सामग्री पर जाएँ

अर्वाचीनमनोविज्ञाने सिग्मण्ड फ्रोइड महोदयस्य योगदानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अर्वाचीनमनोविज्ञाने सिग्मण्ड फ्रोइड महोदयस्य योगदानम् अतीव महत्त्वपूर्णं वर्तते। अर्वाचीनमनोविज्ञानस्य असामान्यमनोविज्ञानशाखाया वैज्ञानिकशिरोमणिफ्रायड- युङ्ग-एडलरप्रभृतिभिर्यादृशी समुन्नतिरल्पीयस्येव काले सम्पादिता, तादृशी समुन्नति: मानवजातेर्महते कल्याणाय कल्पते । मानसिकरोगाणां चिकित्सापद्धतौ नूनमसामान्य- मनोविज्ञानपारङ्गतैर्मनोविश्लेषणवादप्रवर्त्तकैः फ्रायडमहाभागैरामूलचूडं परिवर्तनं सम्पादितम्। इतः प्राक् सर्वदेशेषु मानसिकरोगिणां दुर्दशा आसीत्। यथा योरपीयदेशेषु तथैव भारतेऽपि मानसरोगिण उन्मादादिपीडिताः पाशैर्निबध्यन्ते स्म । 'भूतपिशाचदेवपितृविशेष- प्रदत्तयातनामयोऽयमुन्मादादिरोगः' इति सामान्यजनानां मान्यता आसीत् ।

कुमारीडिक्स- महोदयाभिर्यत् स्मृतिपत्रं संयुक्तराष्ट्रास्यामेरिकादेशस्य संसदि (काँग्रेसे) विचारार्थं प्रेषितमासीत्, तस्मिन् विविधा यातना विशदतया वर्णिताः समुपलभ्यन्ते । आर्यावर्त्ते घोरशिक्षाऽभावे वर्तमाना ग्रामीणजना नागरिकाश्चाद्यापि नूनमेतादृशान्धविश्वासनिगडिता दृश्यन्ते, यद्यपि स्वातन्त्र्योन्मेषादनन्तरं भारतीयसर्वकारेण निरन्तरमेतादृशरोगिणां कृते समुचितमायुर्वेदीयमनोवैज्ञानिकचिकित्सार्थं प्रयत्यते। का तर्हि सामान्यलोकानां पुरातनी मानसोन्मादादिरोगाणां चिकित्सापद्धतिरिति ? अत्रोच्यते - एकस्तान्त्रिकः समायाति, स च मद्यपो मांसाहारी प्रायो दुराचारी विधुरो भवति । उन्मादग्रस्तं मानसिकरोगिणं निशीथे भृशं ताडयति दण्डेन, मुष्टिभिः पादाघातैर्वा । घृतदीपसम्मुखं दशवर्षीयबालकद्वारा प्रश्नमुखेनोच्चरति -

तान्त्रिकः - भो बाल, किं पश्यसि त्वम्? कृष्णं राक्षसं किम् ?

बालः - ओम ! एवमेव कृष्णं विपुलकायं दण्डहस्तं राक्षसमहं पश्यामि ।

तान्त्रिकः - अन्यत् किं पश्यसि ? किं राजानम् ?

बालः - ओम् ! एवमेव अयं राक्षसः मामनुधावति । इत्यादि ।

एवम्प्रकारेण 'देवपितृकोपजन्योऽयमुन्मादविकार:' इति साधयति । पुष्कलदक्षिणां प्राप्य स गच्छति । ताडनाद् द्वित्रदिनानि यावत् स्थित्वा स गच्छति । जना रोगिणमेकाकिनं गृहे वन्दिनं कुर्वन्ति । लोहमयशृङ्खलाभिः प्रतिबध्नन्ति । महाकाल्यै देव्यै दानविशेष: प्रदीयते। पुरोहितेन लक्षवारं जपः क्रियते । किं किं न कुर्वन्ति तेऽन्धविश्वासग्रस्ता अज्ञाननिबिडतिमिराभिभूताः ! का: का यातना मानसिकरोगिभ्यो न प्रदीयन्ते !

फ्रायडमहाभागा मनोविश्लेषणविधेराद्यप्रवर्तकाः सर्वोत्तममानसिकरोगाणा- मुन्मादापस्मारप्रभृतीनां सफलचिकित्साविशारदा नूनं मानवजातेः धन्यवादार्हाः । तैर्महानुभावैः प्रतिपादितं यद्धि मनोविकाराणां चिकित्सा मनोवैज्ञानिक्येव भवितुमुचिता । मनोविश्लेषणवादस्तैः प्रवर्तितो मनोवैज्ञानिकचिकित्सापद्धतिदिशि सफल प्रयोगः । तैर्महानुभावैः सर्वप्रथममतिस्फुटं व्याख्यातम् - कि स्वप्नस्य कारणम् ? किं स्मृतिभ्रंशस्य कारणम्? कश्चोन्मादापस्मारादिरोगहेतुः ? कश्च तस्योपचारविधिश्चेति? तेषां गौरवं मानवीयो- दारदृष्टिकोणनिर्माणायार्वाचीनविश्वसंस्कृतिसर्वस्वाय किलानुपमं वर्तते। वैज्ञानिकपरिशीलन- दृष्ट्या यत्स्थानं प्राणिविज्ञाने डार्विनमहोदयानां विकासवादप्रवर्त्तकानां विद्यते, तदेवार्वाचीन- मनोविज्ञानसाहित्ये फ्रायडमहाभागानां वर्तते। नहि मानसिकरोगाणामुन्मादप्रभृतीनां चिकित्सा आयुर्वेदप्रणाल्या कर्त्तव्या, अपि तु मनोविज्ञानरीत्यैव मानसिक विकाराणां निदानमन्वेष्टव्यम्, चिकित्सा चापादनीयेति फ्रायडमहोदयानां मतम् । वयमग्रे फ्रायडमतम्, तदनुयायिनां तच्छिष्याणां वा युङ्ग-एडलरप्रभृतीनामन्येषां च मतानि विशदतयानुव्याख्यास्यामः ।

यवनदेशीयहिपोक्रेटीजमतम्

[सम्पादयतु]

यद्यपि फ्रायडमहोदयात् पूर्वं मानसिकरोगाणामुपचारचिकित्सादिकमत्यर्थमन्ध- विश्वासपूर्वकं प्रचलति स्म, तथापि पुरातनैः कैश्चन विद्वद्भिः प्रतिपादिमासीत् यद्धि मानसिकरोगाणां निदानं मनोवैज्ञानिकं भवतीति। वयमत्र विशेषतः चिकित्सकमूर्धन्ययोर्द्वयोः हिपोक्रेटीजपुनर्वस्वात्रेयमहर्षिप्रवरयोर्मते स्फुटीकरिष्यामः । नूनं कथं तन्निदानं मनोवैज्ञानिकरीत्याऽन्वेष्टव्यम् ? कथञ्च तस्य मनोवैज्ञानिकी चिकित्सा सम्पाद्यते ? इति सर्वं प्रतिपदं सर्वोपरि स्फुटतया मौलिकरीत्या मनोविज्ञानपारङ्गतैश्चिकित्सकवरेण्यैः फ्रायडमहाभागौरेवानुव्याख्यतम्। सुतरां तावत् पुराकाले यवनदेशे एको हिपोक्रेटीजनामा विद्वान् पेरिक्लीजनाम्नो गणतन्त्राधिपस्य शासनकालेऽभूत्।

अयम् (५५२ वि०पू० - ४८६ वि०पू० ) आसीत् । तदानीं जना मानसिक- रोगानपस्मारोन्मादादीन् भूतपिशाचादिभिर्जन्यानमन्यन्त । हिपोक्रेटीजमहोदयस्तदा प्रतिपादितवान् यदुन्मादापस्मारादिरोगा देवविशेषस्य कोपान्नह्याविर्भवन्ति, यथान्ये शारीरिकरोगा अपि न भवन्ति; प्रत्युत उन्मादादिरोगाणां कारणं शारीरिकमायुर्वेदविज्ञानगम्यं भवतीति। अस्मिन् ग्रन्थे ‘आयुर्वेद' इति शब्दः पाश्चात्यप्राच्यचिकित्सापद्धतिसमन्वयोत्थ- चिकित्सापद्धतिसूचकोऽवगन्तव्यः । अत चायुर्वेद इति ‘यवनदेशीय आयुर्वेदः' अवसेयः । अपस्माररोगमधिकृत्य तैर्महाभागैरुक्तम्- “शिर: पटलं शल्यचिकित्सारीत्या विदीर्य त्वं तत्र मस्तुलुङ्गमार्द्रं पश्यसि स्वेदमयं पूतिगन्धं च । एतावतेदं द्रष्टुं शक्यते यन्नायं देवविशेषो यः शरीराय कष्टं प्रदत्ते; प्रत्युतायं रोग एव” इति । तेनानेकभयादिकस्य निदानमपि व्याख्यातम् ।

हिपोक्रेटीजमहाभागो यवनदेशीयायुर्वेद पद्धतेः पितेति पुरातत्त्वविदां मतम् । अन्धविश्वासं यद्यपि नूनमपाकर्तुं तन्मतं प्रभवति, तथापि मनोवैज्ञानिकसामान्यमनोविकाराणां निदानं मनोवैज्ञानिक्ली चिकित्सापद्धतिर्वा तैर्नोपकल्पिता । तेषां मतं विशुद्धायुर्वेदीयमिति वयं मन्यामहे।

पुनर्वस्वात्रेयमहर्षिमतम्

[सम्पादयतु]

वैक्रमाब्दारम्भादष्टशतवर्षात् पूर्वं तक्षशिलास्थितविश्वविद्यालयस्यायुर्वेदप्राध्यापक- प्रवराणां भगवतां पुनर्वस्वात्रेयमहर्षीणां मतं यद्यपि विशुद्धायुर्वेदीयपद्धतिमनुसरति तथापि तस्मिन्नुन्मादापस्मारादिमानसिकविकाराणां निदानं मनोवैज्ञानिकं भवतीति निर्देशः समुपलभ्यते। यथा-

“इह खलु पञ्चोन्मादा भवन्ति; ते यथा - वातपितकफसन्निपातागन्तुकनिमित्ताः। “उन्मादं पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात्" ।

यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवति, उन्मादं तमागन्तुकमाचक्षते । केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तम्, तत्र च हेतुः प्रज्ञापराध एवेति । तथा हि भगवान् पुनर्वसुरात्रेयः-

“प्रज्ञापराधाद्धि यो देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्य्यपूज्यानव- मत्याहितान्याचरति, अन्यद् वा किञ्चिदेवंविधं कर्माप्रशस्तमारभते, तमात्मनोपहतमुपध्नन्तो देवादयः कुर्वन्त्युन्मत्तम्" इति ।

उपर्युक्तमहर्षिपुनर्वस्वात्रेयमते यद्यपि तत्र च हेतु: प्रज्ञापराध एवेति, नूनं मनोवैज्ञानिकं कारणमुन्मादस्य निर्दिष्टम् तथापि देवपितृगन्धर्वाद्यभ्युपगमेन महान्धविश्वासगौरवाभिभूतम्पल्लवितं चेदं मतमकिञ्चित्करमेव मनोविज्ञानदृष्ट्येति वयं मन्यामहे।

योरपदेशेऽसामान्यमनोविज्ञानविकासः

[सम्पादयतु]

यथा पूर्वमुक्तमस्माभिर्यद् योरपदेशे ख्रीष्टीयाष्टादशशताब्दयामायुर्वेदविज्ञाने प्रकर्ष- मुपगते ‘देवपितृकृता उन्मादादिदोषा समभिनिर्वर्तन्ते' इति मतं निराकृतम्। पाश्चात्त्यायुर्वेद- विज्ञानेन तदा साग्रहं प्रतिपादितं यद्ध्युन्मादादिदोषाः शारीरिकव्याधयो भवन्ति, यतो हि तेषां प्रादुर्भावो मस्तुलुङ्गीयमृदुनाङ्गीद्रव्याघातजन्यो भवति । तत उन्मादादिरोगग्रस्ताः पुरुषा विविधयातनाभ्यो मुक्तिमवाप्तवन्तः । तेषां कृते उन्मत्तशरणालयाः २ संस्थापिता जाताः, किन्तु तत्र तेषां दयनीयपरिस्थितिहेतोः परिरक्षणमेव क्रियते स्म ।

किं कारणं विशेषेणैतेषां रोगाणां भवति ? इति निश्चयाभावात् तदानीं ख्रीष्टीयाब्दस्य तच्चिकित्सायां प्रगतिविशेषोऽपि न जातः; किन्त्वेकोनविंशतिशताब्दीसमारम्भतो मनोविज्ञानरीत्या सामान्यमनोविकाराणामध्ययनं प्रवृत्तम्। तत्परिणामस्वरूपं चारकॉट-जैनेट’- फ्रायड प्रभृतिमनोविज्ञानपारङ्गतैः प्रयोगनैरन्तर्येण साधितं यदुन्मादादिमनोविकाराणां मूलं मनो- वैज्ञानिकमवश्यं भवति । तेषां चिकित्साऽपि मनोवैज्ञानिकरीत्यैवापादनीयेति । तेषां मतप्रचारेण असामान्यरोगिणां कृते सार्वत्रिको दयालुभावो मानवीयोदारदृष्टिश्च संवर्धिता । अधुना मनोवैज्ञानिकरीत्यैवासामान्यमनोविकाराणां चिकित्सा कुशलैर्मनोविश्लेषणज्ञैः सम्पाद्यते।

द्विविधा मानसिकरोगाः

[सम्पादयतु]

मानसिकरोगाणां वर्गीकरणं नितरां दुष्करं भवति । केचन रोगाः वंशपारम्पर्यायत्ताः, केचनान्ये वातावरणप्रभावात् प्रादुर्भवन्ति । केचन चान्ये पौष्टिक भोजनाभावे जायन्ते । केचन चान्ये चिन्तनसंवेदनप्रयत्नादिमनोव्यापाराणां परस्परं समन्वयाभावादभिनिर्वर्तन्ते। कारणानि प्रायोऽतिव्याप्तिदोषाकुलितानि भवन्ति । अतः कथं समीचीनं मनोविकाराणां वर्गीकरणं सम्पादनीयम् ! अस्तु तावदिदं वर्गीकरणम्; शरीरजा मानसिकरोगा मनोऽ- नवस्थव्यापारजन्याः, मानसिकरोगाश्चेति । यद्यपि शारीरिकविकारे जायमाने मानसिक- व्यपारानुगतदोषा अप्यभिनिर्वर्तन्ते, मानसिकव्यापारानुगतदोषेषु जायमानेषु च शारीरिकरोगा अवश्यमेव प्रादुर्भवन्ति; तथापीदं वर्गीकरणं विचारविवेचने महत्सौकर्य्यमावहति ।

यदा मस्तुलुङ्गावयवविशेषोपघातात्, अथवा शरीरावयवरोगस्य परिणामतः शरीरान्तर्गत- रासायनिकविषाक्तपरिवर्तनानि जायन्ते, किमुत रोगकृत्कोषाणुकानि रक्तप्रवाहे समुत्पद्यन्ते; तदा यदि केचन मानसिकरोगाः प्राकट्यं लभन्ते, दृष्टिगोचरा वा भवन्ति, तदा तद्विधानां मानसिकरोगाणां मूलं शरीरजमन्वेष्टव्यम् । किन्तु यदि दैनन्दिनमानसिकव्यापारेषु चिन्ता- प्रकर्षाद् इच्छाद्वन्द्वात् स्थायिभावसङ्घर्षाद्वा विचारेच्छाप्रयत्नादिषु किञ्चिदविशृङ्खलीकरणं विपर्यासं वा दृष्टिगोचरं भवति, अथवा व्यक्तित्वद्वैधीभाव एव प्रादुर्भवति, तदा ये येऽसामान्यमनोविकारा अभिनिर्वर्तन्ते, ते सर्वे मानसिकरोगा इत्यवसेयम्। न पूर्वोक्त- शारीरिकरोगाणां निदानचिकित्सादिकमधिकृत्य विवेचनसामान्यमनोविज्ञानप्रतिपाद्यान्तर्गतम्; किन्तु मनोव्यापारजन्यानां मनोविकाराणां निदानचिकित्सादिकमधिकृत्य सपरिकरविवेचन- मसामान्यमनोविज्ञाने त्विष्यत एव। वयं अथातो तदेवानुव्याख्यास्यामः ।

मनोविज्ञानपिपठिषुणा नूनमिदं स्मर्तव्यं यद्धि शारीरिकमानसिकरोगाणामन्योऽन्या- श्रयत्वं विद्यते । शारीरिकरोगाणां प्रभावाद् मनोव्यापाराणामस्तव्यस्तता प्रादुर्भवति । असामान्यमनोविकाराणां प्रभावाच्च शरीरावयवेषु विकाराः समभिनिर्वर्तन्ते। मनो- विश्लेषणादिमनोवैज्ञानिक विधिना यद्यपि शरीरावयवानां क्षतिः पूरयितुं न पार्यते, तथापि सा ह्रासोन्मुखी जायते । रोगिणां वैकल्यं शिथिलीकर्तुं कदाचन चापाकर्तुमपि क्षमते। अर्धाङ्गादिरोगेषु समुचितमनोवैज्ञानिकचिकित्सानुष्ठानात्तत्तदङ्गक्रियाकारित्वं पूर्ववदभिसम्पद्येत। मनोऽधिष्ठितत्वात् शरीरस्य साकूतमिदं वाक्यं भवति - "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” इति । शारीरिकाघातादिचिकित्सा तु नूनमायुर्वेदविधिना चूर्णवाटिकादिसेवनेन सम्पादनीयेति शेषः। असामान्यमनोविज्ञानमधीयाना मनोविश्लेषण- विधिना ये मानसिकान् रोगान् परिहर्तुं चिकित्सितुं वा कामयन्ते, तेषां कृते यदि किञ्चिदायुर्वेदज्ञानमपि सुलभं भवेत्, तत्तु नूनमिष्टमेव ।

असामान्यं मनोविज्ञानम्

[सम्पादयतु]

किं स्वरूपं तर्हि खल्वसामान्यं मनोविज्ञानम्? असामान्यं मनोविज्ञानमिति न विशिष्टं मनोविज्ञानाद् व्यतिरिक्तं विज्ञानम्; प्रत्युत मनोविज्ञानस्यैवाद्यावधि उपेक्षितैका शाखा। विगतपञ्चाशद्वर्षेषु यादृशी प्रगतिरसामान्यमनोविज्ञानेन फ्रायडमहाशयानां नेतृत्वे सम्पादिता, तया बालमप्यर्वाचीनं मनोविज्ञानं प्रौढमिव प्रतिभाति । सर्वं वैज्ञानिकं जगच्च तेनाभिक्ष्णं चकितदृष्टि दृश्यते। असामान्यमनोविज्ञानं सुतरां तावत् किं लक्षणम्? अत्रोच्यते-मनोव्यापाराणामसामान्यावस्थापरिशीलनपरं विज्ञानमसामान्यमनोविज्ञानम्। अथवा, मानसिकरोगाणां वैज्ञानिकपरिशीलनमसामान्यमनोविज्ञानम्। स्वस्थमनुष्याणां मनोव्यापारानधिकृत्य यदध्ययनं प्रवर्तते, तत्तु 'सामान्यं मनोविज्ञानम्' इति प्रख्यायते ।

किन्तून्मादापस्मारस्मृतिभ्रंशव्यक्तित्वद्वैधीभावादिरोगपीड़ितानां मनोव्यापारानधिकृत्य यदनुशीलनं मनोवैज्ञानिकपद्धत्या सम्प्रवर्तते, तद् 'असामान्यमनोविज्ञानम्' इति निगद्यते । मनोव्यापारानुद्दिश्य को हि खलु स्वस्थः सामान्यो वा जनः ? कश्चाऽसामान्योऽसाधारणो विलक्षणव्यक्तित्वयुक्तो वा स्वस्थो वा जनः ? इति सौकर्येण निश्चेतुं न शक्यते ।

असामान्यम्, सामान्यमिति पदद्वयं नहि कञ्चन मनोव्यापारविशेषमधिकृत्य प्रयुज्यते; प्रत्युत तस्यानुस्यूतिं प्रयत्नेच्छादिसर्वेषु मनोव्यापारेषु लभामहे । यदि कल्पना काञ्चन मर्यादामतिशेते, सा नूनमुन्मादाय रोगाय कल्पते । कव्युन्मत्तयोरस्ति हि सूक्ष्मतमो भेदः। कवेः स्वस्थं व्यक्तित्वम्, उन्मत्तस्याऽस्वस्थमिति वयं ब्रूमः । नहि कविरात्मानं ‘राजमहिषी' इति साभिनिवेशमभिमन्यते, यद्यपि स नाटके राजमहिषीपात्रस्य प्ररोचनां करोति; नाप्यभिनेत्री आत्मानं राजमहिषी साग्रहमभिनयानन्तरमभिमन्यते, नापि सा मार्जनपरायणा शूद्रा बालिकेवात्मानं सर्वदा राजमहिषीमभिमन्यते; किन्तु राजमार्गं मार्जन्तीं शूद्राम् - “अहं राजमहिषी ! मच्छासनात् मण्डलाधीशोऽप्यत्रैव पादप्रक्षालनं करिष्यति।

इमे मे केयूरे ह्यो विनिर्मिते जाते” इति ब्रुवन्तीं वयं पश्यामः । मानसिकरोगिणी । तस्या व्यक्तित्वं द्वैधीभावापन्नं किल सर्वदा नावतिष्ठते। सा तु मानसिकरोगिणी । तस्या व्यक्तित्वमस्वस्थमितीर्यते । सुतरां तावत् प्रतिमानसव्यापारविशेषमादायेदं वक्तुं शक्यते यदस्येदं रूपं सामान्यम्, इदं चास्य रूपसामान्यमिति। असामान्यमनोविज्ञानं नहि क्रमशः प्रक्रमते। सम्मोहनम्, स्वापे चङ्क्रमणम्, सङ्केतः व्यक्तित्वद्वैधीभावो वा विलक्षणमसाधारणं मनोव्यापारविशेषमादायासामान्यमनोविज्ञानीयं परिशीलनं परीक्षकैः समारभ्यते। एतादृशमनोऽवस्थाविशेषाध्ययनपूर्वकं फ्रायडप्रभृतिविदुषां जिज्ञासा तद्गवेषाणार्थं समुत्पन्ना । वयमत्र तेषां मतानि सविस्तरं प्रतिपादयिष्यामः ।

मेशमरमतम्

[सम्पादयतु]

१८१७ वैक्रमाब्दे आस्ट्रियादेशीयो मैसमरनामा विद्वान् मानसिकरोगानपस्मारा दिकान् हस्तद्वारा चुम्बकीयाकर्षणं प्रदाय रोगिणं सम्मोहनदशायां नीत्वा चिकित्सितुं समारब्धवान्। स विश्वविश्रुतां ख्यातिं लब्धवान्। तस्य सम्मोहनविधिः 'मेसमेरिज्म' इति व्यपदेशेन प्रथते। कथं नु पक्षाघातापस्मारादिरोगनिवारणं कर्तुं शक्यते सम्मोहनद्वारा ? इत्याशङ्कयायुर्वेदविदां महती अश्रद्धा जाता । फलत एक आधिशासनिकायोगः तद्विधिगुणगौरवलाघवं विनिर्णेतुं शासनेन नियोजितः । तस्मिन्नायोगे अमेरिकादेशीयफ्रांस-देशस्थराजदूतवैञ्जामिनफ्रैङ्कलिन' रासायनिकप्रवरलेवोजियर' प्रभृतयो वैज्ञानिका आसन्। तेनायोगेन निर्णीतं यन्मैसमरस्य सम्मोहनप्रभावाद्रोगचिकित्सा न जायते, प्रत्युत रोगिकल्पनाप्रभावादेषा सम्पद्यते। यद्यपि तदानीन्तनवैज्ञानिकैमैंसरमरमहोदयानां विधिर्न प्रशंसित:; तथापि तस्य गौरवं तदनन्तरं श्री चॉरकाटमहोदयेन नितरां प्राकट्यं नीतम्।

चारकॉटमतम्

[सम्पादयतु]

मैसमरपद्धतिमाश्रित्य नांसीस्थितलिबॉलेवर्नहेममहोदयाभ्यां बहुभिः प्रयोगैः सम्मोहनद्वारा अपस्मारजन्यान्धत्वार्धाङ्गसंज्ञाशून्यत्वमूर्च्छादिदोषाणां चिकित्सा सम्पादिता । सम्मोहनजन्यसमाधौ लिबॉलेमहोदया रोगिणं प्रत्यूचुः- “ तव रोगो दूरीभूतः” इति। आश्चर्यं महदेतद्यदेतावतैव तस्य रोगो दूरङ्गतः ।

एतस्मिन्नेवान्तरे चारकॉटमहाभागेन (१८८२ वै० १९५० वै०) पेरिसनगरे नाडीतन्त्रविषयकमानसिकविकाराणामध्ययनं समारब्धम् । तदानीन्तनः सर्वश्रेष्ठो नाडी- तन्त्रविशारदो हि स आसीत्। तस्य वैज्ञानिकक्षेत्रेषु बहुमानतया सम्मोहनस्य मनोवैज्ञानिक- व्यापाररूपत्वं निश्चप्रचं सिद्धं जातम्। तेनापस्माररोगस्य निदानं तज्जनितनाडीमण्डल- विक्रिया चेति सम्यक्तयावलोकितम्। अपस्मारमयं व्यक्तित्वं तन्मते यथा स्त्रीषु प्राचुर्य्येणो- पलभ्यते, तथैव पुरुषेषु। तत्प्राग्भाविजनाः पुरुषाणामस्मिन् विषये कश्चन विशेषोऽस्तीत्यमन्यन्त।

अन्यच्च, नांसीविचारस्य प्रत्याख्यानतया तैः प्रतिपादितं यदपस्माररोगस्य सम्मोहनं लक्षणमिति। येषु जनेष्वपस्मारोपशयो वर्तते, अपस्माराभिमुख्यमुपलभ्यते, तेषु तेष्वेव आपस्मारिकसमाधिर्जनयितुं शक्यते, नान्येषु।

किञ्च, चारकॉटमहोदयेन सम्मोहनदशायाः सोपानत्रयमपि प्रतिपादितम्। तद्यथा-

(क) आलस्यम्, निद्रालुत्वं प्रथमः सोपानः ।

(ख) मूर्च्छा, शरीरावयवस्तम्भनं च द्वितीयः सोपानः ।

(ग) व्यक्तित्वद्वैधीभावः तृतीय: सोपानः  । फ्रायड-जैनेटमहाभागौ चारकॉटमहोदयस्यैव शिष्यावास्ताम् ।

जेनेटमतम्

[सम्पादयतु]

जैनेटमहोदयेन बहुवारं प्रयोगान् कृत्वा प्रतिपादितं यद्धि सम्मोहनावस्थायामपस्मार- रोगी ताँस्तान् वस्तुविशेषान् पूर्वानुभूतान् स्मर्तुं प्रभवति, यान् यान् स सामान्यतः स्वस्थदशायां स्मर्तुं नार्हति। सम्मोहनदशायां सङ्केतंप्रभावाद् रोगानपाकर्तुमपि सोऽशक्नोत् । तन्मतेऽपस्मारो व्यक्तित्वविशृङ्खलीभावः, व्यक्तित्वद्वैधीभाव इति वाऽवगन्तव्यः । सामान्यव्यक्तीनां व्यक्तित्वं सङ्घटितं वर्तते, अपस्माररोगिणां नहि तथा। ननु कथं व्यक्तित्वं द्विधा त्रिधा वा विभज्यते ? असंश्लिष्टत्वं वापद्यते ? अस्य प्रश्नस्य समाधानं फ्रायडमहाभागैः करिष्यते ।

फ्रायडमतम्

[सम्पादयतु]

फ्रायडमहाभागैः सर्वोपरि मनोविश्लेषणवादं प्रतिपाद्य तदुपकारकत्वेनाज्ञात- चैतन्यस्य कारणचैतन्यस्य वोपकल्पनां प्रतिपाद्य यादृशी विश्वविश्रुता ख्यातिः सम्प्राप्ता, तादृशी केनापि मनोवैज्ञानिकेन तस्मात्प्राक् तदुत्तरं वा नैव लब्धा, विदुषां चेतांसि वा भृशमान्दोलितानि ।

मनोविश्लेषणवादाख्यं मतमर्थद्वये प्रयुज्यते। प्रथमतोऽनेन मनोवृत्तीनां गवेषणाया विधिविशेषोऽभिव्यज्यते, येन रोगिणो मनोव्यापाराणां विश्लेषणमाश्रीयते। अस्मिन्नर्थे मनोविश्लेषणपदमन्यैर्मनोविज्ञानसम्प्रदायैरपि प्रयुज्यते । द्वितीये विशिष्टेऽर्थे मनोविश्लेषण- मिति पदं रोगिणां मनोविश्लेषणेन सम्प्राप्तसामग्र्याः सुनिश्चितसिद्धान्तानामनुसारमनु- व्याख्यानम्। ‘सुनिश्चितसिद्धान्त' इति पदेन प्रतितन्त्रं प्रतिपादितसिद्धान्तेभ्यो व्यावृत्तलक्षणा: सिद्धान्ता इत्यवगन्तव्यम्। द्वितीयेऽस्मिन् विशिष्टेऽर्थे प्रयुज्यमानस्य मनोविश्लेषणशब्द- स्यानुव्याख्यानं प्रथमं तावत् करिष्यते ।

फ्रायडमहोदयानां मतानुसारं मनो नैसर्गिकप्रवृत्तिभिरनुप्रेरितं भवति । एता: प्रवृत्तयः सर्वदा स्वकीयामभिव्यक्तिमवाप्तुं यतन्ते । एवम्प्रकारेण सामाजिकवातावरणेन सह तदुपयुक्तोत्तरदायित्वनिर्वाहार्थं नैसर्गिकप्रवृत्तीनां सङ्घर्षो जायते । सुतरां तावद् मनसश्चैतन्यस्य वा यो भागो बाह्यवातावरणेन सह सम्पृक्तो भवति, क्रमशः शिक्षणेनाभ्यसनेन च लाभान्वितो जायते, नैसर्गिकप्रवृत्तीनां नियन्त्रणं च सम्पादयति । यस्या नैसर्गिकप्रवृत्तेर्नियन्त्रणं सामाजिकोत्तरदायित्वेन सहानुकूल्योपपादनं चापाद्यते, सा फ्रायडमते ‘कामप्रवृत्तिः’ इत्यच्यते। तदर्थं फ्रायडमहाभागा 'लिबिडो' इति पदं व्यवहरन्ति । व्यावहारिकजगता सम्पृक्तो यो मनसो भागो नैसर्गिकप्रवृत्तिमभिभूय सभ्यतासंस्कृतिसदाचारादिकं शिक्षते, स 'अहङ्कार' इति पदेन व्यपदिश्यते। अहङ्कारपदस्य पर्यायवाचकः शब्दः 'ईगो' इति फ्रायडमहाभागस्य ग्रन्थेषु प्रथते ।

कामप्रवृत्तिनैसर्गिकस्वरूपत्वादात्माभिव्यक्तिं सततं चिकीर्षति । निखिलो मानव- व्यवहारस्तन्मते कामप्रवृत्तिमूलः । बलवत्तमा हि सा प्रवृत्ति: । फ्रायडमहोदयाभिमतं कामप्रवृत्तेर्यद्रूपम्, तत्तु नूनं व्यापकतरम् । तन्मते नहि केवलं लोकव्यवहारानुगत- काममूलप्रवृत्तिं कामप्रवृत्तिः सूचयति, प्रत्युत सर्वाणि यानि कामप्रवृत्तेर्विकृतानि रूपाणि, तान्यसामान्यमनोऽवस्थासु प्राकट्यं लभन्ते। यानि वा कामवृत्तेः परिशोधनेन परिमार्जितानि रूपाणि, यानि च कामवृत्तेः साधनभूतानि परिपोषकाणि वा भवन्ति, यथा- वात्सल्यम्, रागद्वेषौ, अथ च स्त्रीपुरुषाणां परस्परं सम्बन्धनिर्वाहकाः सर्व एव संवेगस्थायिभावादयः, कामप्रवृत्तिकुक्षावन्तर्भावयितुमिष्यन्ते। ननु कथमेतत्सर्वं कामपदेनाभिव्यञ्जयितुं शक्यते? अत्रोच्यते-फ्रायडमते कामप्रवृत्तिशून्यान्यपि सर्वाणि लोकव्यवहाररूपाणि मूलतः कामप्रवृत्तेरेव परिवर्तितानि रूपाणि, नेतराणीति बोद्धव्यम्। कामश्च मूलत: स्त्रीपुरुषयोः पारस्परिकाभिलाषरूपः ।

सुतरां तावल्लोकव्यवहारे प्रयुज्यमानस्य प्रीतिशब्दस्य व्यापकतमोऽर्थः फ्रायड- महोदयाभिमत इत्यवसेयम् । प्रीतिशब्दार्थे सर्वाः शारीरिकमानसिकविचेष्टा अन्तर्भाव्याः ।

फ्रायडमते बालविकासः

[सम्पादयतु]

मनोविश्लेषणवादानुसारं पूर्वलक्षणानां निर्धारणे फ्रायडमहोदयैः प्रतिपादितानां बालविकाससम्बन्धिमतानां गौरवं नितान्तं परिलक्ष्यते । प्रारम्भकाले बालकस्य सर्वे व्यापारा मूलप्रवृत्तिजन्याः । दुःखं परिहातुमिन्द्रियजन्यं सुखञ्चोपादातुं शिशोः सर्वाः क्रिया: प्रवर्तन्ते; किन्तु कालक्रमात् चैतन्यविकासेन बाह्यवातावरणसम्बन्धिज्ञाने बालकस्य प्रतिक्रियासु किञ्चित् परिवर्तनमापद्यते। बाह्यवातावरणोपयुक्ताः कदाचन मूलप्रवृत्तिजन्याः प्रतिक्रिया विहाय तद्विलक्षणाः क्रियाः प्रादुर्भवन्ति, यासु सुखोपेक्षया दुःखातिरेको भवति। अतो दुःखानि कष्टानि वा सोढुं बालकोऽभ्यस्यति - स्वभ्रात्रे फलानि कथं प्रदेयानीति स्वीयांशादपि तदा स तस्मै वितरितुमारभते ।

सुतरां तावद् बालकस्य द्विविधं क्रियाजातं भवति- प्रथमप्रकार के क्रियाजाते इन्द्रियसुखप्रदानामनियन्त्रितानां क्रियाणां समावेशो भवति। द्वितीयप्रकारके क्रियाजाते बालकस्य बुद्धिविकासो जायते, प्रथमप्रकारकक्रियाणां नियन्त्रणं सञ्जायते। प्रथमवर्गान्तर्गताः क्रियाः कामप्रवृत्तिजन्याः । द्वितीयवर्गीयाश्च क्रिया अहङ्कारनियन्त्रिता वस्तुसंसारेण सहानुकूल्यस्थापनाभिमुख्यो भवन्ति। अहङ्कारस्तर्हि नैसर्गिकप्रवृत्तिं बाह्यपरिस्थित्यानुकूल्योपस्थापनाय परिमार्ष्टि, प्रेरयति, नियन्त्रितां वा करोति । यद्यावश्यकता भवेत्, कामप्रवृत्तेरवदमनमपि नूनमहङ्कार एव करोति ।

बालकस्य विकासस्तर्हि बालकस्य कामप्रवृत्तेर्विकासः। फ्रायडमतानुसारमेव बालकस्य कामप्रवृत्तिरिति वयं ब्रूमः । शैशवे कामप्रवृत्तिरनिर्दिष्टा असंस्कृता प्रारम्भिकी वा भवति; किन्तु सा अन्ततोगत्वा चतुरस्रं विकसिता भूत्वा प्रौढमानवस्य कामप्रवृत्तिरूपतामाधत्ते ।

कामप्रवृत्तेर्विकासोऽनुरागविषयमधिकृत्य, अनुरागस्थलमधिकृत्य चेति द्वेधाऽन्वेष्टुं शक्यते ।

कामवासनायाः स्थलानुबन्धिविकासः

[सम्पादयतु]

शिशोः कामप्रवृत्तिरिन्द्रियविषयाभिमुखी सती सर्वतः प्रसंरा, अस्पष्टा निर्विशेषा वा भवति। निखिलत्वक्क्षेत्रं परिव्याप्येयमवतिष्ठते । अचिरादेवेयं केषुचित् स्थलविशेषेषु केन्द्रिता जायते। तानि स्थलानि कामप्रवृत्त्यनुकूलस्पर्शसुखसंवेदनार्हाणि भवन्ति । अव्यवस्थितनिर्विशेषकामप्रवृत्त्यनन्तरं द्वितीयावस्था समायाति, यस्यां कामप्रवृत्ति: मुखे केन्द्रिता जायते। तस्या अपि प्रथमकोटौ शिशुः सर्वाणि वस्तूनि मुखे प्रवेशयितुमिच्छति, तत्र च तद्वस्तुसन्धारणं तेन प्रयत्यते । इयं कोटिः 'रचनात्मिका' इतीर्यते। तत्पश्चाद् भाविन्यामपरायां कोटौ वस्तूनां विदारणम्, विशरणम्, परित्यागश्चेति शिशुना प्रयत्यते।

इयं कोटिः ‘विनाशमयी’ इत्युच्यते। फ्रायडमते एतयोः कोट्योस्तस्या नृशंसप्रवृत्तेर्मूलबीजं निहितं. वर्तते। यस्यां मानवोऽन्यस्मै दुःखं प्रदाय स्वयं च कष्टं प्रदीयमानं सोढ्वा ऐन्द्रियं सुखमनुभवति। अत्र कष्टप्रदाने सुखानुभूतिः 'साडिज्म', प्रदीयमानकष्टसहनम् ‘मैसोकिज्म” इति संज्ञया आङ्गलभाषायां प्रथते । यौवने दृश्यते चैषा प्रवृत्तिः प्रणयाङ्गत्वेनो- पलभ्यमाना, यथा काऽपि स्त्री पतिप्रेमाभावमध्यवस्यति ; यतो हि स पूर्ववत् तां प्रतिशनिवासरं नैव ताडयतीति ।

तदनन्तरं कामप्रवृत्तिः गुदस्थानं परितः केन्द्रिता जायते। गुदस्थानीयकामप्रवृत्तेरपि द्वे कोटी भवतः - कामप्रवृत्तिरत्र फ्रायडमहाशयोक्तविस्तृतार्थे प्रयुज्यते । प्रथमायां कोटौ ‘विनाशमयी कामप्रवृत्ति: ४" इत्युन्मेषं लभते । तदनन्तरं धारणात्मिका, रचनात्मिका वा“ कामप्रवृत्तिः समुदेति; सेयं द्वितीया कोटि: गुदस्थानीयकामप्रवृत्तेः । तत्पश्चात् सर्वा कामप्रवृत्तिः जननेन्द्रियस्थाने सुनिहिता केन्द्रिता वा जायते ।

एवम्प्रकारेण कामप्रवृत्त्यनुभूतेः शरीरावयवविशेषानुसारं षड् रूपाणि भवन्ति । तानि यथा-

(१) अव्यवस्थितस्थलत्वम्।

(२) प्रारम्भिकमुखानुशयित्वम् ।

(३) औत्तरकालिकमुखानुशयित्वम् ।

(४) प्रारम्भिकगुदस्थानीयत्वम्।

(५) औत्तरकालिकगुदस्थानीयत्वम् ।

(६) जननेन्द्रियानुशयित्वम् इति ।

प्रणयविषयस्य चयनम्

[सम्पादयतु]

प्रारम्भकाले शिशोः कामप्रवृत्तिरव्यवस्थिता निर्विशेषविषया च भवति। आत्मेतरत् किञ्चिदपि तदर्थं नैव विद्यते। आत्मनोऽपि तदात्मत्वेन प्रतीतिर्नैवाऽनुभूयते । तदानीं शिशोरात्मकामोन्मुख्यः सर्वाः क्रियाः, यद्यप्यात्मानं वस्तुरूपतया स न जानाति । 'आत्मसुखे सुखानुभूतिः' इति आत्मकामत्वम् । तदनन्तरं शिशुरात्मानं पदार्थान्तरेभ्यः पृथक्त्वेन ज्ञातुमारभते । यद्यपि तदापि स आत्मानमेव परमप्रेमास्पदत्वेनानुमन्यते। स्वात्मन्येव स्निह्यति । तदास्यावस्था 'नार्सिसीया' इति निगद्यते । 'नार्सिसस' इति यवनदेशीयपौराणिकवाङ्मये कश्चन युवा आसीत्, यो नित्यमात्मप्रशंसायामेव निमग्न आसीत्। तदभिधानादियमात्मप्रशंसनपरा शिशोः कामप्रवृत्ति: 'नार्सिसीया' इत्यभिधीयते।

आत्मप्रदर्शनम्, स्वशरीरस्य पेशलावयवानां प्रकटीकरणम्, अन्येषां प्रशंसामवाप्तुकामत्वं चेति आत्मकामस्य लक्षणत्रयम् । तदनन्तरं कामरुचिर्हि अन्यान् पुरुषान् प्रति प्रेरिता जायते। तत्रापि प्रथममात्मदृशान् पुरुषानेव प्रेमविषयत्वेनावचिनोति । सेयमवस्था ‘स्वलैङ्गिकासक्तिः” इति व्यपदिश्यते, यतो ह्यस्यां बालकस्य प्रेमविषयीभूतो बालक एव भवति, बालिकायाश्च बालिकैवेति । तदनन्तरं बालको युवा जायते । एतस्मिन्नेवान्तरे तस्य प्रेम आत्मेतरलैङ्गिकासक्ति रूपमभिनिर्वर्तते । तदा प्रौढस्य इव तस्य यूनः प्रेम स्त्रियं प्रति समाकृष्यते, स्त्रियाश्चानुरागः पुरुषं प्रति केन्द्रीभवति ।

कामप्रवृत्तेर्विषयानुसारं तर्हि निम्नलिखिताः क्रमशो भेदा अभिनिर्वर्तन्ते। ते यथा-

१) निर्विशेषविषयप्रेम |

(२) विषयासक्तिः ।

(३) आत्मप्रेम।

(४) स्वीयलैङ्गिकसादृश्यान्वितव्यक्तिप्रेम।

(५) स्वेतरलैङ्गिकसादृश्यान्वितासक्तिरिति।

कामप्रवृत्तेर्विषयानुसारं कामोत्तेजनाशीलस्थलविशेषानुसारं वा भेदान् विमृश्याऽस्माँस्त्विदं प्रतिभाति यत् कामप्रवृत्तेः क्रमशो विकासो जायते। यद्येकां विकासभूमिं पारयित्वान्यां विकास भूमिमधिरोहति, तर्हि पूर्वस्या भूमेः सुष्ठुतरं क्रियाकलापसम्पादन- मतीवावश्यकम्। उदाहरणतः स्वलैङ्गिकासक्तिमतीत्य स्वेतरलैङ्गिकासक्तिभूमौ यदा कश्चन पुरुषोऽवतरति, अर्थात् पुरुषप्रेम विहाय यदा स्त्र्ययभिलाषस्तस्य चेतसि जागर्ति, तदा कामप्रवृत्तेः पूर्वरूपस्य निरिन्द्रियीकरणमभिनिर्वर्तते । कामप्रवृत्तेरेकस्मिन् रूपेऽपक्षीयमाणे सति नूनमन्यरूपस्य विकासः सम्भाव्यते, अथवा, एकस्य कामप्रवृत्ति - भूमिविशेषस्योन्नयनं सम्पाद्यते। यद्यत् कामवृत्ते रूपं मानवः सामाजिकवातावरणप्रतिकूल- मभिमन्यते, अयुक्तमसमीचीनं वा नीतिशास्त्रदृष्ट्या, तत्तद् हातुं प्रयतते । अर्थात् समाजहितविरोधिनीनामसंस्कृतानां मूलप्रवृत्तीनामवदमनं क्रियते, साधुप्रवृत्तिरूपाणि चाधीयन्ते, अर्थाद् विहितकर्मभूमिषून्नयनं सम्पाद्यते ।

यदा चेदमुन्नयनं सम्यक्तया जायते, व्यक्तित्वं सङ्घटितमेकीभावापन्नमेवावतिष्ठते। यदा चेदं परिवर्तनमेकस्मात् विकासस्तराद् द्वितीयं विकाससोपानोन्मुखं स्खलितं जायते, दुष्टं भवति, तदा नूनमनेके मानसिकविकारा अभिनिर्वर्तन्ते। फ्रायडमहोदया मन्यन्ते यदवशिष्यमाणस्वलैङ्गिकासक्तिरेव सामाजिक- व्यवहारानुगतपुरुषाणां पारस्पस्किसहानुभूतिं जनयति । स्वेतरलैङ्गिकानुरक्तिरेवोत्तरकालिक- परलैङ्गिकासक्तेर्मूलमिति ।

बालकस्य पितरौ प्रति सम्बन्धः

[सम्पादयतु]

बालकस्य विकासप्रसङ्गे तस्य मातापितृभ्यां सह सम्बन्धोऽपि विवेचनमर्हति । नूनं माता पोषयति, पिता च संरक्षति शिक्षयति च । अतस्तयोर्भूयिष्ठः प्रभावो बालकस्य विकासे जायते । यदा बालकस्य पितृभ्यां विच्छेदो जायते, तदा बालकः पितृसदृशान् पुरुषान् मातृसदृशीर्वा स्त्रियः स्निह्यति, ताभि: प्रेमालापं कर्तुमिच्छति । अत्रेदं स्मर्त्तव्यं यन्मातृसम्बन्धविच्छेदः पितृसम्बन्धविच्छेदो वा क्रमश एव करणीयः; न तु बलात्, दुर्धर्षपरिस्थितिवशाद्वा । येषां व्यवहाराविचाराः पितृसदृशाः, येषां व्यवसायो वा भाषणं वा पितृसमानं भवति, तैः सह स बाल्ये वर्तयितुम्, गन्तुम्, व्यवहर्तुं चेच्छति । अत एव मातापितृभ्यां स्नेहपरिवर्तनं पितृव्ये, ज्येष्ठभ्रातरि, गुरुजने च सौकर्य्येणाऽभिनिर्वर्तते। यदि च बालकः स्वपितरं द्वेष्टि, तर्हि भाविनि जीवनेऽध्यक्षेण सह विरोधस्तस्याभीक्ष्णं जायते, अधिशासनेन सह, सर्वैरवाधिकारिभिः सह वा तस्य विरोधो जायते ।

अन्यच्च, बालकस्य स्वेतरलैङ्गिकासक्तिः सर्वप्रथमं मात्रा सह जायते । फ्रायड- महाशयस्य मते मातृप्रेमापि कामप्रवृत्ते रूपम् । प्राय इदं प्रेम गभीरं वर्तते । फलतः स्वसदृशलैङ्गिकासक्तिसम्पन्नः पिता तस्य कोपभाजनत्वमापद्यते। किं वा स्वपितरं प्रति स्वप्रतिद्वन्द्विनमिवाचरति। इदं हि खलु फ्रायडाभिमतं 'ओडिपस भावग्रन्थि : ' इत्यभिधीयते। ‘ओडिपस' इति नामक एक: प्राचीनो यवनदेशीयाधिप आसीद् यः स्वपितरं हत्वा स्वमात्रा सह व्यवायं चकार । भावग्रन्थिश्च विषयविशेषमभितो विचारभावप्रयत्नादीनां सङ्घटनमिति। मनोविश्लेषणवादे 'भावग्रन्थिः' इत्यर्थवैशिष्ट्यमावहति । भावग्रन्थि- स्तदनुसारमवदमनविषयीभूतानां प्रवृत्तीनामनवबुद्धं रूपम्। सुतरां तर्हि ओडिपसभावग्रन्थिः सुप्तेवावतिष्ठते, तस्या मूलरूपमज्ञातमेव वर्तते, अत एव बालको मातृस्नेहस्य गभीरस्य रहस्यं नैव ज्ञातुमर्हतीति ।

अन्यच्च, यदा अवदमनं सम्पाद्यते, तदा बालको न जानाति किमपि तस्या- वदमनविषयीजातं न वेति। नूनमवदमनं नाम इच्छाविशेषस्य अज्ञातचैतन्ये कारणचैतन्ये वर्णितचरे तिरोधानम्, तच्च नैव सम्पादयितुं शक्यते, यदि वयं जानीमो यद्वयमस्येच्छा- विशेषस्य अवदमनं कुर्म इति; यतो हि खल्विच्छाया अवदमने ज्ञायमाने सति तदवदमनं तत्तिरोधानं वा नैव कर्तुं शक्यते । अपरथा ध्यानैकाग्र्यात्तस्य स्मृतिस्थायित्वमापद्यते । नहि वयं विस्मर्यमाणं किञ्चिदपि जानीमः।

एतस्मादिमायाति यदज्ञातचैतन्ये किञ्चिदेतादृशं वस्तु वर्तते, यद् वयं न जानीमः, येन चाज्ञातेनापि वयमवदमनार्थं प्रेरिता भवामः । तच्च वस्तु सद्भूतमस्माकं शुद्धात्मा आत्मादर्शो वा भवति । स च व्यवहारा- नुगताहङ्कारव्यतिरिक्तोऽज्ञातचैतन्ये कारणचैतन्ये वा वर्तमानस्तद्रूपतया वाऽवतिष्ठते । अहङ्कारस्तु लौकिकानुभवशिक्षणसमुद्भूतम्, जाग्रदवस्थायां प्रतिक्षणं ज्ञायमानं ज्ञातं वा चैतन्यमाप्तलोकानुकूल्यमिति । किञ्च, अज्ञातचैतन्यं कारणचैतन्यं वा बुद्धावनुद्भूतायामविकसितायां सत्यां बाल्ये पितृप्रभावेण तेषां नियन्त्रणेन निषिद्धकर्मवर्जनं च संस्कारो- पचयादभिवर्धते। पितृनिर्दिष्टादर्शाः सुकुमारमतिना बालकेन युक्तिपूर्वकं नात्मसात् क्रियन्ते । अत एव ते रमणीया अपि तेनाज्ञातचैतन्य एवाधीयन्ते, तिरोधीयन्ते इति यावत्।

स्थिरीकरणम्, प्रत्यावर्तनं च

[सम्पादयतु]

कामवृत्तिविकासः स्वाभाविकक्रमेण यदि न जायेत, तर्हि कामवृत्तेः स्थिरीकरणं प्रत्यावर्तनं वा सञ्जायते। तदेवम्प्रकारेणाभिसम्पद्यते - यदि कस्मिन्नप्यवस्थाविशेषे बालकस्य कस्यचिन्नैसर्गिकप्रवृत्तेः निरोधः क्रियेत, तस्य कार्य्याणामिच्छाविशेषाणां च निन्दा भृशं जायेत, तर्हि तदा बालकस्तस्य शक्तिवेगस्योन्नयनं कर्तुं समीचीनमवसरं न लभते, यतो हि तिरस्कारोपहतचित्तः स जायते । एतावता तस्येच्छाया अन्यत्रान्यस्मिन् विषये सन्धानमपि न सम्पादयितुं शक्यते, मनोदौर्बल्येन चित्तविक्षेपेण वा स नैव कर्तुं प्रभवति। अतस्तस्यासामाजिककामप्रवृत्तेरवदमनमज्ञातचैतन्ये कारणचैतन्ये वा तिरोधानेन वाऽभिनिर्वर्तते। तत्र तस्या अवस्थानमज्ञातं सक्रियत्वेन युक्तं भवतीत्यवधार्यम्।

यदा नियन्त्रिता अहङ्कारशक्तिर्दुर्बला जायते, तदा अवदमनविषयीभूता वेगा इच्छासङ्कल्परूप- विशेषा व्यक्तित्वविस्फोटं सहसा आपादयन्ति । विविधा मानसिक विकारास्तदानीमभि- निर्वर्तन्ते। बाल्यकालिकेच्छाविषयेषु तस्यानुरागः स्थिरीभवति, शैशवोचितक्रियास्वेव तस्य मनस्कारोऽनुरज्यते। ततः परं तत्प्रवृत्तेः परिशोधस्यावसरो नायाति। अतो वयं ब्रूमः-‘तदा तस्य शैशवकालिका इच्छाप्रवृत्तिविशेषाः स्थिरा जाता:' इति। तेषामविकसितं रूपमसामान्यमनोविकार एव । सामान्यतया स्वस्थपुरुषे तस्योन्नयनं विकासरूपं स्वत एव जायते। सुतरां स्थिरीभूता शैशवकालिकी प्रवृत्तिर्भाविमनोविकारस्यानुकूल्यं प्रदत्ते, येन कदाचनापि निरोधशक्तिरूपाहङ्कारस्यावदमनविषयीभूतानुचितप्रवृत्तेश्च सङ्घर्षे सञ्जाते घोरासामान्यमनोविकाराणां पूर्वलक्षणानि प्राकट्यं लभन्ते । अतिदुर्घर्षमानसिकसङ्घर्षे समुपस्थिते स स्वकीयां रुचि तेषु तेषु कार्यविशेषेषु प्रवर्तयति येषां सुखावहत्वं शैशवेऽनुभूतचरम्। स शैशवोपयुक्तरुचिकार्यादिषु प्रत्यावर्तनं करोति, तेषु पुना रमते तदनुकूलामभिव्यक्तिं व्यवहारेष्वाचरति च। एतदेव 'प्रत्यावर्तनम्' इत्यसामान्यमनोविज्ञाने प्रथते। मानवोऽव्यक्तानामवदमनविषयीभूतानां प्रवृत्तीनां सक्रियत्वात् शैशवकालिकेच्छाप्रवृत्त्यादिकमभि प्रत्यागच्छति, पुनरावर्तते; एतस्मादेव 'प्रत्यावर्तनम्' इत्यसामान्यमनोविकाररूपं फ्रायडमहोदयानां मते सुप्रथितम् ।

स्थिरीकरणेन प्रत्यावर्तनेन च कानि कान्यसामान्यमनोविकाररूपाणां पूर्वलक्षणानि प्रादुर्भवन्तीति वयमनुव्याख्यास्यामः ।

उदाहरणंत आत्मकामाख्यावस्थाया नार्सिसीया- वस्थायाश्च स्थिरीकरणमेवोन्मादग्रस्तेषु रोगिषु प्रायेणोपलभ्यमानानां हस्तमैथुनप्रभृतिदुष्प्रवृत्तीनां मूलबीजम्। यद्यपि सामान्यत इदमुररीक्रियते यद् हस्तमैथुनं प्रतिशतं नवतिसंख्याकेषु सामान्यपुरुषेषु (९०%) प्रायेण मृदुमात्रायामुपलभ्यते । स्त्रीष्वप्यस्य प्रचारो वर्तते। अमेरिकादेशीयासु २२०० मध्यमवर्गीयासु महिलासु या एकाकिन्य आसन्, तासु प्रतिशतं पञ्चोत्तरषष्टिसंख्याकासु स्त्रीषु ( ६५%) अन्यासु च विवाहितासु प्रतिशतमष्टोत्तरत्रिंशत्स्त्रीषु (३८%) हस्तमैथुनमुपलभ्यते । सुतरां कामवृत्तेर्विकासस्या- वस्थाविशेषे हस्तमैथुनाचरणमसामान्यं नास्ति, किन्तून्मत्तस्य हस्तमैथुनाचरणे यदसामान्यं वैलक्षण्यं वर्तते, तत्तु निर्लज्जतया, सर्वेषां समक्षतः, भूयोभूयः, प्रबलवेगानुरोधेन च हस्तमैथुनाचरणम्।

हस्तमैथुनेऽयमेव दोषो यदिदं स्वाभावविकामप्रवृत्तिमार्ग सङ्कोचयति, रुणद्धि' वा; यथा हस्तमैथुनाभ्यास्तानां पुरुषाणां स्त्र्यभिलाषोपरोधो जायते। अन्यच्च हस्तमैथुनाचरणेन जनिता चिन्ता अभीक्ष्ण्येन चित्तं दुःखाकरोति, पापभावना च सततमनु- भूयते तेन, यो हस्तमैथुनमभ्यसति । नारसिसीयावस्थायाः स्थिरीकरणमपि खल्वेम्प्रकारेण भिन्नव्यक्तित्वोन्मादे' उपलभ्यमानायाः स्वीयचिन्तननिमग्नतायाः प्रत्युत्तरं दातुमसमर्थतायाः मूलकारणं भवतीति बोद्धव्यम् । आत्मविषय एव ध्यानं नितान्तं केन्द्रितं भवति । अतो बाह्यसंसारस्य वस्तुचिन्तनाय ध्यानप्रेरणं दुःशकम् ।

स्वलैङ्गिककामेच्छायाः प्राभावोऽपि मनो दूषयति, कियन्मात्रायामस्याः साफल्य- पूर्वकं परित्यागः कृतो न वेति । सफलः परित्याग इति कामवृत्तेः परिशोध एव । सामान्यजनेषु यथा पुरुषेषु तथैव स्त्रीषु-स्वलैङ्गिककामेच्छा उपलभ्यते; किन्तु येषां जीवने सा स्थिरीभूता जायते, तेषां स्वेतरलिङ्गिष्वासक्त्यभावो नितरां जायते ।

एवम्प्रकारेण कामप्रवृत्तेः स्थिरीकरणं स्थलविशेषमधिकृत्यापि जायते । चुम्बनगौरवं कामप्रवृत्तेर्मुखसम्बन्धिस्थलविशेषमधिकृत्य उन्नेतुमर्हम्। यदि च मुखसम्बन्धिकामप्रवृत्तेर्ध्वंसा- त्मकरूपमवशिष्यते, तर्हि नखक्षतदन्तक्षतादिव्यवहारेषु तस्यावशिष्टं रूपं तदनन्तरमपि प्रचलति। मुखसम्बन्धिकामप्रवृत्तेर्मृदुमात्रं रूपं चोषणीयदन्तकर्तनाद्यभ्यासेषु धूम्रपानादिषु चोपलभ्यते।

उन्मत्तपुरुषाणां निर्गलनप्रवृत्तिः सूचयति यदेतद् मुखसम्बन्धिकामप्रवृत्तेरवशिष्टं रूपम्। गुदस्थानीयकामवृत्तेर्विकासोऽप्युन्मादस्य बहूनां पूर्वरूपाणां मूलम्। सन्धारणात्मकं गुदस्थानीयकामप्रवृत्ते रूपमवसादोन्मादग्रस्तेषु' मलावरोधभ्रान्ति जनयति। विसर्जनात्मकं गुदस्थानीयकामप्रवृत्तेर्ध्वशीलं रूपमुन्मत्तपुरुषाणां मलेन गृहभित्तीनामवलेपने सगुपलभ्यते। अथवा, यदा उन्मत्तपुरुषा ब्रुवन्ति - “सर्वमस्माकं भोजनं यथापूर्वं निर्गच्छति” इति।

सुतरां फ्रायडमहोदयमते कामप्रवृत्तिरूपं नितान्तं व्यापकं वर्तते। यस्मिन्नङ्गुष्ठ- चोषणम्, शिशुना मुखे वस्तुग्रहणम्, अभ्यङ्गम्, हस्तपादप्रक्षेपणम्, मलविसर्जनम्, मूत्रत्यागः, सम्भोगः–इत्यादिविविधक्रिया अन्तर्भाव्यन्ते । कलाप्रेम, मित्रप्रेम, सङ्गीतप्रेम, पितृप्रेम, भ्रातृप्रेम, स्थावरजङ्गमप्रेम-इत्यादीनि सर्वाणि कामप्रवृत्तिरूपाण्येवेत्यभिमतं तत्रभवतां फ्रायडमहाभागानाम्।

उपसंहाररूपेणेदं वक्तुं शक्यते यद्धि फ्रायडमतस्याधारभूतं मतत्रयम्। तद्यथा—

(अ) अवदमनस्य महत्त्वम् ।

(आ) कामप्रवृत्तेर्गौरवम्।

(इ) बाल्यकालस्य संस्कारशालित्वं चेति ।

मनोविश्लेषणवादावशिष्टान्यङ्गान्यग्रतोऽनुव्याख्यामः ।

त्रिविधं चैतन्यम्

[सम्पादयतु]

फ्रायडमहोदयानां मते चैतन्यं त्रिविदं भवति। तद्यथा-चैतन्यम्', पूर्ववर्तिचैतन्यम्”,

अज्ञातचैतन्यं चेति'। चैतन्यं नाम जाग्रच्चैतन्यम्। पूर्ववर्तिचैतन्यं नाम चैतन्यविशेष:, यो यद्यपि वर्तमानकाले ज्ञायमानो नावतिष्ठते, तथापि तस्य प्रत्युद्बोधनप्रत्यभिज्ञानाख्यं- सरलमानसक्रियाभ्यां प्रत्यक्षं कर्तुं शक्यते । अज्ञातचैतन्यं नाम चैतन्यविशेषः, यो न केवलं वर्तमानकाल एव ज्ञायमानो नावतिष्ठते; प्रत्युत तस्य साधारणसाधनैर्ज्ञानं कर्तुं न शक्यते। अज्ञातचैतन्यचैतन्ययोरन्तरालेऽज्ञातचैतन्यपूर्ववर्त्तिचैतन्ययोर्मध्ये च व्यवधानं वर्तते, यद् व्यतीत्य साक्षान्मार्गों ज्ञातचैतन्यादन्यचैतन्यमभि नैवोपलभ्यते, किन्तु यद्यज्ञातचैतन्यानुगतक्रिया विकलाः, परिवर्तिताः, विरूपा वा जायेरन्, तर्हि तं व्यवधानविशेषं व्यतीत्य ता बहिर्गन्तु शक्नुवन्ति । बहिरिति जाग्रच्चैतन्यम्। चैतन्यात् पूर्ववर्तिचैतन्याच्च अज्ञातचैतन्यं प्रति यो मार्गो भवति, तद् 'अवदमनम्' इत्याख्यायते। व्यवधानं च प्रागुक्तं प्रतिरोधो विरूपकारिमाध्यमविशेषो भवति ।

जाग्रच्चैतन्यं यथा विशालमस्माभिर्मन्यते तथा नैव विद्यते । चैतन्येऽस्माकं सङ्कल्पविकल्पस्मृतिकल्पनादिकमन्तर्भाव्यते; किन्तु फ्रायडमहोदया अभिमन्यन्ते यदज्ञातचैतन्यं चैतन्यापेक्षातोऽतिविशालक्षेत्रम्, यस्मिन् महाकोशे अज्ञातकालादागताश्चिर- सञ्चिता वासना नैसर्गिकप्रवृत्तयश्च तिरोधीयन्ते । सामाजिकनैतिकमर्यादातिक्रमणपरा विगर्हिताः प्रवृत्तिवेगा निरन्तरमज्ञातचैतन्याद् व्यवधानमतीत्य चैतन्यक्षेत्रे प्रवेष्टुं प्रयतन्ते । तत्र अहङ्कारश्चैतन्यदेहल्यां तेषां प्रतिरोधं करोति, प्रवेशात् सततं निवारयति। यदि ते वेगा: प्रबलतरा भवेयुः, तर्हि ते मानसिकसङ्घर्षं व्यक्तित्वद्वैधीभावादिकमानसिकविकारान् वा जनयन्ति। अत्रेदं स्मर्त्तव्यं यत् फ्रायडमते प्रतिपादितैर्विश्वतैजसप्राज्ञैस्त्रिविधचैतन्यरूपैः सह महत् सादृश्यं वर्तते। विश्वचैतन्यं जाग्रदवस्थाया अधिष्ठातृचैतन्यं भवति; तस्य क्षेत्रं स्थूलशरीरम्। फ्रायडाभिमतं चैतन्यं तत्समानमेव ।

तैजसाख्यं चैतन्यं स्वप्नावस्थान्तर्गतं चैतन्यम् स्वप्नावस्थाभिमानि चैतन्यम्; सूक्ष्मशरीरं च तस्य क्षेत्रम् । तैजसाख्यं चैतन्यं पूववर्तिचैतन्यसदृशमेव; किन्तु तस्यायं विशेषोऽधिगन्तव्य: । फ्रायडमते स्वप्नावस्थाऽ- ज्ञातचैतन्यस्य क्षेत्रं वर्तते, न तु पूर्ववर्तिचैतन्यस्य । अथ च फ्रायडमते पूर्ववर्तिचैतन्यस्य प्रत्यक्षं प्रत्युद्बोधने प्रत्यभिज्ञाने च कर्तुं शक्यते । भारतीयदर्शनानुसारं जाग्रदवस्थायां स्वप्नाभिमानितैजसचैतन्यस्य व्यापारयितृत्वं नोपपद्यते । अज्ञातचैतन्यस्यानुव्याख्यानं सोदाहरणं मनोविश्लेषणपूर्वकं यथा फ्रायडमहाभागैः प्रस्तुतम्, तथा भारतीयमनोविज्ञानेनो- पलभ्यते। तथापि तस्य प्राज्ञसंज्ञकेन चैतन्येन सहात्यर्थं तादात्म्यं वर्तते। तत्रापि नूनमयं विशेषो भवति ।

प्राज्ञसंज्ञकं चैतन्यं सुषुप्त्यभिमानि चैतन्यम्, यस्य कारणशरीरं क्षेत्रं विद्यते। अज्ञातचैतन्यरूपं यत्स्वप्ने जाग्रत्काले चासामान्यमनोविकारेषून्मादादिष्वात्मानमभिव्यञ्जयति। भारतीयमतं तत्त्वज्ञानदृष्ट्यातिरमणीयम्। फ्रायडमतेऽज्ञातचैतन्यं निराधारं वर्तते। प्राज्ञसंज्ञकचैतन्यस्य शान्तमानन्दमयं च रूपम्; किन्तु खल्वज्ञातचैतन्यं फ्रायडमतेऽशान्तिमयम्, अशिवानां प्रवृत्तीनां समुच्चयोत्थम्, स्वप्नाद्यवस्थास्वभिव्यक्तरूप- मतिगभीरं च भवति। फ्रायडमहोदयानां मतेऽज्ञातचैतन्यं मनसोऽतिविशालमङ्गम्। प्राचां मते मनोव्यतिरिक्तं चैतन्यं भवति; किन्त्वर्वाचीनानां मनोवैज्ञानिकानां फ्रायडप्रभृतीनां मते मनोव्यतिरिक्तं चैतन्यं नास्ति; प्रत्युत मन एव चैतन्यरूपम्, चैतन्यं वेति विशेषः ।

एडलरमतम्

[सम्पादयतु]

जिगमण्डफ्रायडमहाभागो मोरेवियननगरे आस्ट्रियादेशे १९१३ वैक्रमाब्दे जन्म लब्धवान्। वियनानगरे स आयुर्वेदविज्ञानमधीत्य मनोविश्लेषणवादस्य प्रवर्तकत्वेन विश्वविश्रुतो जातः । १९९५ वैक्रमाब्दे हिटलरस्य निरङ्कुशशासनेन निष्कासितः स लन्दननामानं नगरमागतः । तत्रैव १९९६ वैक्रमाब्दे पञ्चत्वङ्गतः ।

तस्य द्वौ मनोविज्ञानशिरोऽलङ्कारभूतौ शिष्यप्रवरौ एडलर-युङ्गमहाभागावास्ताम्। अथातस्तयोर्मते वयमनुव्याख्यास्यामः ।

प्रथमं तावद् एडलरमतमेव विचार्यते -

अलफ्रेडएडलरमहोदयः प्रथमं फ्रायडमहाशयस्य शिष्य एवासीत् ; किन्तु कियत्कालानन्तरं तेन स्वकीयो "वैयक्तिकं मनोविज्ञानम्' इति मनोविज्ञानस्य सम्प्रदाय- विशेषः प्रवर्तितः। अतीव भ्रामकोऽयं पारिभाषिकः शब्दः । अयमस्माकं महतो दौर्भाग्यस्य विषय:, यतो ह्यनेन व्यक्तेर्मनोविज्ञानप्रतिपादनपरेभ्य इतरेभ्यो मनोवैज्ञानिकेभ्यो व्यावर्त्तकं साधर्म्यवैधर्म्यपूर्वकं किमपि लक्षणं न सूच्यते ? एडलरमहोदयेन फ्रायडमहोदयैः प्रतिपादितानां केषाञ्चन सिद्धान्तानां भृशं प्रत्याख्यानं सम्पादितम्। तेनावदमनं नैव स्वीक्रियते, कामवृत्ते विकाससम्बन्धिमतमपि स नैवोररीकरोति, अज्ञातचैतन्यं प्रत्यपि स ध्यानं न प्रदत्ते। मानसिकपूर्वलक्षणानां मूलं कारणं स प्रथमं शारीरिकावयवानां वैरूप्ये दौर्बल्ये वाभिमन्यते स्म; किन्तु स इमां गवेषणादिशं परित्यज्य मानसिकमतस्फोरण एव तदनन्तरं सँल्लग्नो जातः । एडलरप्रतिपादितं मानसिकरोगविज्ञानं पौरुषेये विरोधे सन्निविष्टम्।

प्राक्तनैर्दार्शनिकैर्यः प्रभुत्वैषणाव्यपदेशेन' जीवनैषणाव्यपदेशेन च व्याख्यातः, स एव पौरुषेयो विरोध इतीर्यते । नूनमयमहङ्कार एव, येनाऽभिप्रेरितोऽयं मानवोऽन्यान् स्ववर्गीयान् बन्धुबान्धवान् वातिशयितुं कामयते, निरन्तरं बलधनाद्युपार्जनार्थं प्रयतते, स्ववातावरणं नियन्त्रयितुमभिवाञ्छति च । प्रभुत्वैषणा हि तन्मते शेषी; दारैषणा, वित्तैषणा, लोकैषणा इत्यादिकं तच्छेषरूपम्। यदि चायमहङ्कारः प्रतिरोधमवाप्नुते, जटिलसामाजिकव्यवहारे च तस्य सर्वतो दिशि आशा वर्तते, तदायं मानवो दैन्यमुपैति, हीनताग्रन्थिश्चास्य मनसि निरूढा जायते । तदा स एतां दुर्बलतामपाकर्तुं किं वा अन्यैरुपायैस्तत् पूर्तिं कर्तुं प्रयतते । यदि चेमे दैन्यक्षतिपूर्त्त्यर्थं सम्पादिताः प्रयत्नाः सफलीभवेयुस्तर्हि स दैन्यमपाकर्तुं सफलीभवति । यदि चैतानि क्षतिपूर्त्यर्थमभिप्रयुक्तानि प्रयतनानि न सामाजिकानि, न नैतिकानि, विगर्हितानि वा भवन्ति, तदा सा हीनताग्रन्थिः सुदृढा जायते मानसिकविकाराँश्चोन्मादादीन् जनयति । न कामप्रवृत्तेरवदमनं मानसिक- विकाराणां मूलकारणम्, यथा फ्रायडमहोदया अभिमन्यन्ते; प्रत्युत आत्मप्रदर्शनेच्छायाः प्रभुत्वैषणाया वा प्रतिरोध एव असामान्यमनोविकाराणां बीजं भवतीति तेषामभिसन्धिः।

यदि हीनताभावस्य क्षतिपूर्त्यर्थं प्रयुज्यमानानि साधनानि समाजोपयोगीनि समाजप्रशस्तानि न भवेयुः, तर्हि मानवः सामाजिककार्येभ्यः सामाजिक- समुदायेभ्यश्चोपारमते, क्षुद्रे परिवारसमुदाय एव सङ्कीर्णतामुपेति तत्रैव प्रभुत्वैषणापूर्ति कर्तुमिच्छति। मानसिकविकारेभ्य उन्मादादिभ्यः सोऽवसरः प्रदीयते, यस्मिन् रोगी स्वेच्छया निरङ्कुशशासनं स्वगृहे कर्तुं प्रभवति ।

एडलरमते कामप्रवृत्तिर्हि मैत्रीभावस्य पराकाष्ठा । तद्विपरीतं फ्रायडमहाभागाना- मेतदभिमतमासीद्यत् कामवासनायाः परिणामविशेष एव मैत्रीभाव इति । अथ च फ्रायड- महोदयाभिमतं यत् कामप्रवृत्तिरेव स्वलैङ्गिककामासक्तिद्वारा सामाजिकभावनारूपं विन्दतीत्यपि तेन प्रत्याख्यातम्। असामान्यमानसिकविकारा अपि फ्रायडमतानुसारं कामप्रवृत्त्यहङ्कारयोः सङ्घर्षाज्जन्यन्ते; परन्तु एडलरमतेऽहङ्कारप्रभवाण्येव सर्वाणि असामान्यमानसिकविकार- पूर्वलक्षणानि ।

ननु कस्माद् हेतोः विक्षिप्तस्य प्रतिक्रिया पौरुषेयविरोध इति व्यपदिश्यते ? स्यादेतत् तस्मात् कारणाद् यन्मानव एवं परमपुरुषार्थस्य चरमादर्शरूपम्। स्त्रीणाञ्च जीवनं पुरुषार्थस्य निम्नतमं स्तरं द्योतयति । कैश्चन लेखकैः प्रतिपादितं यद् वयं स्त्रीणां मानसिकक्रियासु नूनमविकसितमनसो रूपं लभामहे । तत्र मूलप्रवृत्तिप्राधान्यं प्रयोजनान्वितव्यापाराभावश्च विद्यते । पुरुषश्च बुद्धेः, इच्छाशक्तेः, आत्मसाक्षात्कारस्य चावबुद्धं मूर्तिमद्रूपमिति ।

सुतरां तावद् यदा विक्षिप्तः सामाजिकसमुदायेभ्य उपरतो जायते, तस्योन्मुक्तकल्पनाः प्रादुर्भवन्ति, यासु वस्तुस्थितिभ्यः परावर्तनं सन्निहितं भवति ।

कस्तस्योपायः? व्यक्तिगतमनोविज्ञानानुसारं विक्षिप्तस्य बाल्यकालिकजीवनयापन- विधिरन्वेष्टव्यः। अयं जीवनयापनविधिर्विशेषेण परिवारे तस्य स्थानविशेषं किं वा बालकेषु स प्रथम आसीत्, द्वितीयो वाऽन्तिमो वा, तस्य जन्मनः कियद्वर्षानन्तरमन्यो बालो जात:-इत्यादिकं विज्ञायानुसन्धेयः, तस्य हीनताग्रन्थेः विमोचनोपायोऽयं भवितुमुचितः । यथा विक्षिप्तः सामाजिकदृष्ट्या अनैतिकं विगर्हितं कार्यं परित्यक्तुं समर्थो भवेत्, सामाजिकहितोपयोगिषु च तस्याऽभिरुचिः संवर्धेत, तथा तस्य पुनः शिक्षणमारब्धव्यम्। यथा तस्य अहङ्कारो जातीयादर्शमानमर्यादानुकूलो भवेत्, सार्वजनीनं कल्याणं चावहेत्, तथा तस्य क्रियाणां पथप्रदर्शनं विधातव्यम् । स्मरणीयं यद् यानि कार्याणि लक्ष्याणि वा तस्य शक्त्या सहानुकूल्यं भजन्ते, तान्येवोपदेष्टव्यानि, नेतराणि।

सन्दर्भाः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]