अन्नमाचार्य
श्री तळ्ळपक अन्नमाचार्यः | |
---|---|
व्यैक्तिकतथ्यानि | |
ख्यातनाम | अन्नमय्या |
मूलतः | कडप्पा मण्डलः, आन्ध्रप्रदेशः, भारतम् |
सङ्गीतविद्या | कर्णाटकशास्त्रीयसङ्गीतम् |
वृत्तिः | कर्णाटकसङ्गीतवाग्गेयकारः |
वाद्यानि | Tambura |
श्री तळ्ळपक अन्नमाचार्यः (अन्यथा अन्नमय्या) (मई ९, १४०८ – फेब्रवरि २३,१५०३) तिरुमलस्य वेङ्कटदेवस्थानस्य अधिकृतः सङ्गीतगायकः आसीत् । सः तेलुगु-भाषायां ३६००० कीर्तनानि रचितवान्, तेषु बहवः श्री वेङ्कटेश्वर-देवस्य गुणगानरूपेण सन्ति । एतेन रचितानां कीर्तनानां प्रकारेण कर्नाटकी-सङ्गीतस्य रचनाक्रमः संप्रभावितः अस्ति । तानि इदानिमपि कर्नाटकसङ्गीतगायकैः गीयन्ते । अन्नमाचार्यस्य जिवनं दासश्रेष्ठजीवनम् इति स्मरन्ति सर्वे । भगवतः गोविन्दस्य महान्-भक्तः इति अन्यैः भक्तैः दासकविभिः च भाव्यते ।
तं तेलुगु-भाषायाः पद-कवितापितामहः तन्नाम गीतलेखनस्य पितामहः इति वदन्ति ।
जीवनम्
[सम्पादयतु]अन्नमाचार्यः वैशाखशुद्धपौर्णिमायां सर्वधारिसंवत्सरे (मई ९, १४०८) तळ्ळपकग्रामे (अद्यत्वे कडप्पाजनपदे विद्यमानः ग्रामः), आन्ध्रप्रदेशराज्ये जातवान् । तस्य भार्या तिम्मक्का ‘सुभद्रा कल्याणं’ रचितवती, तां तेलुगु-भाषायाः लेखकेषु प्रथमा महिला लेखिका इति वदन्ति । तयोः पुत्रः ‘पेद्द तिरुमलाचार्यः’ पौत्रः तळ्ळपक चिन्नय्या च रचनाकारौ कवी च । कर्नाटक-सङ्गीतस्य रचनाक्रमः तळ्ळपकसङ्गीत-संरचनाक्रमात् बहुधा प्रभावितः अस्ति । अन्नमाचार्यः दुन्दुभिनामसम्वत्सरस्य फाल्गुनबहुद्वादश्यां स्वस्य ९४ वयसि दिवङ्गतः ।
साहित्यजीवनम्
[सम्पादयतु]सः भगवतः गोविन्दस्य वेङ्कटेश्वरस्य स्तुतिरूपकाणि ३६००० कीर्तनानि रचितवान् । अद्य तेषु केवलं १२००० कीर्तनानि उपलभ्यन्ते ।
अन्नमाचार्यः तेन रचितानि कीर्तनानि भगवतः गोविन्दस्य पुष्पार्चनाय इति भावितवान् । कीर्तनेषु सः वेङ्कटेश्वरं स्तुतवान्, देवस्य विषये स्वस्य प्रेम, आक्षेपः, आरोपः इत्यादीन् भावान् प्रादर्शयत् । भक्तस्य विफलतां विश्वासं च निवेदयति, वेङ्कटेश्वराय स्वस्य समर्पणञ्च कृतवान् । एतस्य कीर्तनानि अध्यात्मसम्बद्धानि श्रुङ्गारसम्बद्धानि इति द्विधा विभज्यते । तस्य श्रुङ्गारयुक्तानि कीर्तनानि वेङ्कटेश्वर-अलमेलमङ्गंम्मायाः कल्पनारम्ययुक्तचरितस्य वर्णनं कुर्वन्ति, अन्यानि च भक्तस्य भक्तिवर्णनं कुर्वन्ति ।
सः अन्येषु कीर्तनेषु धर्मस्य सुचरितस्य नैतिकतायः च सम्बद्धानि सन्ति । तस्मिन् काले अस्पृश्यतायाः खण्डनं कृतवत्सु अन्यतमः आसीत् अयम् । वर्णजाति-आर्थिकभेदं विना देवमानवयोः सम्बन्धः कथं भवेत् इति रमणीयतया वर्णयति ’ब्रह्मम् ओक्कट्टे परब्रह्मम् ओक्कट्टे’, ’ई कुलजुदैननेमि एव्वदैननेमि’ इत्यादिषु गीतेषु ।
तस्य शब्दमाधुर्यकारणतः तेन लिखितानि गीतानि नितराम् आनन्ददायकनि । विशेषसाहित्यरचनेन सः तेलगुसाहित्येक्षेत्रे प्रमुखं स्थानं प्राप्तवान् ।
किंवदन्ती काचित् श्रूयते यत् अन्नमाचार्यः पुरन्दरदासः च मिलित्वा सङ्गीतरचनं कृतवन्तौ इति ।
तस्य काले प्रख्यातिं गतानि तदीयानि गीतानि तदनन्तरं शतकत्रयं यावत् सम्पूर्णतया विलुप्तानि आसन् इत्येतत् आश्चर्यकरमस्ति । तदनन्तरकाले तिरुमलस्य श्री वेङ्कटेश्वर-देवस्थानस्य अन्तः दानपेटिकायाः पुरतः विद्यमाने लघुप्रकोष्टे प्रच्छन्नरूपेण स्थापितानां मुद्रितताम्रपत्राणां रूपेण अलभन् ।
तिरुमलतिरुपतिदेवस्थानम् एतस्य साहित्यस्य संरक्षणे विशेषावधानं यच्छति । अन्नमाचार्यस्य ६०० गीतानां कृते गिरिमेल्ल बालकृष्ण प्रसादः (जन्म ९ नवेम्बर, १९४८) सङ्गीतसंयोजनं कृतवान् । सः तिरुपतितिरुमल-देवस्थाने १९८३ वर्षतः आस्थानगायकः आसीत् । शास्त्रीयशैल्यां भक्तिगीतानां गायने तस्य महत् प्रावीण्यम् । सः विशेषतः अन्नमाचार्यस्य सङ्कीर्तनानि एव अगायत् । “भाग्यमु विष्णुकथा”, “ब्रह्मा कडिगिन पदमु”, “जगदपु छनुवुल”, “पिडिकेडु थलम्बरलु” इत्यादीनां प्रसिद्धगीतानां सङ्गीतसम्योजनं कृतवान् । अधिकानि भक्तिगीतानि संस्कृतेन तेलगुभाषया च रचितानि सन्ति ।
विश्वविक्रमः
[सम्पादयतु]हैद्राबाद नगरे “लक्षगल सङ्कीर्तनार्चना” इति कार्यक्रमे “सप्तगिरि सङ्कीर्तनालु” नामकानि अन्नमय्यस्य सप्त कीर्तनानि २००९ तमे वर्षे मइ १० दिनांके १,६०,००० जनाः युगपत् अगायन् । अयं कार्यक्रमः गिन्निस्-लेखे उल्लिखितं जातम् ।