अश्वघोषः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अश्वघोष इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

अश्वघोषः संस्कृतसाहित्यस्य सुप्रसिद्धः कविः। साकेतनगरम् अस्य जन्मस्थानम् । साकेतनगरम् अधुनातनम् अयोध्यानगरमेव । एष आर्यसुवर्णाक्ष्याः पुत्र इति अस्य सौन्दरानन्दकाव्यान्ते आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यभदन्ताश्वघोषस्य महाकवेर्महावादिनः कृतिरियम् । इत्यस्मात् वाक्यादवगन्तुम् शक्यते । अस्य काल ईशायाः प्रथमशताब्दीति स्वीकृयते जिज्ञासुभिः । अयं सम्राजः कनिष्कस्य समकालिकः आसीत् । अश्वघोषः कनिष्कराजस्य गुरुः इति, सः जन्मना ब्राह्मणः आसीदिति, वेदादिशास्त्रेषु निष्णातः प्रतिवादिभयङ्करः महापण्डित आसीत् इत्यपि ज्ञायते। पश्चात् अश्वघोषः बुद्धस्य उपदेशैः आकृष्टः बुद्धसङ्घाध्यक्षात् वसुमित्रात् बौद्धदीक्षां प्राप्य बौद्धमतमङ्गीकृतवान् । अयम् सङ्गीतेऽपि परिणतः आसीत् । अस्य गायनसमये अश्वाः अपि गानश्रवाणपरवशाः भूत्वा तत्समये तृणादीनि न सेवन्ते स्म । अत एव "अश्वघोष" इति अस्य नाम जातम् इति विचिन्तकाः वदन्ति ।

अश्वघोषः स्वर्णाक्षीपुत्रः पार्श्वस्य शिष्यश्च कथ्यते । स हि मगधराजाश्रितः आसीत् । उत्तरभारतशासकः कनिष्को मगधाधीशम् आक्रमणेन नमयित्वा राज्यस्य परिवर्त्ते वस्तुद्वयं दातुमादिष्टवान् – १. बुध्दस्य पात्रम् २. अश्वघोषञ्च । राजा मगधानां पात्रं दातुमुद्यतोऽपि कविमश्वघोषं दातुं नैच्छत् मन्त्रिणस्तं तथाऽवलोक्य चिन्ताग्रस्ता अजायन्त । राजा मन्त्रिणां बोधनाय उपायमेकं कृतवान् । स हि स्वाश्वशालास्थितेभ्योऽश्वेभ्यो दिनमेकं यावत् ग्रास् प्रदानं न्यषेधत् । दिनान्तरे सर्वेषां हयानामग्रे ग्रासं प्रदाय अश्वघोषाय स्वस्ङ्गीतिं कर्तुं प्रोक्तवान् अश्वघोषस्य सङ्गीतिमेव श्रोतुमैहन्त, तदा मन्त्रिणः कवेरश्वघोषस्य मूल्यमजानन् । तदवध्येवासौ तन्नाम्ना प्रयते स्म । वास्तविकं च तन्नामालुप्यत् । अश्वघोषः कथञ्चित् कनिष्केण सह कश्मीरान् गतस्तेन बहवादृतश्च । कनिष्कसमकालि कतयाऽश्वघोषस्य समयः प्रथम ई.पू.स्थिरः । अश्वघोषस्य काव्यं चीनभाषायाम् ३८४-४१७ ई. समयेऽनूद्तिम् । इत्सिङ्गो नाम चीनवासी यात्री अश्वघोषं महोपदेशकं नागार्जुनात् पूर्ववर्त्तिनञ्चाह । अयं साकेतवासीति प्रसिध्दम् ।

कृतयः[सम्पादयतु]

अश्वघोषस्य कृतित्वेन बहवो ग्रन्थाः प्रसिद्धा येषु सौन्दरनन्दं बुद्धचरितं च महाकाव्ये, सूत्रालङ्कारो वज्रसूचिश्च द्वौ बौद्धदर्शनग्रन्थौ, गण्डिस्तोत्रं गाथाग्रन्थः, शारिपुत्रप्रकरणञ्च प्रसिद्धानि । महाकवेः अश्वघोषस्य रचनाः तिबते चीनदेशे च प्रसिद्धाः । सौन्दरनन्दम् अष्टादशसर्गात्मकं प्रथमं महाकाव्यम् उपलभ्यते। अस्मिन् महाकाव्ये बुद्धोपदेशस्य कथाया वर्णनम् अस्ति। बुद्धः विमातृजं स्वभार्याप्रेमपाशेन बद्धं नन्दम् उपदिशति । नन्दः बुद्धोपदेशप्रभावेण सांसारिकसुखं परित्यज्य प्रव्रज्यां स्वीकरोति । संस्कृतसाहित्यस्य उपलब्धेषु नाटकेषु अतिप्राचीनं नाटकं 'शारिपुत्रप्रकरणम्' इति। शारिपुत्रप्रकरणम् इति नाटिका खण्डितावस्थायां लभ्यते । एतषां ग्रन्थानां समाप्तिवाक्येषु स्वमातरम् सुवर्णाक्षीं स्मरत्येषः । वेदं, रामायणं, महाभारतम्, आर्हतं, सांख्यं, वैशेषिकादिदर्शनानि च एषः सम्यक् जानाति स्म । अश्वघोषस्य नाटकानि लक्षणशास्त्रानुगुणानि एव सन्ति । अश्वघोषस्य कालिदासस्य च काव्येषु साम्यं दृश्यते । आचार्यपार्श्वेन अभिधम्मपिटकम् नाम्नः ग्रन्थस्य महाविभाषा नामकम् व्याख्यानम् रचयितुं साहाय़्य़ार्थम् अश्वघोषः काबूल्नगरं प्रति आहूतः आसीत् । इदं व्याख्यानं कनिष्कराजस्य काले विलिखितमिति ज्ञायते । अयं स्वस्य ’सूत्रालङ्कारशास्त्रग्रन्थे’ आश्रयदातारम् कनिष्कम्, आचार्यम् पार्श्वम्, महाभाषाव्याख्यानकर्तारम् वसुमित्रम् च स्तौति । एतान् ग्रन्थान् अतिरिच्य वल्लभदेवस्य सुभाषितावलौ अश्वघोषस्य पञ्च श्लोकाः दृश्यन्ते ।

सौन्दरनन्दं महाकाव्यम्[सम्पादयतु]

अष्टादशसर्गेषु निबद्धमिदं महाकाव्यं गौतमबुद्धस्य अनुजस्य नन्दस्य तत्पत्न्याः सुन्दर्याश्च कथानकं वर्णयति । काव्योत्कर्षदृष्ट्या सौन्दरनन्दं बुद्धचरितमतिशेते । अत्र हि कविनिखिलमेव कलाकौशलं काव्यवैभवञ्च व्यनक्ति । काव्यमिदं कुमारसम्भवस्य प्रतिस्पर्धं दृश्यते ।

अष्टादशसर्गात्मकेऽत्र महाकाव्ये इक्ष्वाकुवंश्यस्य राज्ञो नन्दस्य धर्मपरिवर्तनम् सुन्दर्या सह तत्पाणिग्रहणं च वर्णयति कविः । बहोः कालात् पूर्वं बुध्दाः काव्यमिदं नान्द्रिरयन्त । अत्र ग्रन्थे बुध्दधर्मेऽश्वघोषेण ये तर्काः प्रदर्शितास्ते ध्यानमाकर्षन्ति । इमे द्वे अपि काव्ये बुध्दधर्मेण सह सम्बध्दे । अश्वघोषस्य रुपकमन्यत्र प्रकरेणे निदर्शयिष्यते ।

बुद्धचरितम्[सम्पादयतु]

मुख्यलेखः : बुद्धचरितम्

बुध्दचरितं संस्कृतभाषामयं सप्तदशसर्गनिबध्दमेकं महाकाव्यं विद्यते । अत्र बुध्दस्य चरित्रमुपदेशंश्च कविरवर्णयत् । चतुर्दशसर्गस्य मध्यादयं ग्रन्थः चीनभाषानुवादेन सह न संवदति । प्रायोऽयं ग्रन्थः चतुर्दशसर्गमध्यभागपर्यन्त एव प्राप्यते स्म, तदनन्तरभागो नश्यति स्म । पश्चादसौ केनचित् कविना निर्माय पूरितः ।

गौतमबुद्धजीवनसम्बद्धमिदं महाकाव्यमष्टाविंशतिसर्गेषु विभक्तमासीदिति विश्वस्यते । सम्प्रतिस्तु तच्चतुर्दशसर्गपर्यन्तमेव लभ्यते । कथ्यते हि समग्रोऽयं ग्रन्थः तिब्बतीभाषायामनूदित आसीत् । ततश्च केनचिच्चीनदेशीयविपश्चिता चीनीभाषायां पुनरनूदितः । स एव ततो जान्सटनमहोदयेन आङ्गलेन आङ्गलभाषायां पुनरवतारितः । सोऽपि ततोऽपि सूर्यनारायणचौधरी महाभानेन हिन्दीभाषायामनुद्य प्रकाशितः, तमेवाधृत्य रामचन्द्रदासेन विपश्चितसंस्कृते पद्यानि, प्रणीतानि सन्ति। एतत्पूर्वमेव कश्चिन्नैपालीयः कविः काव्यस्यास्य समुपलब्धत्रयोदशसर्गातिरिक्तं सर्गचतुष्टयं प्रणीय संयोजितवानासीदिति विश्वनाथ-महोदयः स्वीये संस्कृतसाहित्येतिहासे[१] निर्दिशति । हेमराजश्च तं अमृतनन्दनाम्ना जानाति स्वीये संस्कृतसाहित्येतिहासग्रन्थे।[२] समुपलब्धभागेऽपि प्रथमसर्गस्य आद्याः सप्तश्लोकाश्चतुर्दशसर्गस्य चरमा एकाशीतिश्लोका अपि तेनैव पूरिता दृश्यन्ते । काव्येऽस्मिन् गौतमबुद्धस्य जन्मत आरभ्य धातुविभाजनपर्यन्ता कथा वर्णिताऽस्ति । काव्ये हि भगवत्प्रसूतिरन्तःपुरविहारः, संवेगोत्पत्तिः, स्त्रीविघाततोऽभिनिष्क्रमणं छन्दकनिवर्तनं तपोवनप्रवेशोऽन्तःपुरविलापः कुमारान्वेषणं श्रेण्याभिगमनं कामविगर्हणमराडदर्शनं मारविजयो बुद्धत्वप्राप्तिरिति चतुर्दशप्रकरणानि पूर्वभागे ।

बुद्धस्य काशीगमनं शिष्येभ्यो दीक्षादानं महाशिष्याणां प्रव्रज्याऽनाथपिण्डदस्य दीक्षा पितृपुत्रसमागमो जेतवनस्वीकृतिः प्रव्रज्यास्रोतः आम्रपाल्या उपवने आयुनिर्णयो निर्वाणमार्गे महापरिनिर्वाणं निर्वाणप्रशंसा धातुविभाजनमिनि तावन्त्येव प्रकरणानि उत्तरभागे च सन्ति । काव्यमिदमितवृत्तबहुलं रघुवंशप्रतिस्पर्धि । काव्येऽस्मिन् वैदर्भीरीतिः प्रसादश्च गुणः सार्वत्रिकः । अत्र हि कवेः कलाकौशलं, स्पष्टमेव प्रतिभाति । दिङ्मात्रं यथा -

रूपस्य हन्त्री व्यसनं बलस्य शोकस्य योनिर्निधनं रतीनाम् ।

नाशः स्मृतीनां रिपुरिन्द्रियाणामेषा जरा नाम ययैष भग्नः ।।[३]

आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तमिदं वपुश्च ।[४]

यत्नेन लब्धाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः ।

तेष्वात्मवान् याचितकोपमेषु कामेषु विद्वानिह को रमेत॥[५]

शारिपुत्रप्रकरणम्[सम्पादयतु]

प्राच्यनाट्यवैभवमण्डितस्यास्य प्रकरणस्य ताडपत्रलिखिता मातृका मध्येशियाभागे तुरफानाऽऽख्ये स्थाने सूडर्स-महाभागेन प्राप्ताऽऽसीत् । तत्र हि पुष्पिकावाक्ये 'सुवर्णाक्षी सुतोऽश्वघोष' इति वचनात् सूत्रालङ्कारेऽप्यस्य द्विर्नामग्रहणादत्यत्रत्यपद्यस्यैकस्य बुद्धचरितेऽपि पाठाच्चेदमेश्वघोषस्यैव कृतिरिति निश्चेतुं शक्यते । अत्र हि नवाङ्काः। नायकश्चास्य धीरोदात्तस्वभावः शारिपुत्रो यः खलु तरुणमौद्गल्यायनेन सह बुद्धाद्दीक्षामाप्नोति । प्रकरणमिदं सर्वानेव नाट्यनियमाननुपालयति । अत्र हि सशिष्यो बुद्धः संस्कृतेन विदूषकप्रभृतयस्तु प्राकृतेन व्यवहरन्ति । प्राकृतञ्च मागधी, अर्द्धमागधी तन्मिश्रञ्चेति त्रिविधं प्रयुक्तं दृश्यते।

एतदतिरिक्तमपि समुपलब्धे द्वे रूपकेऽपि अश्वघोषस्यैव कृती इति समालोचकाः मन्यन्ते, किन्तु तयोः पूर्णस्वरूपानुपलब्धेनं तु निश्चयेन तत् द्रढयितुं शक्यते ।

सूत्रालङ्कारः[सम्पादयतु]

बौद्धदर्शनशिक्षणपरस्यास्य ग्रन्थस्य केवलं तिब्बतीभाषायामनूदितं रूपमेव लभ्यते न तु मूलस्वरूपम् । अत्र हि नैतिकविचारोन्नायिकाः कतिपयाः कथाः सङ्गृहीताः सन्ति ।

वज्रसूची[सम्पादयतु]

ग्रन्थोऽयमपि बौद्धधर्मव्याख्यानपरो दूषयति च वर्णव्यवस्थापद्धतिम् । किञ्चेदं वर्णव्यवस्थानुगामिनः सूचीव भिनत्ति तेनेद व्रजसूची । केचिद्धि वज्रसूचीं धर्मक्रीतिकृतिं मन्यन्ते न त्वश्वघोषस्य । ते हि तथामनने कतिपयान् पक्षानग्रे सारयन्ति यत्तिब्बिती चीनी वा परम्परा कृतिमिमां नैवाश्वघोषसम्बद्धां मन्यते, यच्चीनदेश्यः इत्सिङ्गोऽश्वघोषरचनासु ग्रन्थमिमं नैवोल्लिखति, यदश्वघोषो हि न तथा वर्णव्यवस्थाविरोधी यथा ग्रन्थे प्रदर्शितमस्ति, यत्कृतेरस्याः प्रणयनशैली नैवावशिष्टाभिरश्वघोषकृतिभिः सह संवदते, यदस्य चीनीरूपान्तरमिदं धर्मकीतिप्रणीतं मन्यते इति । किन्त्वपरे तु ग्रन्थस्यास्य 'अश्वघोषो वज्रसूचिं ग्रन्थयामि यथामतम्' इति ग्रन्थारम्भवाक्यं 'कृतिरियं सिद्धाचार्याश्वघोषपादानाम्' इति पुष्पिकावाक्यमपि चाधारीकृत्य ग्रन्थमिममश्वघोषप्रणीतमेव मन्यन्ते । स्याद्यद्वा तद्वा । सम्प्रति तु ग्रन्थोऽयमश्वघोषकृतित्वेनैव संज्ञातोऽस्ति ।

महायानश्रद्धोत्पादकशास्त्रम्[सम्पादयतु]

शास्त्रमिदं शून्यवादविवेचकम् । अस्यापि मौलिकं रूपं तु नैवोपलभ्यते, किन्तु चीनी-भाषातः आङ्गलभाषायां सुजुकीर्तिख्यातेन जापानदेश्येन विपश्चिता कृतोऽनुवादोऽस्य लभ्यते । एतदतिरिक्तं गण्डीस्तोत्रगाथानामकं गीतिकाव्यं, राष्ट्रपालः ऊर्वशीवियोगश्च नाटयग्रन्थौ चाश्वघोषस्यैव नाम्ना गृह्यन्ते । गण्डीस्तोत्रं हि स्रग्धरावृत्तं गुम्फितमस्ति । इदं हि बुद्धधर्मसंघसमवेतस्तुतिकाव्यं मेघदूतप्रतिस्पर्धि ।

अश्वघोषो हि स्वसमयस्य प्रतिष्ठितो बौद्धविचक्षणः आसीद्यः पश्चाद्भगवद्रूपेणैव संस्तुतः । स हि प्रबलस्तार्किक उत्कृष्टदार्शनिकः मन्यते । स हि सरसकविः सफलनाट्यकारः सङ्गीतपारङ्गतश्चासीत् । स हि प्रथमो विचक्षणो येन दर्शनस्य नीरसा धारा काव्ये नितान्तसरसरूपेण प्रवाहिता । स हि न केवलं त्रिपिटकस्यैवापि तु श्रुतिस्मृतिपुराणानामपि मर्मज्ञः पण्डित आसीत् । तस्य हि काव्ये पुराणेभ्यः सुबहून्युदाहरणानि गृहीतानि सन्ति । यथा -

भुक्त्वाऽपि राज्यं दिवि देवतानां शतक्रतो वृत्तभयात्प्रणष्टे।

दर्पान्महर्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात ।।[६] इति ।

कालिदासेन सह साम्यम्[सम्पादयतु]

कालिदासाश्वघोषयोः कृतिषु विलक्षणं साम्यं दृश्यते । रघुवंशे हि अजसन्दर्शनलालसानां स्त्रीणां विचेष्टितं बुद्धचरिते तृतीयसर्गे तथैवानूदितमस्ति। नेतावन्त्रात्रमपि तु यत्र कुत्र तु वाक्यसंरचनाऽपि निकायं साम्यं बिभर्ति। दिङ्मात्रं यथा -

'सोऽनिश्चयान्नापि ययौ न तस्थौ, तरंस्तरङ्गेष्विव राजहंसः।'[७]

'मार्गाचलव्यतिकराकुलितेव सिन्धुः, शैलाधिरातनया न ययौ न तस्थौ।'[८]

यत्र कुत्र तु स्वाभाविकतायामश्वघोषः कालिदासमप्यतिशयमानो दृश्यते । यथा -

दीपो यथा निवृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।

दिशं न काञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात्केवलमेति शान्तिम्।।

तथा कृतिनवृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्।

दिशं न काञ्चिद् विदिशं न काञ्चित् क्लेशक्षयात्केवलमेति शान्तिम्।।[९]

स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा।[१०]

उभयोरेव काव्यविदो उपमसौष्ठवं यमकपरायणत्वञ्च प्रशंसनीयं दृश्यते । भाषाधिकारे तु कालिदासोऽश्वघोषं नितरामतिशेते । कालिदासस्य काव्यधाराऽबाधितेव प्रवहति । अश्वघोषस्य तु सा यत्र कुत्र विच्छिन्नेव कृत्रिमेव च दृश्यते । प्रथमस्य काव्यं हि मानवजीवनस्य सर्वाङ्गीणं चित्रमुपस्थापयति स्वाभाविकगत्या, किन्तु द्वितीयस्य तु तद्दार्शनिकविचारप्रतिपादकमेव । आद्यस्य हि काव्ये घटनाप्राधान्यं, द्वितीयस्य तु विचारभार एव । एकस्य काव्ये कल्पनासौष्ठवं कलाप्राधान्यञ्चापरस्य तु भावपक्षस्यैव वैशिष्ट्यम् । उभावेव शृङ्गारकरुणशिल्पिनौ किन्तु शान्तरसमधिकृत्य तु कालिदासादश्वघोष एव सफलः प्रतिभाति । रघुवंशे अजविलापापेक्षया बुद्धचरिते यशोधरायाः सौन्दरनन्दे सुन्दर्या विलाप एव प्रकर्षमाधत्त इति। उभावपि -

त्यजत मानमलं बत विग्रहान् पुनरेति गतं चतुरं वयः ।[११]

ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयास: पुनरेति चन्द्रमाः ।

गतं गतं नैव तु सन्निवर्तते जलं नदीनाञ्च नृणाञ्च यौवनम् ।।[१२]

प्रसन्नपदावल्यां दार्शनिकगूढविषयप्रतिपादनमेवाश्वघोषस्य सर्वातिशायि वैशिष्ट्यम् । स हि स्वपुर्ववर्तिकविभ्यो भास-कलिदासादिभ्यः प्रभाविर्ति असीदिति न किमप्याश्चर्यम् । यत्तु, कालिदासः विक्रमानन्तर ४३७-४७१ वर्षमितकालस्थितिमतो द्वितीयचन्द्रगुप्तस्य सभासदं मत्वाऽश्वघोषं तत्पूर्ववर्तिनं न मन्यते। द्वितीयचन्द्रगुप्तो हि समुद्रगुप्तस्य तनयः । समुद्रगुप्तः स्वकीयकृष्णचरिते कालिदासं स्वपूर्ववर्तित्वेन स्मरति । अतः तत्तनयस्य समकालिकत्वं न भवति। अपरञ्च समुद्रगुप्तस्य पितुः प्रथमचन्द्रगुप्तस्यैव शासनकाले कोशलो मगधसाम्राज्येऽन्तः पातितासीत् । तत्पौत्रसभासत्कथं नाम तादृशं प्रणष्टराज्यं राजवंशं स्वकाव्ये नायकत्वेनावतारयेदिति विषयोऽयं विवेकस्य । तेन हि कालिदासात्परवर्त्येवाश्वघोष इति स्पष्टमेव। स हि कुषाणवंश्यस्य कनिष्कस्य समकालिक इति बहुविधैः प्रमाणैः सिध्यत्येव ।

अश्वघोषस्य पाण्डित्यम्[सम्पादयतु]

अश्वघोषस्य साहित्यिकं पाण्डित्यं बौध्दर्शनज्ञानंचातीव गभीरमासीत् । स हि दार्शनिकमपि तथ्यं सरससरलशैल्यां समुपस्थापयति । अश्वघोषः पूर्वं ब्राह्मण आसीदतो ब्राह्मणसाहित्यस्यापि गाढं ज्ञानं रक्षति स्म । तत्कालप्रचलितानां नीतिशास्त्रकौटिल्यार्थशास्त्रवैद्यकादीनां ज्ञानेन सह व्याकरणस्य विस्तृतं ज्ञानं तेन रक्ष्यते स्म । तदीयं बौध्ददर्शनज्ञानं तु नितान्तसबलमासीत्, असौ योगाचारमतस्यास्यापक आसीत् । अश्वघोषेण शब्दानां विशिष्टेऽर्थं प्रयोगः कृतो योऽन्यत्र नासाद्यते, यथा ग्रन्त्री’ शब्दो यानार्थे ‘धर्मन्’ शब्दश्च व्यवहारार्थे ।

काव्यशैली[सम्पादयतु]

आश्वघोषः शैल्या कालिदासम् अनुकरोति इति भासते । कालिदासः यं शब्दं यस्मिन्नर्थे उपायुङ्त, अश्वघोषोऽपि तं तथैव प्रयुङ्ते । वैदर्भ्यां शैल्याम् अस्य पद्यानि हृद्यानि भवन्ति । उपमाद्यलङ्कारेष्वपि एतस्य नैपुणी प्रकृष्टा दृश्यते । कानिचिदत्र उदाह्रियन्ते ।

१.:ताः स्रस्तकाञ्चीगुणविघ्निताश्च, सुप्तप्रबुद्धाकुललोचनाश्च ।

वृत्तान्तविन्यस्तविभूषणाश्च, कौतूहलेनाभिबृता परीयुः ॥ बुद्ध च. ३-१४

२.:स हि स्वगात्रप्रभयोज्वलन्त्या, दीपप्रभां भास्करवन्मुमोच ।

महार्हजाम्बूनदचारुवर्णः, प्रद्योतयामास दिशश्च सर्वाः ॥ बुद्ध च. १-३२

३.:स्रस्तां नितम्बादवलम्बमानाम्, पुनः पुनः केसरदामकाञ्चीम् ।

न्यासीकृतां स्थानविदा स्मरेण, मौर्वीं द्वितीयामिव कार्मुकस्य ॥ बुद्धच. ३-५५

४.:ततो नृपस्तस्य निशम्य भावम्, पुत्राभिधानस्य मनोरथस्य ।

स्नेहस्य लक्ष्म्या वयसश्च योग्याम् आज्ञापयामास विहारयात्राम् ॥ बुद्धच. ३-३

५.:तां सुन्दरीं चेन्नलभेत नन्दः, सा वा न सेवेत नतं नतभ्रूः ।

द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्दौ ॥ सौन्दरा.

६.:नावजानामि विषयान् जाने लोकं तदात्मकम् ।

अनित्यं तु जगन्मत्वा नात्र मे रमते मनः ॥ बुद्धच. ४-८४

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ९१ सङ्ख्याकपृष्ठे
  2. ९० सङ्ख्याकपृष्ठे
  3. ३।३०
  4. १०।२३
  5. ११।२२
  6. बुद्ध. ११।१४
  7. सौन्दर० ४।४२
  8. कुमार० ५।८५
  9. सौन्दर० १६/२८, २९
  10. सौन्दर० ४/१२
  11. रघु० ९/४७
  12. सौन्दर० १

"https://sa.wikipedia.org/w/index.php?title=अश्वघोषः&oldid=443960" इत्यस्माद् पुनः प्राप्तिः