प्र (उपसर्गः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रादिकर्मण्युपरमे दिग्योगैश्वर्जन्मसु ।

नर्मप्रेम्णोः प्रकर्षेऽग्रे ज्ञाने प्रसवभूषणे ॥
दोषे नियोगेऽवसरे सेवासाहसशुद्धिषु ।
उपयोगे प्रकथनेऽनवधानबहुत्वयोः ॥
माने हिंसाशास्त्रानाम्नोर्वञ्चनार्थविपर्यये ।
सन्न्यासमृत्योः कालेऽथ तथा स्यान्मन्दमुख्ययोः ॥
१ आदिकर्मादिषु – प्रक्रमते भोक्तुम् ।
२ उपरमे – उपरताः जनाः । प्रैति ।
३ दिग्योगे – प्राची दिक् ।
४ ऐश्वर्ये – प्रभुर्देशस्य ।
५ ज्न्मनि – हिमवतः गङ्गा प्रभवति ।
६ नर्मणि – प्रहसति ।
७ प्रेम्णि – प्रणयः ।
८ प्रकर्षे – प्रतपति । प्रवर्धते ।
९ अग्रे – अग्रं हस्तस्य प्रहस्तः । पादाग्रं प्रपदम् ।
१० ज्ञाने – प्रणधिः । (गुप्तचरः प्रकर्षेण जानातीत्यर्थे प्रयोगः)
११ प्रसवे – प्रजनः ।
१२ भूषणे – प्रसाधयति ।
१३ दोषे – प्रलपति ।
१४ नियोगे – प्रयड्क्ते ।
१५ अवसरे – प्रस्यावः ।
१६ सेवायाम् – नृपं प्रकुरुते ।
१७ साहसे – परदारान् प्रकुरुते ।
१८ शुद्धौ – प्रसीदति । प्रसन्नः ।
१९ उपयोगे – शतं प्रकुरुते । व्ययीकरोति इत्यर्थः ।
२० प्रकथने – प्रवक्ति ।
२१ अनवधाने – प्रमाद्यति ।
२२ बहुत्वे – प्रभूतम् । प्रचुरम् ।
२३ माने – प्रदेशः । प्रस्थः ।
२४ हिंसायाम् – प्रहरति ।
२५ शास्त्रनाम्नि – प्रक्रिया । प्रकरणम् ।
२६ वञ्चने – प्रतारकः ।
२७ अर्थविपर्यये – प्रवसति । प्रतिष्टते ।
२८ सन्न्यासे – प्रवजति ।
२९ मृतौ – प्रैति प्रलयः ।
३० काले – प्राञ्चः ।
३१ मन्दे – प्रबद्धं वदति (मन्दं वदतीत्यर्थः)
३२ मुख्ये – प्रधानम् ।
"https://sa.wikipedia.org/w/index.php?title=प्र_(उपसर्गः)&oldid=408407" इत्यस्माद् प्रतिप्राप्तम्