उग्रसेनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उग्रसेन

सः यादवकुलस्य राजा आसीत्। यदुवंशस्य आहुकनृपतेः तनुजः । पुरा त्रेतायाम् एषः मथुरायां राज्यं शासति स्म । अस्य पुत्र एव कंसः । वसुदेवस्य पत्नी, कृष्णस्य जननी देवकी अस्य तनया । पुत्रः कंसः एनं कारागृहे निवेश्य सिंहासनमधिरूढवान् । यदा कृष्णः कसमवधीत्, तदा पुनः राज्यसिंहासनमधिरुह्य प्रजाः शशास । इत्येषा कथा भारतस्य सभापर्वणि, भागवते, विष्णुपुराणे च वर्णिताऽस्ति । स्कान्दपुराणे उग्रसेनस्य तीर्थयात्रावर्णनमस्ति । यादववंशः चन्द्रवंशस्य एका शाखा आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=उग्रसेनः&oldid=477598" इत्यस्माद् प्रतिप्राप्तम्