एरवजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



एरवपदस्य निष्पत्तिः[सम्पादयतु]

‘एरव’ पदं ‘इरव’ पदात् निष्पन्नम् अस्ति । कोडगुभाषया ‘इर’ इत्युक्ते ‘भिक्षा’ इत्यर्थः । अतः इरव इत्युक्ते भिक्षुकः इत्यर्थः । एते उदरनिमित्तं भिक्षावृत्तिं आश्रितवन्तः सन्ति । एतस्य पदस्य अन्या व्युत्पत्तिः एवमस्ति । केरळस्य सामाजिकव्यवस्थायां कस्यचित् व्यक्तेः प्रतिष्ठा, स्थानमानाः च सः कियतः दूरतः स्वस्य अशुद्धतां सूचयति इत्यनेन निर्धरितं भवति स्म । तत्रत्य उच्चवर्णस्य जनाः स्वगृहस्य वितर्दिपर्यन्तम् आगन्तुं योग्यान् ‘इरावुळेर्’ इति आह्वयन्ति स्म । मलयाळभाषया ‘इर’ इत्युक्ते वितर्दिः, ‘उळेर्’ इत्युक्ते उपवेशनम् इत्यर्थः । अतः ‘इरावुळेर्’ एव ‘एरव’ इति परिवर्तितं स्यात् ।

एरवजनाङ्गीयानां लक्षणानि[सम्पादयतु]

एरवाः कोडगुमण्डलस्य दक्षिणभागे अधिकतया दृश्यन्ते । कोडगुमण्डले ये दासाः आसन् ते एरवाः इति अभिज्ञायन्ते इति कोन्नोर् (१८७०) अभिप्रायं वदति । एरवाः कृष्णवर्णाः अलककेशिनः, दृढोष्ठवन्तः, तीक्ष्णनासिकावन्तः, दीर्घहस्तपादवन्तः च । एतेषाम् औन्नत्यम् अपि न तावत् अधिकम् । एरवजनानां प्रभेदाः== एतेषु पञ्जिरि, पणि, बडग, काकेएरव च इति चत्वारः प्रभेदाः सन्ति । एते चत्वाराः अपि समानजनाङ्गीयाः इति अभिप्रायः एतावत्पर्यन्तम् आसीत् । किन्तु चत्वारः अपि कस्यचित् संयुक्तजनाङ्गस्य जनाः इति समाज-सांस्कृतिकाध्ययनदृष्ट्या वदन्ति चेत् सम्यक् न भवति । यतः तेषां पृथक् भाषा, वस्त्रं, समाजव्यवस्था च अस्ति (डा. पि.एन्. हरीश्.२००३) । वस्तुतः एरव इति कश्चित् पृथक् जनाङ्गः । ते एव पञ्जिरि एरवाः इति अभिप्रयन्ति ।

एरवजनानां सामाजिकव्यवस्था[सम्पादयतु]

एतेषु २३ कुलानि सन्ति । पूकरिमणे, करिचरते, काळप्पे च देवाः सन्ति । बालानां कृते पितामहस्य प्रपितामहस्य नामानि स्थापयन्ति । मार, चोम, तिरुनाड, अमाचे इति बालानां नामानि, मरे, चोमि इति बालिकानां नामानि भवन्ति । एतेषां प्रमुखः ‘कङलाडि’ । एतेषु चतुर्विधविवाहाः भवन्ति ।

  • १. समञ्जनविवाहः
  • २. चयनस्य विवाहः
  • ३. पलायनविवाहः
  • ४. बलात् विवाहः इति ।

विधवायाः पुनर्विवाहस्य अवसरः अस्ति । शवं भूमेः अन्तः स्थापयन्ति । असहजमरणं चेत् तन्नाम गजस्य प्रहारेण, व्याघ्रचित्रकयोः खादनेन, सर्पदशनेन, वृक्षात् पतित्वा च मरणं प्राप्नोति चेत् शवं दहन्ति । एते सर्वचेतनवादिनः । भूमिः, सूर्यः, चन्द्रः, शिलायाः च आराधाकाः । पिशाचे विश्वसः अस्ति । दैव-पिशाचेभ्यः बलिं यच्छन्ति ।एते दक्षिणद्राविडगणस्य भाषां वदन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एरवजनाङ्गः&oldid=419077" इत्यस्माद् प्रतिप्राप्तम्