अहं सर्वस्य प्रभवो...
दिखावट
श्लोकः
[सम्पादयतु]![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
- इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाः भावसमन्विताः ॥ ८ ॥
अन्वयः
[सम्पादयतु]अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा बुधाः भावसमन्विताः मां भजन्ते ।
शब्दार्थः
[सम्पादयतु]- अहम् = परब्रह्म
- सर्वस्य = सकलस्य
- प्रभवः = उत्पत्तिस्थानम्
- मत्तः = परब्रह्मणः एव
- सर्वम् = जगत्
- प्रवर्तते = सम्भवति
- इति = एवम्
- मत्वा = विज्ञाय
- बुधाः = पण्डिताः
- भावसमन्विताः = प्रीतिसहिताः
- मां भजन्ते = मा सेवन्ते ।
अर्थः
[सम्पादयतु]अहं (परब्रह्म) सकलस्य मूलकारणम्, मत्तः (परब्रह्मणः) एव निखिलं जगत् सम्भवति इति मत्वा भावसहिताः पण्डिताः मामुपासते ।
रामानुजभाष्यम्
[सम्पादयतु]विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति— अहं सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभव उत्पत्तिकारणम् । सर्वं मत्त एव प्रवर्तते । इतीदं मम स्वाभाविकं निरङ्कुशैश्वर्यं सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनो भावसमन्वितां मां सर्वकल्याणगुणान्वितं भजन्ते । भावो मनोवृत्तिविशेषम्, मयि स्पृहयालवो मां भजन्त इत्यर्थम् ॥१०.८॥