आपस्तम्बकल्पसूत्रम्
आपस्तम्बकल्पसूत्रस्य द्वौ प्रश्नौ आपस्तम्ब-धर्मसूत्रयोर्नाम्ना विख्याती स्तः । बौधायनस्यापेक्षयाऽस्य भाषाधिका प्राचीना अपाणिनीया च नास्ति । अपि चानेकाप्रचलितानां विरलानां शब्दानामप्यत्रोपलब्धि स्ति, येनास्य प्राचीनता सिद्धिर्न भवति । संहिताया अनन्तरं ब्राह्मणानामनेकान्युद्ध रणानि प्रदत्तानि सन्ति । तैः प्राचीनधर्मस्योपरि दशग्रन्थकाराणां नाम्नां मतानाञ्चोल्लेखः कृतः । येषु काण्व कुणिक-कुत्स-कौत्स-पुष्करसादि-वार्ष्यायणि-श्वेतकेतु-हारीतादयो मुख्याः सन्ति। तथैवा पस्तम्बधर्मसूत्रे मीमांसाया: पारिभाषिकशब्दानां मीमांसासिद्धान्तस्य चाधिको निर्देशो मिलति । अपि चानेकविषयेष्वस्य निर्णयो जैमिनिना साम्यं धारयति ।
आपस्तम्बग्रन्थे धर्मशास्त्रस्यानेकमाननीयविषयाणां सिद्धान्तानाञ्च विवेचनमस्य. व्यापकदष्टे: परिचायकमस्ति । महर्षिणा गौतमेन वर्णसाकर्ययुक्तानां जातीनां वर्णनं कृतम्, परञ्चापस्तम्बोऽस्मिन् विपये मौनभावं धारयति । इमे नियोगस्य निन्दा कुर्वन्ति प्राजापत्यविवाहच समुचितो विवाह इत्यस्मिन् पक्षे सन्ति । एषां कालो बौधायना त्पश्चाद्वर्ती स्वीकर्तव्यः ।
निवासः
[सम्पादयतु]आपस्तम्बस्य निवासस्थानविषये विद्वत्सु मतभेदस्तिष्ठति। डॉ० बूलरमतेनायं दक्षिणभारतस्य ग्रन्थकारः सिद्धचति । आपस्तम्बेन स्वधर्मसूत्रे आसनोपविष्टानां पुरुषाणां हस्ते जलार्पणां श्राद्धीयप्रथामुदीच्यानां सम्प्रदाय इति कथितः । 'उदीच्यवृत्तिश्चेदासनगतेषूदपात्रानयनमिति । अस्मिन्नेव प्रमाणे ब्यलरे दाक्षिणात्यः प्रमाणीकृतः । परञ्च वस्तुस्थितिः विपरीता वर्तते ।
(क) विविधैः प्रमाणस्ते उत्तरदेशीयाः प्रतीयन्ते । सीमन्तप्रकरणे गायकान् अनयोर्मन्त्रयोः गायनस्य विधानं कृतमस्ति -
यौगन्धरिरेव नो राजेति साल्वीरवादिषुः ।
विवृत्तचक्रा आसीनास्तीरेण यमुने तव ।।
सोम एव नो राजेत्याहुब्राह्मणी प्रजाः ।।
विवृत्तचक्रा आसीनास्तीरेणासौ तव' ।
अस्य प्रथमे मन्त्रे यमुनायास्तटे निवसन्तीनां साल्वदेशीयप्रजानामुल्लेखः ऐतिहासिक महत्त्वं स्थापयति । साल्वदेशो वस्तुतो रावीनद्याः निकटे पञ्चनदप्रदेशस्यकोंऽश आसीत् । शाब्दिकेन पाणिनिना साल्वदेशस्योल्लेखो राजशासितस्य जनपदस्य स्वरूपे कृतस्तथा साल्वदेशस्यावयवस्यापि निर्देशस्तैः स्वसूत्रे 'साल्वावयवप्रत्यग्रथ-कलकूटा. श्मकादिज्' इत्यत्र विहितः । अपि चैषामवयवानां नाम्नां निर्देशः अस्यैव सूत्रस्य काशिकायां विद्यते, तद्यथा -
'उदुम्बरास्तिलखला भद्रकारा युगन्धराः ।
भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः' ।
एष्ववयवेषु युगन्धरस्य राज्ञः उल्लेखः उपरिनिर्दिष्टे आपस्तम्बगृह्यस्य प्रथमे पद्ये 'यौगन्धरिः' इत्यत्र विद्यते । अस्योल्लेखस्य कर्ता आपस्तम्बो यमुना-साल्वदेशाभ्यां परिचितः कोऽप्युत्तरभारतीयो जनः । नास्त्यत्र सन्देहावसरः ।
( ख ) श्रौतसूत्रे आपस्तम्बेन कुरुक्षेत्रस्य समीपवर्तिनां प्रख्यातस्थानानां नाम्ना निर्देशः कृतः । तेषु महत्त्वपूर्णानि स्थानानि सन्ति- परिणः, प्लाक्षप्रस्रवणः, त्रिप्लक्षः, अप्ययश्च ( द्वषद्वतीनद्याः लुप्तस्थानानि )। अपरञ्च ते कुरूणां पञ्चालानाञ्च बहुशः उल्लेखाः कुर्वन्ति, तथैव तन्निमित्तानां विशेषयज्ञानामपि । तेन नैमिषारण्यनिवासि भ्योऽपि यागविधानस्योल्लेखः कृतः । परिणामतः आपस्तम्बश्रौतसूत्राणां भौगोलिको देशः कुरुक्षेत्रं, तनिकटवर्तिनो भूक्षेत्रम् । इत्यनेन सिद्धयति-उत्तरभारतमापस्तम्बस्य विशेषपरिचितं स्थानमस्ति । एतद्विपरीतमेषु सूत्रेषु दक्षिणभारतस्य देशस्य तत्रत्य निवासिनाञ्च विषये कोऽपि निर्देशो न मिलति ।"
(ग) एषु सूत्रेषु प्रयुक्ताः शब्दाः संस्कृते अप्रसिद्धास्तथा कुरुपाञ्चालस्य देशभाषा यामद्यापि प्रचलिताः सन्ति । आपस्तम्बश्रौतसूत्रे अश्वाय प्रयुक्तः घोटशादो हिन्दी भाषायाः 'घोड़ा' इत्येवास्ति । तथैवारण्यमेषस्यार्थे प्रयुक्तः 'भयेडक'शब्दः हिन्दी. भाषायाः 'भेड़ा'शब्देन साम्यं स्थापयति । द्राविडीभाषायाः कोऽपि शत प्रयतो नास्ति। डॉ० गार्वमहाशयस्येदमनुमानं यत्-तम्बलवीणायाः प्रयोग नमिल देशीयवीणाय सूत्रेषु कृत इत्यप्रामाणिकः । गोभिलगृह्यसूत्रे ब्रह्मचारिणो विभिन्न वर्णानां रसनाविधानाय 'तम्बल शब्दस्य प्रयोगो दृश्यते यत्र टीकाकारेण भट्टनारायणेन तम्बस्यार्थः 'शण' इति कृतः, तद्यथा-'मुञ्जकाशौ प्रसिद्धौ तम्बल: शण उच्यते' ।
जैमिनीयगृह्यसूत्रं वैश्याय 'तमल'निमिता रशना इत्यस्य विधानं करोति । श्रीमता घरदत्तेन स्वटीकायां तमलं मूलोदकसंज्ञकस्तरुः स्वीकृतः । तथा च तमलो मूलोदक संज्ञो वृक्षः, तस्य त्वचा तामली इति । गोपीनाथभट्टास्तु ताम्बली-तामलीशब्दो पर्यायवाचिनो स्त. इत्यामनन्ति । तमलोऽथवा तम्बलो वृक्षविशेषस्याभिधानमस्ति । फलतः आपस्तम्बश्रौतसूत्रे प्रयुक्तस्य तम्बलवीणा'शब्दस्यार्थः–तम्बलवृक्षस्य त्वग्निमिता वीणा विद्यते। अतोऽमुं शब्दं द्राविडीभाषायाः शब्दः इति कथनं नितान्तमनुचितमस्ति ।
एभिः प्रमाणः आपस्तम्बस्य जन्मस्थानम् ‘उत्तरभारतम्'निश्चित रूपेणास्ति दक्षिण भारतस्य न भवितुमर्हति—इति निष्कर्षः ।