उदनेश्वरदेवालयः, पेरडाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



पेरडाल इति ग्रामः (अधुना बदियड्कग्रामः) कासरगोडुमण्डले वर्ततॆ। अस्य ग्रामस्य प्रमुखः देवालयः (ग्रामदेवालयः) अस्ति श्री-उदनेश्वरदेवालयः। देवालयस्य पुरस्तात् काचित् नदी प्रवहति या हि पेरडालनदी इति प्रसिद्धा।

पूजासमयः[सम्पादयतु]

प्रातः ७:३० वादने, मध्याह्ने १२:३०वादनॆ, रात्रौ ७:३० वादने च दैनिकपूजाः भवन्ति ।

उत्सवः[सम्पादयतु]

धनुसंक्रमणॆ वार्षिकी महापूजा भवति। महाप्रसादवितरणं भवति। ग्रामीणाः सर्वॆ स्वशक्त्यनुसारं सेवां कृत्वा कृतार्थाः भवंति। शिवरात्रौ अपि विशेषोत्सवः प्रचलति।

उपसन्निधिः[सम्पादयतु]

अत्र धर्मशास्तुः, कुट्टिच्चातस्य सन्निधी वर्तेते।

वसन्तवेदपाठशाला[सम्पादयतु]

वटूनां वेदाध्ययनाय वसन्तवेदपाठशाला प्रवर्ततॆ प्रतिवत्सरम्। इयं शाला एप्रिल्-मे-मासयोः प्रचलति। तस्मिन् काले विद्यालयानां घर्मविरामकालः इति कारणतः उपनीताः वटवः विरामस्य सदुपयोगं कर्तुं शक्नुवन्ति। ग्रामीणानां महाजनानां प्रोत्साहनेन इयं शाला कार्यं निर्वहति।

सम्बद्धाः लेखाः[सम्पादयतु]