उष्णरक्तप्राणिनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
उष्णरक्तप्राणिनः
उष्णरक्तप्राणेनः
उष्णरक्तप्राणेनः

केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च उष्णरक्तप्राणिनः इति उच्यन्ते । उष्णरक्तप्राणिन: चयापचयया क्रियया स्वदेहोष्णं सन्धारयन्ति । सस्तन्य: पक्षिण: च प्रमुखा: उष्णरक्तप्राणिनः ।

उष्णोत्पत्ति:[सम्पादयतु]

उष्णरक्तप्राणिषु देहे उष्णोत्पत्ति: चयापचयया क्रियया सम्भवति । देहस्य जीवकोशा: आहारे विद्यमानं शर्करपिष्टं इङ्गाल तथा जलरूपेण विभज्यन्ते । तदा शक्त्या: उत्पादनं भवति । एषा शक्ति: अन्यजीवकोशानां कार्येषु उपयुक्ता भवति । आहारस्य शक्तिरूपेण परिवर्तन कार्ये ६०प्रतिशत शक्ति: जीविनां देहस्य उष्णता रूपेण परिवर्तिता । उष्णरक्तप्राणीनां देहरचना देहोष्णं सन्धारयितुं समर्था । सस्तन्यानां देहोष्णरक्षणार्थं चर्म रोमाणि च सन्ति । पक्षीणां कृते पक्षौ पिच्छा: च वर्तन्ते । यदा एषा बाह्यरक्षणा अपर्याप्ता तदा एते जीवा: स्नायुचलनां कृत्वा देहे उष्णतां संवर्धयितुं शक्नुवन्ति । यदि परिसरस्य उष्णता अधिका तर्हि केचन सस्तन्य: स्वेदनक्रियाया: सहायतया शरीरे जन्यम् अधिकोष्णं निवारयन्ति । अधिकश: सस्तन्य: तथा पक्षिण: तीव्रया श्वासोच्छासनक्रियया अपि उष्णं विसर्ज्य शरीरोष्णं निर्वहन्ति । सूक्ष्मजीविन: उष्णतायां वस्तुम् असमर्था: । अत: सूक्ष्मजीविनाम् आक्रमणात् स्वरक्षार्थं एव कालक्रमेण उष्णरक्तगुण: संजात: इति जीवविज्ञानिनां मत: । यत: कीटा: सरीसृपा: उभयवासिन: इत्यादि शीतरक्तप्राणिन: सूक्ष्मजीविनाम् आवासस्थानं भूत्वा शीघ्रं नश्यन्ति । स

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उष्णरक्तप्राणिनः&oldid=392183" इत्यस्माद् पुनः प्राप्तिः