उदयगिरि-खण्डगिरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उदयगिरिगुहाः
खण्डगिरितः दृश्यमानाः उदयगिरिगुहाः

उदयगिरिखण्डगिरी - भुवनेश्वरनगरे लिङ्गराजदेवालयः आकर्षकः अस्ति । समीपे बिन्दुसागरसरोवरः उत्तमः पवित्रः च अस्ति । समीपे ५ कि.मी दूरे उदयगिरि खण्डगिरि नामके स्थाने पर्वतप्रदेशे गुहाः निर्मिताः सन्ति । बौद्धयुगे निर्मिताः गुहाः आकर्षकाः सन्ति । अत्र द्विस्तरीयः राज्ञीवासः अतीव सुन्दरः कलात्मकः च अस्ति । हाथीगुहा, गणेशगुहा, सर्पगुहा, बाग् गुध, पावनगुम्फ (शुद्धीकरणस्थानम् ) इत्यादयः क्रिस्तपूर्वद्वितीयशतके निर्मिताः सन्ति । पातालगुहायां जयविजयौ, अलकापुरी, स्वर्गः इत्यादिकं दृष्टुं शक्यते । खण्डगिरिगुहायां २४ तीर्थङ्कराणा विग्रहाः सन्ति । एकत्र क्रीडापटवः, महिलाः, गजाः पुष्पं नयन् बकपक्षी, इत्यादीनि सुन्दरशिल्पानि सन्ति । खण्डगिरितः लिङ्गराजदेवालयस्य गोपुरं द्रष्टुं शक्यते ।

चित्रशाला[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उदयगिरि-खण्डगिरी&oldid=419030" इत्यस्माद् प्रतिप्राप्तम्