प्र (उपसर्गः)
दिखावट
(प्र इत्यस्मात् पुनर्निर्दिष्टम्)
प्रादिकर्मण्युपरमे दिग्योगैश्वर्जन्मसु ।
- नर्मप्रेम्णोः प्रकर्षेऽग्रे ज्ञाने प्रसवभूषणे ॥
- दोषे नियोगेऽवसरे सेवासाहसशुद्धिषु ।
- उपयोगे प्रकथनेऽनवधानबहुत्वयोः ॥
- माने हिंसाशास्त्रानाम्नोर्वञ्चनार्थविपर्यये ।
- सन्न्यासमृत्योः कालेऽथ तथा स्यान्मन्दमुख्ययोः ॥
- १ आदिकर्मादिषु – प्रक्रमते भोक्तुम् ।
- २ उपरमे – उपरताः जनाः । प्रैति ।
- ३ दिग्योगे – प्राची दिक् ।
- ४ ऐश्वर्ये – प्रभुर्देशस्य ।
- ५ ज्न्मनि – हिमवतः गङ्गा प्रभवति ।
- ६ नर्मणि – प्रहसति ।
- ७ प्रेम्णि – प्रणयः ।
- ८ प्रकर्षे – प्रतपति । प्रवर्धते ।
- ९ अग्रे – अग्रं हस्तस्य प्रहस्तः । पादाग्रं प्रपदम् ।
- १० ज्ञाने – प्रणधिः । (गुप्तचरः प्रकर्षेण जानातीत्यर्थे प्रयोगः)
- ११ प्रसवे – प्रजनः ।
- १२ भूषणे – प्रसाधयति ।
- १३ दोषे – प्रलपति ।
- १४ नियोगे – प्रयड्क्ते ।
- १५ अवसरे – प्रस्यावः ।
- १६ सेवायाम् – नृपं प्रकुरुते ।
- १७ साहसे – परदारान् प्रकुरुते ।
- १८ शुद्धौ – प्रसीदति । प्रसन्नः ।
- १९ उपयोगे – शतं प्रकुरुते । व्ययीकरोति इत्यर्थः ।
- २० प्रकथने – प्रवक्ति ।
- २१ अनवधाने – प्रमाद्यति ।
- २२ बहुत्वे – प्रभूतम् । प्रचुरम् ।
- २३ माने – प्रदेशः । प्रस्थः ।
- २४ हिंसायाम् – प्रहरति ।
- २५ शास्त्रनाम्नि – प्रक्रिया । प्रकरणम् ।
- २६ वञ्चने – प्रतारकः ।
- २७ अर्थविपर्यये – प्रवसति । प्रतिष्टते ।
- २८ सन्न्यासे – प्रवजति ।
- २९ मृतौ – प्रैति प्रलयः ।
- ३० काले – प्राञ्चः ।
- ३१ मन्दे – प्रबद्धं वदति (मन्दं वदतीत्यर्थः)
- ३२ मुख्ये – प्रधानम् ।