अन्तर्जालम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अन्तरजालम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अन्तजालम्
अन्तर्जालम् चित्र:

अन्तर्जालम् इत्येतत् अत्यधिकानां सङ्गणकानां कश्चन जालबन्धः वर्तते । विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति ।

अन्तरजालस्य स्वरूपम्[सम्पादयतु]

दूरसंचारक्षेत्रे संगणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था संगणकानां माध्यमेनैव विधीयते। इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। संगणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते। सर्वस्मिन् जगति यत् किञ्चिद ज्ञानं विज्ञानं, शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। संसारे लघु-बृहद्-संगणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन दूरभाष-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति । अन्तरजाले मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।

अन्तरजालस्य महत्त्वम्[सम्पादयतु]

बहवः जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world Wideweb-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्। अन्तरजालस्य एका शाखा वर्तते वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW), तेन माध्यमेन विभिन्न-विषयेषु सूचना-प्राप्त्यर्थम् अन्तरजालद्वारा संगणकानि योजयति । अस्मिन् कार्ये इन्टरनेट एक्सप्लोरर (Internet Explorer) तथा च ब्रौसर् (Browser) साहाय्यं करोति । यथा-याहू (Yahoo), नेटस्कोप (Netscape), इण्डिया टैम्स् (India-times), वेबदुनिया (Webdunia) इत्यादयः सन्ति।' वल्र्ड वाइड वेब" अन्तरजालस्य अतिदीर्घप्रमुखभागः वर्तते।

अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा-
१.कश्चित् कम्पनी एवं तस्य उत्पादनानां (Products) विषये ज्ञानम्।।
२.अन्तरजालसंस्करणे विभिन्न-समाचारपत्राणां समाचारम्।
३.रोगाणां चिकित्सा,
४.चल-चित्रणि,
५.प्रचलन्त्याः क्रीडायाः विवरणम्।
६.समृद्धपुस्तकालयेभ्यः पुस्तकचयनम्।
७.संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि । सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति ।

अन्तरजालस्य उपयोगः(Uses of Internet)[सम्पादयतु]

अन्तरजालात् निम्नांकितानि प्रयोजनानि प्राप्तुं शक्यानि । -

(क) इंटरनेट्-मेल (Internet mail) या ई-मेल (E-mail) अन्तरजालमाध्यमेन इलैक्टॉनिकसंचारद्वारा प्रेषितं पत्रम् ई-मेल इति कथ्यते। इयं सेवा अन्तरजालस्य सर्वाधिक्रप्राचीना वर्तते। वर्तमानकाले तु प्रतिदिनं कोट्यधिकाः अस्य प्रयोजनभागिनः सन्ति । एतेषु कार्यालयीयपत्राणि व्यक्तिगतानि च भवन्ति ।
(ख)वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW) अयं महाप्रकारस्य विषयसङ्ग्रहः(डाटाबेस्) वर्तते यः सम्पूर्णसंसारे व्याप्तोऽस्ति। अन्तरजालेन सम्बद्धाः जनाः अनेनैव सूचनाः प्राप्नुवन्ति । अनेन माध्यमेन सामान्यपाठ्यसामग्रीभिः सह चित्रं, ध्वनिः, दृश्यपरिकरादयः उपलभ्यन्ते। कोऽपि जनः शुल्कं दत्वा स्व-सूचनाः वेब साइट (Web-Site) । । इत्यस्योपरि प्राप्यन्ते। वेब-साइटोपरि स्व-नाम-पता इत्यनेन सह पंजीकृतं कर्नु शक्यते। | वल्र्ड वाइड वेब इत्यस्योपरि सूचना अन्वेषणार्थ ईंटरनेट एक्सप्लोरर (Internet Explorer) HITGGIT (Browser) प्रोग्राम द्वारा वा इदं कार्यं सरलतापूर्वक कर्तुं शक्यते। चूँ -
(ग)फाइल-द्वान्सफर-प्रोटोकाल् (FTP) अन्तरजालेन कस्मिंश्चित् सङ्ग्रणके विद्यमानाः सूचनाः विषयाः वा अन्यस्मिन् अन्तरजालसम्बद्धसंगणकं प्रति स्थानान्तरणं प्रेषणं वा कर्तुं शक्यते । j -
(घ)टेलीनेट (Telly-net)इदं साधनं कम्प्यूटरं अन्तरजालेन सह सम्बद्धः कर्तुं । सर्वरः (Server) इति विद्यते। - ... ' i
(ङ)ई-कामर्स (E-Commerce) अतिदूरस्थजनाः कम्पनी वा अन्तरजालमाध्यमेन सम्पर्कं स्थापयित्वा वस्तूनां सेवायाः वा क्रय-विक्रयं, आदान-प्रदानं च ई-कामर्स द्वारा कर्तुं शक्यते। '
(च)वार्तालापः (Chatting) अन्तरजालसम्बद्धषु संगणकेषु कार्यरताः जनाः अपरसंगणकेषु कार्यरतैः जनैः सह परस्परवार्तालापं कर्तुं शक्नुवन्ति । एतस्य विकसित-स्व-रूपं वॉयसमेल (voice-mail) इति भवति। येषु ध्वनिग्राहक-प्रेषकपरिकरैः (माइक-स्पीकर्) दूरस्थौ द्वौ जनौ दूरभाष-दृश्यमाध्यमेन वार्तालापं कर्तुं शक्नुतः । !
(छ)वार्तागणः (Newsgroup) वार्तागणः इत्येषः बहु संदेशानाम् एकः समूहः संग्रहो वा भवति । अत्र रुच्यनुसारं विषयस्य अन्वेषणं संदेशस्थापनं च कर्तुं शक्यते।

भारतवर्षे अन्तर्जालस्य उपयोगः[सम्पादयतु]

भारते अन्तर्जालसेवा प्रारम्भे मुख्यतः विदेश-संचार-निगम लि, (VSNL) द्वारा अगस्त 1995 तः उपलभ्यते । एतदर्थं संचार् नेट (Sanchar Net) नाम्नः एकः सार्वजनिकसम्पर्कजालः निर्मियते स्म। यैः 42 नोड्स् (Nodes) द्वारा भारतस्य शताधिकेभ्यः नगरेभ्यः अन्तरजालसुविधा प्रदीयते स्म। सम्प्रति नेटवर्क-संचालनं भारत-संचार-निगम लि. (Bharat Sanchar Nigam Ltd.) द्वारा क्रियन्ते। भारते अन्तरजालसदस्याणां संख्या सितम्बर १९९७ तमे वर्षे ५ सहस्राणि आसन् । २००५ तमे वर्षे 20 लक्षाधिकाः । २०१५ तमे वर्षोवसाने ४०० मिल्लियनाधिकाः इति वर्था ।

भारते संचालिताः अन्तरजालीयसेवा-
१.विदेश-संचार-निगम-लि.(VSNL),
२.भारतसंचारनिगमलि.(BSNL),
३. महानगर-टेलीफोन-निगम-लि.(MTNL),
४.मंत्र ऑनलाइन(MantraOnline),
५.सत्यम् (Satyam Online),
६ सिग्मा(Sigma Online),
७ नेट् फोर् इण्डिया (Net 4 India),
८ नेट्क्रैकर् (Netkracker),
९ डाटा आन्लैन् (Data online) इत्यादयः सन्ति।

अन्तरजालस्य स्थापना(Installation of Internet)[सम्पादयतु]

नगरेषु ग्रामेषु च निवसद्भिः जनैः अन्तरजालस्य सेवायाः लाभं प्राप्तुं तेषां सविधे निम्नलिखितानि साधनानि आवश्यकानि -
१.हार्डयर,
२.सॉफ्टवेयर,
३. विन्डोज आधारितः 486 पीसी *पेंटियम वा,
४.इंटरनेट सॉफ्टवेयर इत्यादयः आवश्यकः वर्तते। उपर्युक्तसाधनयुक्ते सति अन्तरजालकम्पनीतः सदस्यता प्राप्तव्या । तस्मिन् समये उपभोक्तृभिः एकं सदस्यनाम प्राप्तं भवति। तस्य कूटशब्दः (Password) अपि निर्मीयते।

अन्तर्जालस्य स्थापनाय मोडेम् इत्यस्य उपकरणस्य स्थापनमावश्यकम् । इदम् आन्तरिकं (Internal) तथा बाह्यं (External) च भवति।

बाह्यगवाक्षाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=392953" इत्यस्माद् पुनः प्राप्तिः