बुद्धचरितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
ध्यानमुद्रायां बुद्धः

बुद्धचरितम् (Buddhacharitam) अश्वघोषस्य प्रसिद्धं महाकाव्यम् अस्ति । अस्मिन् महाकाव्ये सप्तदश सर्गाः उपलभ्यन्ते। अयं ग्रन्थः बहुशः त्रिसहस्रश्लोकपरिमितः आसीदिति चीनादेशीयस्य प्रो.तककुसुमहाशयस्य भणितिरस्ति । किन्तु अधुना लभ्यमाने अस्मिन् काव्ये केवलम् १३६८ श्लोकाः सन्ति । किन्तु सप्तमेऽष्टमे वा शतके चीनाभाषया भाषान्तरिते, तिबतीयभाषया भाषान्तरिते बुद्धचरिते च २८ सर्गाः भवन्ति । एतेन ज्ञायते यत्, संस्कृतभाषायां "बुद्धचरितस्य" भागमात्रं लब्धम् इति । राजा शुद्धोदनः कपिलवस्तुनाम्नि नगरे राज्यभारं कुर्वन्नासीत् । तस्य पुत्रः सिद्धार्थः । सिद्धार्थः युवराजः । एतस्य समृद्धम् राज्यम्, प्रवृद्धः अधिकारः, सौन्दर्यवती प्रिया च भार्या यशोधरा । स्वर्गसमानं सुखमयम् जीवनं सिद्धार्थस्य आसीत् । तथापि सः वैराग्यमापन्नः कथम्? इति "बुद्धचरिते" वर्णितं कविना । तत्र महात्मनः बुद्धस्य सर्वांगीणचरितं निबद्धमस्ति। यथा-अभिनिष्क्रमणं, तपोवनगमनं, यशोधराविलापः, मगधयात्रावर्णनम्, सिद्धार्थस्य बुद्दत्वप्रापणम्, धर्मप्रचारः, शिक्षाप्रसारः इत्यादयः विषयाः सरलया भावपरिपूर्णया हृद्यावर्जकशैल्या वर्णिताः।अस्मिन् काव्ये बौद्धमतस्य पारिभाषिकाः शब्दाः यथेष्ठं विद्यन्ते । अश्वघोषः बौद्धमतस्य महायानपरम्परायाः प्रवर्तक आसीदिति बुद्धचरितादवगम्यते ।

Buddha's statue near Belum Caves Andhra Pradesh India.jpg

हृदयगतभावनाया उद्बोधिका भवति कविता । कविता मानव- हृदयमुत्तेजयति समाकर्षति च । अतः प्राचीनकालादेव मानवः धर्मस्य स्वोद्देश्यस्य च प्रचाराय कवितायाः आश्रयं गृह्णाति । महाकविः अश्वघोषोऽपि बौध्दधर्म –प्रचाराय काव्यं विरचितवान् । सौन्दरनन्दस्यान्ते कविना स्वयमेवोक्तम् – यथा तिक्तौषधिं पानाय मधुना सम्मेल्यते तथैवाहं धर्मप्रचाराय काव्यस्याश्रयं गृहीतवानस्मि । अत एव अश्चघोषस्य काव्यकृतिः बौध्दधर्मस्य दार्शनिकविचाराणां प्रचारिका विद्यते । तथापि अश्चघोषः प्रकाण्डविद्वानासीत् नात्र संशयः । बौध्ददर्शनेषु बौध्दसिध्दान्तस्यायं कविः आचार्य एवासीत् । अस्यैते प्रामाणिका ग्रन्थाः सन्ति –बुध्दचरितम्, सौन्दरनन्दम्, शारिपुत्र्प्रकरणञ्चेति । अन्ये ग्रन्थाः अन्तर्बाह्यप्रमाणाभ्यामनेन रचिताः न प्रतीयन्ते । काव्ये कतिचिदंशाः सरसाः काव्यकलादृष्ट्या चोत्तमाः विद्यन्ते । परिशेषास्तु नीरसा एव ।

जीवनचरितं स्थितिकालश्च[सम्पादयतु]

अश्वघोषस्य जीवनचरितविषये अद्यापि विद्वांसः सन्देहापन्ना एव । तथापि सौन्दरनन्दस्य पुष्पिकया एतत् प्रमाणितं भवति यत् अश्वघोषः साकेतस्य (अयोध्यायाः) निवासी आसीत् । सुवर्ण्याक्ष्याः पुत्रोऽश्वघोषः तार्किकः रामायण् महाभारतयोः विशेषज्ञ्श्चासीत् । सौन्दरनन्दस्य पुष्पिकायामेवं लिखितमस्ति “ आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यस्य भदन्ताश्वघोषस्य महाकवेः वादिनः कृतिरिति” अनेन प्रमाणेन साकेतनिवासी सुवर्णाक्षी-पुत्र इति च सिद्ध्यत्येव । राज्ञा कनिष्केन सह सम्बन्धः अपि आसीत्, यतो हि मातृचेटकविषु अश्वघोषस्य कवितायाः प्रभावो दृश्यते, अतः कनिष्कस्य समकालीनः किञ्चित् पूर्ववर्ती वाऽश्वघोष इति स्वीक्रियते । अतः अश्वघोषस्य स्तितिकालः १५० ईस्वीपूर्व सामान्यतः मन्यते । अश्वघोषविरचिते बुध्दचरितमहाकाव्ये महात्मनः गौतमबुध्दस्य चरित्रं वर्णितमस्ति अद्यप्यस्मिन् २८ सर्गाः आसन् तथापि सम्प्रति केवलं १८ सर्गाः समुपलभ्यन्ते । तेष्वपि प्राथमिकाः १४ सर्गाः एव अश्वघोषरिचिताः सन्ति । अन्ये चत्वारः सर्गाः केनापि नैपालदेशीयकविना रचिताः सन्ति । एतत् काव्यं मनिहरं प्रसादगुणयुक्तं चास्ति ।

वैराग्यस्य निमित्तम्[सम्पादयतु]

बुद्धस्य वैराग्यप्राप्तौ किं कारणम्? इति प्रश्ने, राजकुमारः प्रथमे विहारसमये वृद्धं मार्गचारिणं दृष्ट्वा सूतं पृच्छति, यथात्र श्रुणुमो वयं कविवाणीम् एवम्-

क एष भोः सूत! नरोऽभ्युपेतः ? केशैः सितैर्यष्टिविषक्तहस्तः ।
भ्रूसंवृताक्षः शिथिलानताङ्गः , किं विक्रियैषा प्रकृतिर्यदृच्छा ॥ बुद्धच. ३-२८

अस्य सूतेन समुचितम् उत्तरम् दत्तम्, यथा-

रूपस्य हन्त्री व्यसनं बलस्य, शोकस्य योनिर्निधनं रतीनाम् ।
नाशः स्मृतीनां रिपुरिन्द्रियाणाम् एषा जरा नाम ययैष भग्नः ॥ बुद्धच. ३-३०

अपि च-

पीतं ह्यनेनापि पयः शिशुत्वे, कालेन भूयः परिमृष्टमुर्व्याम् ।
क्रमेण भूत्वा च युवा वपुष्मान्, क्रमेण तेनैव जरामुपेतः ॥ बुद्धच. ३-३१

यदा द्वितीयवारं सः विहारयात्रार्थं बहिर्गच्छति, तदा त एव देवाः रोगिणम् मनुष्यम् ससृजुः । तं दृष्ट्वा गौतमः सूतं पृच्छति यथा -

स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्डुगात्रः ।
अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एषः? ॥

ततः सूतः तं वदति, " रोगाभिधानः सुमहाननर्थः" इति । तृतीयवारम् विहारयात्रासमये देवाः एकं गतश्वासं मनुष्यं ससृजुः । तम् अवलोक्य कुमारः " नरैश्चतुर्भिः ह्रियते क एषः? इति पृच्छति । तदा सूतः वदति यत्-

बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंज्ञः तृणकाष्ठभूतः ।
संवर्ध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियैस्त्यज्यत एष कोऽपि । इति । एतच्छ्रुत्वा शौद्धोदनिः संविग्नमानसः भवति।

एवम् त्रिवारं राजकुमारस्य यात्रासमये शुद्धान्तवासिनो देवाः मायं ससृजुः । तदनुगुणं मार्गे युवराजः क्रमेण वृद्धं, रोगिणं, मृतं च पश्यति, पृच्छति च सूतम् । राज्ञा आदिष्टोऽपि सूतः अवाच्यमप्यर्थम् देवमायया मुग्धः जगतः सर्वां दुःखवार्तां विवृणोति । तेन कुमारः सिद्धार्थः संविग्नमानसः बभूव ।

अनुवादाः[सम्पादयतु]

बुद्धचरितस्य चीनीभाषायामनुवादः 420तमे ख्रीष्टाब्दे धर्मरक्षमहोदयेन कृतम्। अयं चीनीभाषानुवादः सैम्युअल बील महोदयेन आंग्लभाषायाम् अनुदितः। तिब्बतीभाषामाश्रित्य यः अनुवादः उपलभ्यते सः अपि जान्स्टन महोदयेन आंग्लभाषायां अनूदितः। 1940 तमे ख्रीष्टाब्दे अस्य पाठस्य हिन्दीभाषायामपि अनुवादः सूर्यनारायणचौधरिमहाभागेन कृतः। मया च भवनाथेन झोपाख्येन पुनः अनुपलब्धस्य अंशस्य संस्कृतभाषायाम् पद्यानुवादः अश्वघोषस्य काव्यरीतिमवलम्ब्य कृतः इति। अस्य पञ्चदशे सर्गे भगवान् बुद्ध धर्मस्यावश्यकतां प्रतिपादयतिः- मया प्रतिज्ञातमिमं हि लोकं निभाल्य दुःखार्णववीचिमग्नम्। सन्तारयिष्यामि तटं प्रयातः मुक्तान् विधास्यामि जनान् प्रमुक्तः।।7।।

प्राप्य श्रियं स्वार्थपरो जगत्यां जनो विजिह्रेति सदानुरक्तः। उन्मीलिताक्षस्तु धनं विशिष्टं लब्ध्वा वितार्यं हि जनेषु वेत्ति।।8।।

दृढस्थलस्थो यदि पूरवाहितं कुष्णाति नद्या न हि नास्ति शूरः। अवाप्तसम्पत्तिरथो दरिद्रान् न विभृयाच्चेन्न हि सोस्ति शूरः।।9।।

स्वस्थैर्यथा व्याधियुतो मनुष्यः चिकित्सितव्यः सुलभोपचारैः। सन्मार्गयातश्च तथैव योजयेद् गम्येन मार्गेण कुमार्गिणो जनान्।।10।। (मत्कृतात् संस्कृतपद्यानुवादात्)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बुद्धचरितम्&oldid=444098" इत्यस्माद् पुनः प्राप्तिः