उपपदपञ्चमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



पञ्चमीविभक्तौ उपपदपञ्चमी अन्यतमा । ‘अन्यारादितरर्तेदिक् शब्दञ्चूत्तरपदाजाहियुक्ते’ (पा. सू. – २/३/२९) अन्य, आरात्, इतर, ऋते, दिक शब्द, अञ्चूत्तरपद, आच आदि इत्येतैर्योगे पञ्चमी विभक्तिः भवति । सूत्रे तदा इतरग्रहणं स्पष्टार्थम् इति ज्ञेयम् ।

बाल्यात् प्रभृति पञ्चवादने उत्तिष्ठति । मासात् आरभ्य मेघो वर्षति । कार्तिक्याः प्रभृति इति भाष्यप्रयोगात् प्रभ्रुत्यर्थ- योगे पञ्चमी भवति । प्रभृत्यर्थयोगे इति कथनात् ‘आरभ्य’ इत्यस्य योगेऽपि पञ्चमी भवति । बाल्यात्प्रभृति पञ्चवादने उत्तिष्ठति = बाल्यम् अवधिम् आदाय पञ्चवादेन उत्तिष्ठति इत्यर्थः । मासादारभ्य मेघो वर्षति= मासम् अवधिम् आदाय मेघो वर्षति इत्यर्थः ।

आरम्भ इत्यस्य योगे द्वितीयापि भवति । ‘अवीचीमारभ्य’ इति भाष्यप्रयोगात् । तेन ‘सूर्योदयमारभ्य आस्तमयाज्जपति इति सिध्दम् । प्रारम्भं कृत्वा इत्यर्थ ‘आरभ्य इत्यस्य योगे सप्तमी अपि । यथा – आरभ्य तस्यां दशमीन्तु यावत् इति । तस्यां प्रारम्भं कृत्वा इत्यर्थ ‘आरभ्य इत्यस्य योगे सप्तमी अपि । यथा – आरभ्य तस्यां दशमीन्तु यावत् इति । तस्यां प्रारम्भं कृत्वा दशमीपर्यन्तं यावत् इत्यर्थः ।

गृहाद् बहिः कुतः तिष्ठसि ? ‘अपपरिवहिरञ्चवः पञ्चम्याः’ (पा.सू.-२/१/१२) अप् परि बहिस्, अञ्चु इत्येते पञ्चम्यन्तेन वा समस्यन्ते । यथा – वनाद् बहिः= बहुर्वनम् । अनेन सूत्रेण पञ्चम्यन्तेन सह ‘बहिः’ इत्यस्य शब्दस्य समासविधानात् ज्ञायते यत् बहिर्योगे पञ्चमी भवति इति । बहिर्योगे पञ्चम्याः विधायकस्य सूत्रस्य अभावेन पूर्वोक्तात् ज्ञापकात् बहिर्योगे पञ्चमी भवति ।

शनैः शनैः गच्छति आलस्यात् । आलस्येन वा । विभाषा गुणेऽस्त्रियाम् (पा. सू. -२/३/२५) गुणे हेतौ पञ्चमी वा स्यात् । स्त्रीलिङ्गे तु पञ्चमी न भवति । अत्र आलस्यमिति गुणवाचकः शाब्दः । शनैः गमने आलस्य हेतुः । अतः आलस्यात् पञ्चमी भवति । पञ्चम्याः विकल्पेन विधानात् पञ्चम्याः अभावे हेतौ (पा.सू. २३.२३) इति सूत्रेण तृतीया भवति । अतः हेतुतृतीयायाः विकल्पेन गुणं प्रति अपवादभूता पञ्चमी इति ज्ञेयम् । दण्डात् घटः इति प्रयोगः चिन्त्यः एव । यद्यपि घटस्य दण्डः हेतुः, तथापि गुणवाचकादेव पञ्चमी भवति इत्युक्तत्वात्पञ्चमी न । दण्डस्तु न गुणः । अतः दण्डेन घटः इत्येव प्रयोगः । ‘प्रज्ञायाः मुक्तिः’ इत्यपि न भवति । यद्यपि प्रज्ञागुणः मुक्ते हेतुश्च तथापि ‘स्त्रीलिङ्गे’ न भवति इति निषेधात् पञ्चमी न भवति । प्रज्ञायाः स्त्रीत्वात् । इत्येवं पञ्चमीप्रयोगाः वर्तन्ते ।

कानिचन उदाहरणानि[सम्पादयतु]

  • प्राध्यापकात् प्राचार्यः अन्यः ।
  • न्यायाधीशात् न्यायावादी भिन्नः ।
  • अर्जुनात् कार्तवीर्यार्जुनः इतरः ।
  • सर्वेभ्यो विलक्षणो एषः ।
  • ननु सप्तभ्यः पदार्थेभ्यः तमः अर्थान्तरम् ।
  • ग्रामात् आराद् वनम् अस्ति ।
  • संस्कृतात् ऋते स्ंस्कृतिः दुर्ज्ञेया ।
  • ग्रामात् उत्तरो विद्यालयः ।
  • वैशाखात् पूर्वः चैत्रः ।
  • पर्वतः वह्निमान् धूमात् । नास्ति घटोऽनुपलब्धे ।
  • कृष्णाद् विना नान्या गतिः । (कृष्णं/ कृष्णेन विना नान्या गतिः)
  • ग्रामात् दूरं नगरम् । गृहात् अन्तिक गोष्ठम् ।
  • विप्रकृष्टात् वनमस्ति । वृक्षस्य अन्तिकाद् / निकटाद् गौः अस्ति ।

कर्मप्रवनीयपञ्चमी (उपपदविशेषः)[सम्पादयतु]

आ हिमालयात् चीनादेशः (आ=तेन विना) आ हिमालयात् भारत देशः । (आ=तेन सह) पञ्चम्यपाङ्परिभिः (पा.सू. -२.३.१०) अप आङ् परि इत्येतैः कर्म प्रवचनीयैः योगे पञ्चमी स्यात् । मर्यादा अभिविधिश्चेति द्वौ अर्थौ आडः । तादृशार्थकेन आडः योगे पञ्चमी भवति । मर्यादा नाम = तेन विना । अभिविधिर्नाम्= तेन सह । आ हिमालयात् चीनादेशः = हिमालयं वर्जयित्वा ततश्चीनादेशः । आ हिमालयात् भारतदेशः= हिमालयम् अभिव्याप्य भारतदेशः । अप= अपहरेः संसारः । परि=परि हरेः संसारः । हरिं वर्जयित्वा संसारः इत्यर्थः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उपपदपञ्चमी&oldid=419042" इत्यस्माद् पुनः प्राप्तिः