आवरणम् (पुस्तकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ಆವರಣ
आरवरणम्  
लेखकः एस् एल् भैरप्प
देशः भारतम्
भाषा कन्नड
प्रकारः काल्पनिकः
प्रकाशकः साहित्य भाण्डार, बालेपेट्, बेङ्गळूरु
प्रकाशनतिथिः 2007
माध्यमप्रकारः मुद्रितम् (कर्गद-कोरकयुक्तम्)
आई॰ऍस॰बी॰ऍन॰ 9781536682830
ओ॰सी॰एल॰सी॰ क्र॰ 969827460
पूर्ववर्ती मन्द्र
उत्तरवर्ती कवलु

आरवरणम् (ಆವರಣ) इति २००७ तमे वर्षे प्रकाशितः कश्चन कन्नड-कथाग्रन्थः वर्तते। एस् एल् भैरप्प अस्य ग्रन्थस्य च लेखकः। आवरणमिति पदम् आवृ धातुनिष्पन्नं, यस्य चार्थः अपह्नुतम् आवृत्तं वा। मुघलसम्म्राट् औरङ्गजेब अस्मिन् ग्रन्थे प्रामुख्येन उपख्यातः। आवरणग्रन्थस्य प्रथमसंस्करणस्य सर्वाः प्रतयः प्रकाशनात्(फेब्रुवरी २००७) प्रागेव विक्रीताः आसन्[१] पञ्चमासाभ्यन्तरे १० मुद्रण-संस्करणानि जातानि आसन्, अतः भारतीयसाहित्येतिहासे अयं ग्रन्थः निदर्शनरूपेन स्थितः। [२]

एस् एल् भैरप्प-महोदयस्य अन्यपुस्तकमिव आवरणमपि प्रसिद्धिं गता। परन्तु बहुवाद-विवाद-चर्चानां केन्द्रमपि जातमिदं पुस्तकं, यथा चान्यानि पुस्तकानि। केचन प्रसिद्धानां बुद्धिजीविनां मतानुसारं आवरणम् जातिवादं तथा च साम्प्रदायिकतत्त्वं प्रोत्साहयति। अनेन समाजस्य विभाजनम् अपि जायेत इति केचन उक्तवन्तः। अपरपक्षे लेखकस्य कथनं यत् सत्यं[३] सर्वदा यथावत् वक्तव्यं, येन पठितारः आत्मानं योजयितुम् शक्नुयुः। अत्र उल्लेखनीयं यत् लेखकेन समालोचनाः समादृताः।

अन्यासु भाषासु आवरणम्[सम्पादयतु]

आवरणपुस्तकमिदं कन्नड-तमिळ्-गुजरातीप्रभृतिभिः भाषाभिः श्रेष्ठविक्रीतपुस्तकरूपेन सम्मानितम्। २०१४ वर्षस्य फेब्रुवरीमासे सन्दीप-बालकृष्णेन अनुदितं आङ्ग्लसंस्करणं प्रकाशितम्[४]

भाषा शीर्षकं ISBN अनुवादकः प्रकाशकः
संस्कृतम् Aavaranam - डा. एच्. आर्. विश्वासः संस्कृतभारती
हिन्दी आवरण 9380146775 प्रधान गुरुदत्त किताबघर प्रकाशन
मराठी Avaran 8184980558 उमा कुलकर्णी Mehta Publishing House
तमिळ् तिरै - श्रीजय वेङ्कटरामण् -
आङ्ग्लभाषा Aavarana: The Veil 8129124882 सन्दीपः बालकृष्णः Rupa Publications India
गुजराती आवरण - सिद्ध दीक्षित् -


कथापात्राणि[सम्पादयतु]

  • लक्ष्मी (अलियास् राजिया)
  • आमीर्(लक्ष्म्याः पतिः)
  • नजीर्(लक्ष्म्याः पुत्र)
  • नरसे गौड्रु/ नरसिंह गौड्रु (लक्ष्म्याः पिता)
  • प्रो. एल् एन् शास्त्री
  • एलिजाबेथ् (एल् एन् शास्त्रिणः पत्नी)
  • दिगन्तः (एल् एन् शास्त्रिणः पुत्रः)
  • अरुणः (एल् एन् शास्त्रिणः पुत्री)


टिप्पणी[सम्पादयतु]

  1. "आवरण by S.L. Bhyrappa". Goodreads. 
  2. "ಬೇಗ ಓದಿ : ಭೈರಪ್ಪನವರ ಹೊಸ ಕಾದಂಬರಿ ‘ಆವರಣ’". Oneindia Kannada (in Kannada). Archived from the original on 6 April 2012. 
  3. "Distorting Indian History – S.L. Bhyrappa". Bharata Bharati. 22 May 2012. 
  4. "Aavarana–The Veil: A Personal Journey". 24 February 2014. Archived from the original on 24 February 2014. आह्रियत 27 May 2018. 

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आवरणम्_(पुस्तकम्)&oldid=481163" इत्यस्माद् प्रतिप्राप्तम्