उपसर्गाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यनवः ।
उप आ ङिति विंशतिरेष सखे उपसर्गगणः कथितः कविना ॥

श्र्लोकेऽस्मिन् निस् दुस् च परित्यक्ते । निर् दुर् अनयोः सादृश्यात् । ते च प्रादयः क्रियायोगे उपसर्गसंज्ञां लभन्ते । तेषाम् योगात् परिवतनं स्यात् । तदुक्तम् –

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ॥

उपसर्गः धातोः अर्थ बलादन्यत्र नयति । यथा ’हृञ् हरणे’ धातोः उपसर्गयोगात् प्रहारादयः अर्थाः । यथा वा उपचयः वृद्धिः, अपचयः क्षयः । किन्तु उपसर्गयोगे अन्यः एव अर्थः भासते इति नियमः न विद्यते । उपसर्गवशात् त्रिधा अर्थगतिः सम्भवति । तदुक्तम् –

धात्वर्थं बाधते कश्चित् कश्चित् तमनुवर्तते ।
विशिनष्टि तमेवार्थम् उपसर्गगतिस्त्रिधा ॥

कदाचित् उपसर्गः धात्वर्थं बाधते । तथा चयनार्थकचिञ्धातोः उपोपसर्गयोगात् वृध्यर्थः उपचयः इत्यत्र । कदाचित् धात्वर्थमेव अनुवर्तते । यथा सूते प्रसूते । कदाचित् तमेवार्थं विशेषयति । यथा सरति अनुसरति । अनुसृत्य सरति इति धात्वर्थं विशेषयति ।

उपसर्गाः २२ सन्ति।

"https://sa.wikipedia.org/w/index.php?title=उपसर्गाः&oldid=457487" इत्यस्माद् प्रतिप्राप्तम्