कटलमेकलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कटलमेकलम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः शाङ्खधरः
देशः भारतम्
भाषा संस्कृतम्

लटकमेलकं नाम शङ्खधरकृतं प्रहसनं भगवदज्जुकीयात् परस्तात् ख्यातिमातनुते । बहुषु प्रहसनेषु ग्रन्थोल्लेखेन नाममात्रशेषेषु इदमद्यापि विजयते । कविः शङ्खधरो द्वादश्यां शताब्द्द्यां कान्यकुब्जाधीश्वरं गोविन्दचन्द्रमुपाश्रितो रचयामासैतत् । लटका धूर्तास्तेषां मेलकं सम्मेलनमत्र दृश्यतां नीतम् । यथाह कविः -

चित्रं चरित्रं स्खलितव्रतानां शीलाकरः शङ्खधरस्तनोति।

विद्वज्जनानां विनयानुवर्ती धात्री-पवित्रीकरणः कवीन्द्रः।।[१]

अनेन प्रहसनेन कृती शङ्खधर आचारभ्रष्टाननावृतस्वरूपान् व्यधात्। कविश्चायं नासामान्यं कमपि गुणं भजते, किन्तु अर्हतायाः विश्वासमालम्ब्याह -

कतिपयनिमेषवर्तिनि जन्म-जरा-मरणविह्वले जगति

कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः।।[२]

कथावस्तु[सम्पादयतु]

अस्मिन् प्रहसनेऽङ्कद्वये लटकमेलकस्य प्रधानपात्रं मदनमञ्जरी कथानकं व्याप्नोति । अस्याः कुट्टनी दन्तुरा भुजङ्गसङ्गीतकेनारभ्य वेश्यागामिनः परिगणयति - अज्ञानराशिस्तापसः दिगम्बरो जटासुरः आचार्यः सभासलिः, फुकटमिश्रः, महाभिषग् जन्तुकेतुः, ब्रह्मचारी कुलव्याधिः सङ्ग्रामविसरः, झकटकसारः, वन्दी व्यसनाकरश्चेति यथार्थनामान एव ।

आचार्यः सभासलिः शिष्येण कुलव्याधिना सार्धं मदनमञ्जर्याः प्रणयानुसन्धानपरो दन्तुरां प्रपन्नः। तदा विभीषितः स शिष्येण यत्ते भार्या कलहप्रिया कपालं ते द्विधा करिष्यतीति । अयमत्र पौरस्त्यो वृत्तान्तः – गृहे तौ दम्पती मिथो दन्तादन्ति, नखानखि, पादापादि, हस्ताहस्ति कलहायमानावास्ताम्। अन्ते च, उल्मुकः पीठकः भाण्डादिभिश्च प्रयुक्तैः युद्धतृप्तमानसं पतिं विधाय कलहप्रिया व्यसर्जयत् । तस्याः वार्धक्यकथितकलेवरत्वं सभासलिं शल्यमिव व्यथयति स्म । अत एवासौ मदनमञ्जर्यां मञ्जर्यामिव सहकारस्यालिः पतितः । तत्रोपस्थाय दन्तुरां श्वदष्टां दृष्ट्वा जन्तुकेतुं भिषजं तदुपचारायाकारयामास । विशेषज्ञोऽसौ स्वं प्राशंसत् -

व्याधयो मदुपचार-ललिता मत्प्रयुक्तममृतं विषं भवेत्।

किं यमेन सरुजां किमौषधैर्जीवहर्तरि पुरः स्थिते मयि।।[३]

अजा-पालन-परस्य दिगम्बरस्य जटासुरस्यान्यतमामजां कदाचिदज्ञानराशिर्वसतरी-भ्रमेण भक्षणार्थं निहतवान् । भ्रमेण मारितवाननपराद्धः एवाज्ञानराशिरिति निर्णयो मदनमञ्जर्याः सभायां सभासलिना दत्तः । अथ मिथ्याराशेर्जाया सुषुवे। अत्रान्तरे मदनमञ्जर्याः प्रीतये स्वर्णमयीमार्हतीं मूर्तिं दातुकाममागतं जटासुरं मललिप्तं दृष्ट्वा दन्तुरा तत्क्षणं द्वारादेव प्रताड्य अपसारयितुमादिदेश।

द्वितीयेऽङ्क वेश्या-प्रणय-समपतप्राणाः सङ्ग्रामविसर-झकटकसार-मिथ्याशुक्ल-फुङ्कटमिश्रप्रभृतयो मदनमञ्जरीं स्तुवन्ति । यथा मिथ्याशुक्लः परमार्थसुन्दरीं तां प्रशंसति -

किं नेत्रयोरमृतवर्तिरियं विधातुराद्या किमद्भुत-शरीर-विधान-लेखा।

संसार-सारमहह त्रिजगत्पवित्रं तद् रत्नमेतदुपसर्पति पङ्कजाक्षी।।[४]

यथा वा फुटमिश्रस्य सौन्दर्य-दर्शनप्रतिभास्फुरति -

लावण्यामृत-सरसी ललितगतिर्विकच-कमलदल-नयना।

कस्य न मदन-शरासन-विधुर-मनस्तापमनुहरति।।[५]

मिथ्या शुक्लः कलहायित्वा फुङ्कटंफुंकृत्य शण्ड इव कुशवृषं पलायनशरणं चकार। स्थूलां रजकीमुपभोगेन सम्भावयन्तं व्यसनाकर कलहप्रियो। दिगम्बरो जटासुरः कलि कृत्वा दवयांबभूव। जटासुरो दन्तुरयैव कामक्रीडापरमातुरो बभूव । तयोः परिणयं कारयञ्जङ्गमश्चतुर्वेदी मन्त्रमपठत् -

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।। [६]

इति स हरीतकद्वयं दक्षिणां दीयमानां दृष्ट्वा जटासुरेण कलहंचकार।

असौ कविर्निसर्ग-पर्यवेक्षण-कौशलमपि व्यनक्ति

मुखकमलं परिचुम्बन्नलि-भर-दर-दलितपद्मिनी निवहः।।

अयमुपसर्पति मन्दश्चन्दनवनपावन: पवनः।।[७]

भरत वाक्येनास्य सदिच्छापि व्यज्यते -

आस्तां विद्वत्प्रकाण्ड-श्रवणपुट-चमत्कारिकाव्यं कवीनाम्

अस्तुव्यामोहशान्तिः सृजतु हृदि मुदं निश्चलां चन्द्रचूडः॥

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १.७
  2. १.१९
  3. १.२२
  4. २.१८
  5. २.२०
  6. २.३४
  7. १.१०
"https://sa.wikipedia.org/w/index.php?title=कटलमेकलम्&oldid=437213" इत्यस्माद् पुनः प्राप्तिः