उत्तरगोवामण्डलम्
उत्तरगोवामण्डलम् North Goa District | |
---|---|
उत्तरगोवा जिल्ला | |
कोकोसमुद्रतटः | |
देशः | India |
राज्यम् | गोवाराज्यम् |
उपमण्डलानि | पेरनेम, बारदेज(मापुसा), बिचोलिम, सतारी(वलपोई), तिस्वाडी(पणजी), पोण्डा |
विस्तारः | १७३६ चतुरस्रकि.मी. |
जनसङ्ख्या(२०११) | ८,१८,००८ |
Government | |
• मण्डलसङ्गाहकः (District Collector) | मिहिर वर्धन |
• मण्डलशिक्षणाधिकारी | ए. वि. पवार |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
साक्षरता | ८९.५७% |
भाषाः | कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | northgoa.gov.in |
उत्तरगोवामण्डलं ( ( शृणु) /ˈʊttərəɡoʊɑːməndələm/) (हिन्दी: उत्तर गोवा जिला, आङ्ग्ल: North Goa) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पणजी इति महानगरम् । पणजीमहानगरं राज्यस्यास्य राजधानी अपि अस्ति । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।
भौगोलिकम्
[सम्पादयतु]उत्तरगोवामण्डलस्य विस्तारः १७३६ च.कि.मी.-मितः अस्ति । गोवाराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि, पूर्वदिशि च महाराष्ट्रराज्यस्य द्वे मण्डले स्तः । ते क्रमेण सिन्धुदुर्ग-कोल्हापुरमण्डले स्तः । अस्य दक्षिणदिशि दक्षिणगोवामण्डलम्, पश्चिमदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा - तेरेखोल, माण्डवी, जुवारी, चपोरा, साल ।
जनसङ्ख्या
[सम्पादयतु]उत्तरगोवामण्डलस्य जनसङ्ख्या(२०११) ८,१७,७६१ अस्ति । अत्र ४,१६,६७७ पुरुषाः, ४०,१३३ स्त्रियः, ७७,७०५ बालकाः (४०,०८१ बालकाः, ३७,६२४ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८५.६०% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ पेरनेम २ बारदेज(मापुसा) ३ बिचोलिम ४ सतारी(वलपोई) ५ तिस्वाडी(पणजी) ६ पोण्डा ।
कृषिः वाणिज्यं च
[सम्पादयतु]रागी(Finger millet), तण्डुलः, नारिकेलं, काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति । गोवाराज्यस्य मण्डलयोः काजूतकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]'कोको'समुद्रतटः नेरुलनदी-अरबीसमुद्रयोः सङ्गमे स्थितः अस्ति । एषः समुद्रतटः अत्रस्थेषु सर्वेषु समुद्रतटेषु प्रख्याततमः । अस्मिन् मण्डले बहवः क्रैस्तप्रार्थनालयाः सन्ति । यथा - 'सेन्ट फ्रांसिस', 'ऑफ असीसी', 'होली स्पिरिट्', 'पिलर सेमिनरी', 'सालीगांव', 'रकोल सेमिनरी', 'सेन्ट् कारजन' इति । अन्यान्यपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा - 'सेन्ट् आगस्टीन टावर', 'ननरी ऑफ सेन्ट मोनिका', 'सेन्ट एरक्स चर्च' च । अस्मिन् मण्डले प्रसिद्धाः देवालयाः अपि सन्ति, यत्र प्रवासिनः गच्छन्ति । तेषु देवालयेषु मुख्याः सन्ति - श्रीकामाक्षी, सप्तकोटेश्वरः, श्रीशान्तादुर्गः, महालसा-नारायणीमन्दिरं, परनेम भगवतीमन्दिरं, महालक्ष्मीमन्दिरं, श्रीदेवकीकृष्णमन्दिरं च ।
सिन्धुदुर्गमण्डलम् (महाराष्ट्रराज्यम्) | ||||
अरबीसमुद्रः | कोल्हापुर (महाराष्ट्रराज्यम्) | |||
उत्तरगोवामण्डलम् | ||||
दक्षिणगोवामण्डलम् |
बाह्यानुबन्धः
[सम्पादयतु]http://northgoa.gov.in/contacts.htm northgoa.gov.in