उपपदचतुर्थी
अवहननाय उलूखलम् । तादर्थ्ये चतुर्थी वाच्या (वा.) तादर्थ्ये उपकार्योपकारकभावसम्बन्धे विवक्षिते उपकार्यात् चतुर्थी भवति ।
अवहननाय उलूखलम् । अत्र उलूखलम् उपकारकम् अवहननम् उप्कार्यात् चतुर्थी एवं कुण्डलाय हिरण्यम्, यूपाय दारु, रन्धनाय स्थाली इत्यादावपि हिरण्यं दारु स्थाली च उपकारकम् । कुण्डलं यूपः, रन्धनञ्च उपकार्यम् उपकार्यात् । चतुर्थी इति ज्ञेयम् ।
कानिचन उदाहरणानि
[सम्पादयतु]- श्री गणेशाय नमः ।
- सर्वेभ्यः स्वस्ति ।
- अग्नये स्वाहा ।
- पितृभ्यः स्वधा ।
- भीमो बकाय अलम् ।
- वषड् इन्द्राय ।
‘नमः स्वस्ती स्वाहा स्वधालवषड्योगाच्च (पा. सू. -२/३/१६) एभिर्योगे चतुर्थी स्यात् । श्री गणेशाय नमः= श्री गणेशोद्देश्यकं नमनम् इत्यर्थः सर्वेभ्यः स्वस्ति = सर्व सम्बन्धि कुशलम् इत्यर्थः । पितृभ्यः स्वाहा = पित्युद्देश्यकं द्रव्यदानम् इत्यर्थः भीमो बकाय अलम् = भीमः बकमारणसम्बन्धि सामर्थ्यवान् इत्यर्थः । वषटिन्द्राय = ह्न्द्रोद्देश्यकं हविर्दानम् इत्यर्थः । भक्तिः ज्ञानाय कल्पते । क्लृपि सम्पद्यमाने च (वा.) क्लृपि धातौ तत्पर्याये वा प्रयुज्यमाने सति सम्पद्यमानेऽर्थे वर्तमानात् चतुर्थी स्यात् । सम्पद्यमानं नाम विकारात्मना उत्पद्यमानम् । भक्तिः ज्ञानाय कल्पते । अत्र भक्तिं संमर्द्य परिणामरुपेण उत्पद्यमानं ज्ञानं क्लृप्धातुश्च प्रयुक्तः । अतः ज्ञानशब्दात् चतुर्थी । एवं तण्डुलः ओदनाय सम्पद्यते इत्यादयः प्रयोगाः अपि वर्तन्ते । बालाय हितं क्षीरम् । हितयोगे च (वा. ) हितशब्द प्रयोगे चतुर्थी भवति । अत्र हितशब्दस्य प्रयोगः कृतः इति बालशब्दात् चतुर्थी । बालस्य सुखकृत् क्षीरम् इत्यर्थः ।