षकस्य नाम गेरी कल्वर्ट् इति (Garry Calvert)। नीरजः JSW-संस्थायाः पोलेण्ड-देशस्य स्पाला-महानगरे स्थिते ओलम्पिक्-प्रशिक्षणकेन्द्रे मासद्वयं यावत् प्रशिक्षणं प्राप्तवान्।

यदा नीरजः अष्टादशवर्षीयः आसीत्, तदा २०१५ तमे वर्षे पटियाला-महानगरे आयोजितायाम् 'इन्टर्-वर्सिटि'-स्पर्धायां (Inter-Varsity Championship) सुवर्णपदं जितवान्। २०१६ तमस्य वर्षस्य आरम्भे नीरजः भारतवर्षस्य गुवाहाटी-महानगरे आयोज्यमानायां दक्षिणजम्बूद्वीपक्रीडाः इत्येतस्यां स्पर्धायां ८२.२३ [५] मीटरदूरे शल्यं क्षिप्त्वा सुवर्णपदकं जितवान् आसीत्। तदारभ्य एव सः शल्यक्षेपणक्षेत्रस्य प्रभावशालिक्रीडालुत्वेन प्रसिद्धिङ्गतः। २०१६ तमे वर्षे अष्टसु उत्कृष्टेषु शल्यक्षेपकेषु उत्कृष्टतमप्रदर्शकत्वेन नीरजेन स्थानं प्राप्तम्।

विंशत्यून-वैश्विकस्पर्धा[सम्पादयतु]

'त्रिनिदाद, टोबेगो च' (Trinidad and Tobago) इत्याख्यस्य द्वीपस्य निवासी, प्रादेशिकरक्षकस्पर्धायां सुवर्णपदकस्य विजेता 'केशोर्न् वोल्कोट्' इत्येतस्य शल्यक्षेपकस्य २०१६ तमस्य वर्षस्य अभिलेखः ८६.३५ मीटरपरिमितः आसीत्।

२०१६ तमे वर्षे यदा वैश्विकस्पर्धायां ८६.४८ मीटरदूरे शल्यं क्षिप्त्वा सः विजयं प्राप्तवान्, ततः अनन्तरं कश्चन पत्रकारः तस्य साक्षात्कारं स्व्यकरोत्। तस्मिन् साक्षात्कारे नीरजः अवदद् यद्, यदा शल्यं मे हस्तात् निर्गतं, तस्मिन् क्षेपणक्षणे मम अन्तःस्फुरणा आसीद् यद्, 'एतत् क्षेपणं विशिष्टम् आसीदिति' इति। तथापि अहं ८६ मीटर-तः अधिकं दूरे शल्यं क्षेप्स्यामि इति मे अपेक्षा नासीत्। गतद्वयोः मासयोः स्वस्वास्थ्याय, कौशलाय च बहुं परिश्रमं कृतवान् अहम् अद्य फलं प्राप्तवान् इति [६]

तस्यां स्पर्धायां यदा प्रप्रथमावसरे नीरजः शल्यं न्यक्षिपत्, तदा सः सर्वेषु स्पर्धकेषु द्वितीयक्रमाङ्कं प्राप्तवान्। तस्मिन् अवसरे सः ७९.६६ मीटरदूरे शल्यं क्षिप्तवान् आसीत्। परन्तु द्वितीयवारं यदा सः शल्यक्षेपणाय अवसरं प्राप्तवान्, तदा सः विश्वाभिलेखम् असृजत्। तस्यां स्पर्धायां दक्षिण-अफ्रिका-देशीयः जोह्न् ग्रोवलर् इत्येषः ८०.५९ मीटरदूरे शल्यं क्षिप्त्वा द्वितीये क्रमे, ग्रेनाडा-देशीयः एन्डर्सन् पिटर् इत्येषश्च ७९.६९ मीटरदूरे शल्यं क्षिप्त्वा तृतीये क्रमे आस्ताम्।

२०१६ रियो-स्पर्धायाम् अनुपस्थितिः[सम्पादयतु]

यद्यपि विंशत्यून-वैश्विकस्पर्धायां (under nineteen) नीरजः सुवर्णपदकं प्राप्य भारतस्य उत्तमेषु व्यायामिकेषु स्वस्थानं समपादयत्, तथापि सः २०१६ तमे वर्षे रियो-स्पर्धायां (Rio) भारतस्य नेतृत्वं कर्तुं न शक्तवान् [७]। यतो हि २०१६ तमस्य वर्षस्य रियो-स्पर्धायां भागं ग्रहीतुम् आवेदनाय समयः व्यपगतः। अन्यथा २०१६ तमे वर्षे आयोजितां रियो-स्पर्धां नीरजः साक्षात् प्रावेक्ष्यत्। रियो-स्पर्धायां साक्षात्प्रवेशं प्राप्तुं व्यायामिकेन ८३ मीटरदूरं यावत् शल्यक्षेपणं करणीयम् इति अर्हनियमः [८]। परन्तु २०१६ तमस्य वर्षस्य मई-मासे दक्षिणजम्बूद्वीपीयस्पर्धायां नीरजः ८२.२३ मीटरदूरे शल्यम् अक्षिपत्। तथा च इण्डियन् जीपी-स्पर्धायां (Indian Grand Prix) ७९.५२ मीटर-यावत्, रेह्लिंगन् जर्मनी वेल्क्लस्-स्पर्धायां (rehlingen gemany weltklasse) ७९.५१ मीटरदूरे च शल्यं क्षिपयितुं शक्तवान्। यदि एषा वैश्विकस्पर्धा पूर्वम् अभविष्यत्, तर्हि नीरजः रियो-स्पर्धायां साक्षात् प्राविश्यत्।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

बाह्यसम्पर्कन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नीरज_चोपडा&oldid=481633" इत्यस्माद् प्रतिप्राप्तम्