सामग्री पर जाएँ

अमृतसरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमृतसरमण्डलम्

ਅਮ੍ਰਿਤਸਰ

Amritsar District
Sifti da Ghar
रात्रिकाले स्वर्णमन्दिरस्य नैस्वर्गिकचित्रम्
रात्रिकाले स्वर्णमन्दिरस्य नैस्वर्गिकचित्रम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि अमृतसर-प्रथमः, अमृतसर-द्वितीय, एजनला, बाबा बकाला
विस्तारः ५,०५६ च.कि.मी.
जनसङ्ख्या(२०११) २,४९०,६५६
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७६.२७%
भाषाः पञ्जाबीभाषा, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://haridwar.nic.in

अमृतसरमण्डलं ( /ˈəmrtəsərəməndələm/) (पञ्जाबी: ਅੰਮ੍ਰਿਤਸਰ ਜ਼ਿਲ੍ਹਾ , आङ्ग्ल: Amritsar District) भारतदेशस्य उत्तरभागे स्थितस्य पञ्जाबराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमृतसर-महानगरम् । अमृतसरमण्डलं सुवर्णमन्दिर-स्वातन्त्र्यसङग्राम-गुरुद्वारादिभ्यः प्रख्यातमस्ति । अमृतसरमण्डलं जलियावाला-बाग-हत्याकाण्डाय, १९८४ तमस्य वर्षस्य ब्लू-स्टार्-ओपरेशन्-इत्येतस्मै च कुप्रख्यातमपि अस्ति ।

भौगोलिकम्

[सम्पादयतु]

अमृतसरमण्डलस्य विस्तारः ५,०५६ च.कि.मी.-मितः अस्ति । पञ्जाबराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि पाकिस्थानदेशः, दक्षिणदिशि तरन तारन-मण्डलं, पूर्वदिशि पाकिस्थानदेशः, पश्चिमदिशि गुरुदासपुरमण्डलम् अस्ति ।

जनसङ्ख्या

[सम्पादयतु]

अमृतसरमण्डलस्य जनसङ्ख्या(२०११) २,४९०,६५६ अस्ति । अत्र १,३१८,४०८ पुरुषाः, १,१७२,२४८ स्त्रियः, २,८१,७९५ बालकाः (१,५४,३५१ बालकाः, १,२७,४४४ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९२८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८९ अस्ति । अत्र साक्षरता ७६.२७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८०.१५% स्त्री - ७१.९६% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- अमृतसर-१, अमृतसर-२, एजनला, बाबा बकाला

वीक्षणीयस्थलानि

[सम्पादयतु]

अमृतसर-महानगरं पञ्जाबराज्यस्य सांस्कृतिकेन्द्रमस्ति । अस्य महानगरस्य महान् इतिहासः वर्तते । एतत् महानगरं मजा-राज्ञः मुख्यनगरमासीत् । तदा एतत् महानगरं मुकुटमणिः (Jewel of the crown) इति प्रसिद्धम् आसीत् । अस्य महानगरस्य जनाः सांस्कृतिक-आध्यात्मिक-परम्परां रक्षन्तः सन्ति । अतः एतत् महानगरं सदाचारस्य (पञ्जाबीभाषायां सिप्ति दा घर (sifti da ghar) इति उच्यते) गृहमित्यपि प्रसिद्धम् । अमृतसर-महानगरं सिक्खजनानां तीर्थधाम । सुवर्णमन्दिरस्य दर्शनेन सर्वाण्यपि पापानि नष्टानि भवन्ति इति सिक्खजनानां श्रद्धा । अमृतसर-महानगरं सार्धचतुश्शतं वर्षेभ्यः प्राक् प्रप्रथमसिक्खगुरुणा निर्मापितम् । १५७७ तमे वर्षे ५०० प्रहल(Acre)भूभागे गुरुद्वारस्य शिलान्यासं सिक्खसम्प्रदायस्य प्रप्रथमगुरुः रामदासः चकार । सरोवरं परितः तत् गुरुद्वारम् अस्ति ।

अमृतसर-महानगरे कानिचन महत्वपूर्णानि विक्षणीयानि स्थलानि सन्ति । यथा – अमृतसरसुवर्णमन्दिरं, जलियावाला बाग, हाथी गेट मन्दिर, खरउद्दीन मस्जिद, दुर्गियाना मन्दिर, बाबा अटलराय स्तम्भ, रामतीर्थ ।

वाघा बोर्डर् भारत-पाकिस्थानयोः सीमाप्रदेशः । एतस्मिन् स्थले भारत-पाकिस्थानयोः प्रवेशद्वारम् अस्ति । भारतस्य प्रवेशद्वारे भारतस्य सैनिकाः, पाकिस्थानस्य प्रवेशद्वारे पाकिस्थानस्य सैनिकाः स्थिताः भवन्ति । प्रातः द्वारोद्धाटनस्य प्रक्रिया सैन्यपद्धत्या भवति । सैनिकाः भारतस्य गर्वान्वितपद्धतीनाम् अनुसरणं कृत्वा द्वारम् उद्घाटयन्ति । सायं काले द्वारं पिहितुमपि तस्याः विशिष्टसैन्यप्रक्रियायाः एव पुनरावृत्तिः भवति । प्रातःकाले, सायङ्काले च क्रमेण द्वारोद्घाटन-द्वारपिधान-प्रक्रियां द्रष्टुं बहवः यात्रिकाः, जनाः तत्र गच्छन्ति । यया पद्धत्या भारतीयसैनिकाः द्वारोद्घाटनं द्वारपिधानं च कुर्वन्ति, तां पद्धतिं दृष्ट्वा सैनिकेभ्यः, देशाय च जनानां यत् मानमस्ति, तत् प्रत्यक्षं भवति ।

भारतस्य स्वतन्त्रतायाः चर्चायां जलियावाला हत्याकाण्डः-हत्याकाण्डस्य उल्लेखः अनिवार्यः । भारतस्य कलङ्कः एषः काण्डः भारतीयजनानां हृदः व्रणः एव । सः व्रणः अद्यापि भारतीयान् पीडयति । तस्मिन् हत्याकाण्डे एकसहस्रं (१०००) जनाः मृताः इति आङ्ग्लसर्वकारेण उद्घोषितमासीत् । परन्तु द्विसहस्राधिकाः जनाः मृताः इति जनानां प्रत्यक्षानुभवः । जनरल डायर-नामकः आङ्ग्लाधिकारी जलियावाला हत्याकाण्डः-हत्याकाण्डस्य मुख्यदोषी । सः एव अहिंसकसम्मेलनं कुर्वतां जनसामान्यानाम् उपरि गोलिकाप्रहाराय आरक्षकान् आदिशत् । सैनिकैः चालिताः गोलिकाः जनानां शरीरं विभेद्य अग्रेसरन्त्यः पृष्ठभागे स्थितायां भित्तिकायां स्तम्भिताः (stopped) । अद्यापि भित्तिकासु गोलिकाः दृश्यन्ते । आङ्ग्लानां गोलिकाभ्यः मरणात् तु कूपे पतित्वा मरणं श्रेयस्करम् इति विचिन्त्य बहवः जनाः तत्रस्थे कूपे पतित्वा प्राणत्यागम् अकुर्वन् । बहुवर्षेभ्यः अनन्तरं जलियावाला बाग-स्थलस्य दर्शनं कर्तुं गताः केचन राष्ट्रभक्ताः तं कूपं दृष्ट्वा एतावन्तः भावपूर्णाः अभूवन् यत्, ते स्वयम् अपि तस्मिन् कूपे पतित्वा प्राणाहुतिम् अकुर्वन् । अनेन ज्ञायते यत्, तत् स्थलं भारतस्य इतिहासे, भारतीयानां मनसि कियत् महत्वपूर्णमस्ति । अधुना तु तस्य कूपस्योपरि लोहेनाच्छादिता जालिका निर्मापिता सर्वकारेण । परन्तु तेन काण्डेन जनमानसि जातस्य व्रणस्य औषधम् अद्यापि न केनापि वैद्येन प्राप्तम् इति खेदः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सुवर्णमन्दिरम्

जलियावाला बाग

वाघा बोर्डर्

बाह्यानुबन्धाः

[सम्पादयतु]

http://amritsar.nic.in/

फलकम्:पञ्जाबस्य मण्डलानि

"https://sa.wikipedia.org/w/index.php?title=अमृतसरमण्डलम्&oldid=318077" इत्यस्माद् प्रतिप्राप्तम्